________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली [48] रसः षड्विध इत्यत्रापि पूर्ववद् व्याख्यानम्। यद् गन्धस्य भेदनिरूपणं तत्पारम्पर्येण पृथिव्या अपि स्वरूपकथनमित्यभिप्रायेणाह-गन्धो द्विविध इति / तदेव द्वैविध्यं वर्शयति - सुरभिरसुरभिश्चेति / असुरभिरिति सुरभिगन्धविरुद्ध प्रतिद्रव्यादिसमवेतं [fto] [48] अत्रापि पूर्ववद् इति - नानावयविषु नानारसः क्वचिदेकत्रेवावयविनि हरीतक्यादी नानारसः / यद्गन्धस्य इति-नन्वितरेषामपि रसादीनां भेदनिरूपणं पारम्पर्येण पृथिव्या एव भेदकथनमिति कथं गन्धबेलायामेवेदमुक्तम् ? सत्यम् / रसःषट्विधोऽपि पृथिवी षोढा व्यवस्थापयितुं न शक्नोति, एकावयविन्यपि षण्णां रखामा सम्भवात; गन्धस्तु व्यवस्थापयति, एकत्राश्रये गन्धद्वयाभावादिति / यत्त कर्दमकपंरारब्धे पिण्डे गन स्वस्वाश्रयाश्रितगन्धद्वयप्रतीतिरेत कपूरस्वण्डावयविन्तं कर्दमेन सह संयोगस्यैव भावात् / पाकादिन्यायेन कर्पूरकर्दमरूपकावयबारम्भेऽपि यदि सौर'भ्यमाभाति तदा पाकादेव 'सुरभैर्गन्धान्त रस्योत्पत्ति रसोरभ्यं चेदसुरभेरिति / अपवा सोऽप्यसुरभिः इति - ननु यथा कश्चित्स्पर्श उष्णः कश्चिच्छीतः कश्चिदनुष्णाशीतस्तथा गन्धोऽपि 'सुरभिरसुरम्यसुरभिरिति त्रिधाऽभ्युपगन्तव्यम् / नञ् प्रयोगेण तु शेषगन्धस्यासुरभावन्तर्भावे उष्णस्पर्शा दिन्योऽनुष्ण इति [पं०] [48] रसः षड्विध इति - मधुरतिक्तकटुकषायाम्ललवणभेदात् / अत्रापि पूर्ववद्व्याख्यानमिति कोऽर्थः ? यथा रूपमनेकप्रकारकं पृथिव्या वैधयं तथा रसः षड्विधः पृथिव्या वैधर्म्यमित्यर्थः / यद्गन्धस्य भेदनिरूपणं तत्पारंपर्येण पृथिव्या एव रूपकयनमिति - गन्धद्वैविध्यद्वारेण पृथिव्या एव द्विविधं स्वरूपं कथितम् / अन्यथा भेदरहिते न गन्धस्वरूपनिरूपणेवान्येभ्योऽबादिभ्यो वैधम्यं सिद्धम् / किं भेदकथनेनेति भावः / [कु०] 30.17) / अय भावः-यथा नीलमित्यनुवृत्तप्रत्यया नीलत्वजातिरेका एवं चित्रमित्यनुवृत्तिप्रत्ययबलाच्चित्रत्वमपि जातिरेका स्वीकतव्या, तदपलापे जातिमात्रविलयापत्तेरिति / न हीति (कं. 30.22) परमसूक्ष्मस्य त्र्यणुकस्य स्वरूपं विविच्य रूपस्वाबान्तरजातिमत्तया चित्रमिति न गृह्यते इतीष्टापादनस्ताभास इत्यर्थः / एवं तकिते विषये प्रयोगमाह विवादेति (कं. 30.26) / अवयविरूपत्वात् -एकद्रव्यरूपत्वात् / यत्तु शुक्लादीनां रूपाणामेकैकव्यक्तितया शुक्लत्वादिजातिभेदं न सहन्ते भेदप्रतीतिमाश्रयभेदो तारतम्यप्रतीति वाश्रयमिश्रणेव निर्वहन्ति तेषामापाकनिक्षिप्तकुम्भस्याविनाशे पूर्वरूपविवृत्तिप्रतीतिरुत्तररूपोत्पावप्रतीतिश्च न स्यात्, कुम्भविनाशे तु ते स्यातामपि तथाप्यनेकव्यक्तिवृत्तेमित्यस्य सामान्यलक्षणापत्तौ गोत्वादिभिः सह परापरभावानुप[प] त्तेर्जातिसङ्करप्रसङ्गो द्रष्टव्यः / [F] [48] पूर्ववद्वयारव्यानमिति (कं. 30.28) स्फटिकादौ गन्ध [व]त्पाकजरूपेणानुमानाद्रसविशेषसिद्धौ रसत्त्वावान्तरजातिमन्तर्भाव्य रसत्त्वादिकरणसमवायः पृथिव्या वैधर्म्यमिति रूपेण साम्यं द्रष्टव्यम् / गन्धमात्रस्य पृथिव्येकवृत्तितया [त]द्भेदनिरूपणस्याप्रस्तुतत्वशङ्का (म) पनयनसङ्गतिमाह यदिति (कं. 30.28) / पारम्पर्येणेति (कं. ३१.१)-भास्वराभास्वररूपभेदवद्गन्धभेदस्य द्रव्यभेदव्यवस्थापकत्वभ्रमनिरासो नेति भावः / नत्रः पर्युदासवृत्ति 5 सुरते-अ, ब3; १द्वयो-म, ब; 2 वयविन्त-अ%; 3 सोऽवइय-अ, ब, क; 4 तदणकादेव- अ,ब; 6. सौरत्यं-अ,व; 7 सुरभिरसुरभ्यसुरभिरिति-अ,ब; सुरभिरसुरभिरसुरभ्यनसुरभिरिति-ड;