________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम न्यायकन्दली पान्तिरेऽभावात् / नन्वेवं तहि नानारूपैयणुकरारब्धे द्रव्ये न चित्ररूपग्रहणम्, तदवयवरूपग्रहणाभावात् ? को नामाह 'न तथेति, नहि परमसूक्ष्मस्य वस्तुनो रूपं विविच्य गृह्यते, यस्य तु विविच्य गृह्यते तस्यावयवरूपाण्यपि गृह्यन्ते / यस्त्वव्यापकानि बहूनि चित्ररूपाणीति मन्यते, तस्य नीलपीताभ्यामारब्धं द्वितन्तुके रूपानुत्पत्तिरेकैकस्यावयवरूपस्यानारम्भकत्वात् / अथ मतम्-तत्रोभाभ्यामेकं चित्रं रूपमारभ्यते, 'तदान्यत्रापि तथा स्यादविशेषात् / विवादाध्यासितं 'चित्रद्रव्यमेकरूपद्रव्यसम्बन्धि द्रव्यत्वावितरद्रव्यवत्, तद्गतं रूपमेकमवयविरूपत्वाद् इतरावयविद्रव्यरूपवत् / [टि०] त्यत्रापि रूपिद्रव्यत्वादिति 'द्रष्टव्यम् अन्यथा *वाय्वाकाशादिना म्यभिचार: स्यात् / तद्गतं 5 रूपम् इति - ननु रूपस्य तावदेकत्वमसिद्ध साध्यत्वात तत्कथं रूपमित्यत्र पक्षे एकवचनम् ? न 'ओत्सर्गिकत्वात् / भवयविग्रहणं पथककालोपजायमानपरमाणुनानारूपव्यवच्छेदार्थम् / अवयविरूपत्वाद इत्येकावयविरूपत्वादित्यर्थः अन्यथा नानावयव रूपैरनेकर्व्यभिचार: स्यात् / दृष्टान्ते द्रव्यग्रहणं स्वरूपकथनार्थ व्यवच्छेद्याभावात / [पं०] तस्य नानारूपयणुकारबद्धद्रव्यस्य येऽवयवा द्वयणुकलक्षणास्तेषां यद्रूपं तद्ग्रहणाभावात्। यस्त्विति = म्योमशिवः। अव्यापकानि बहनि चित्ररूपाणीति मन्यते इति चित्रत्वेन संमतस्य वस्तुनो रूपाणि अव्यापकानि परस्परविशकलितानि बहूनि मन्यते / चित्रपटे यावन्तोऽवयवास्तावन्ति रूपाणि मन्यते / न तु सर्वैरवयवैरेकमेव चित्ररूपमारभ्यत इति मन्यत इत्यर्थः। द्वितन्तुक इति=द्वितन्तुकपटे / अवयवरूपस्येति तन्तुरूपस्य / अन्यत्रापि तथा स्यादिति बहुभिरप्येकमेव . चित्ररूपमारभ्यत इत्यर्थः / बहुभिरप्यवयवैरेकमेव चित्ररूपमारभ्यत इति प्रयोगं दर्शयति विवादाध्यासितं व्यमित्यादिविवादाध्यासितं द्रव्यं चित्रपटलक्षणम् / द्रव्यत्वादिति - रूपद्रव्यत्वादिति व्याख्येयम् / अन्यथा द्रव्यत्वादितिकृते बायोरप्येकरूपसंबंधित्वं प्राप्नोति / इतरद्रव्यवदिति -अचित्रपटद्रव्यवत् / पुनः प्रयोगं दर्शयति-तद्गतं रूपमेकमित्यादि सदगतं = चित्रपटगतम / इतरावयविद्रव्यरूपवदिति-अचित्रपटावयविद्रव्यरूपवत् / [कु०] प्रसङ्गाच्चित्रमेकं रूपं साधयति क्वचिदेकस्यामपोति (कं. 30.3) / अनेके (न) प्रकाराः प्रकृतयोऽसमवायकारणानि नीलपीतादीनि यस्य तदनेकप्रकारं मित्ररूपं तस्येत्यर्थः / कथमेतदिति (कं. 30.4) चित्ररूपस्यकत्वे कि प्रमाणमित्यर्थः / नन्वचित्रे सर्वेषां समानजातीयं प्रत्येव सामर्थ्यमित्यत आह-"न च परस्परविरोधादिति (कं. 30.8) / न रूपं प्रतीयते किन्तु केवलमेव द्रव्यं प्रतीयते इत्यत आह-अरूपस्येति - (कं. 30.9) / द्रव्यस्याप्रत्यक्षत्वे अवयवरूपाभावमुपाधिमाशङ्कयातिप्रसङ्गेनापाकरोति अवयवरूपाणीति (कं. 30.9) / श्यामशुक्लेति (कं. 30.12) श्यामत्वादिव्यतिरिक्तैकजात्याक्रान्तमित्यर्थः / चित्रत्वं नामैका जातिमपश्यतः प्रत्यवतिष्ठन्तो को विरोध इति (कं. 30.15) / इह विरोधाच्चित्रमपह्नवानः प्रष्टव्यो जायते। किं कारणं विरोधाच् चित्रानुस्पादः, कार्यस्यैव विरोधाग्निःस्वभावता वा, कारणविरोधोऽपि भाववदन्यान्योपमर्दकतया नीलपीतादीनामितरेतराभाव[व]त्तया वा? नाद्य इत्याह -न तावदिति (कं. 30.15) / न द्वितीय इत्याह - स्वरूपान्यत्वमिति (कं. 30.16) / तथापीतरेतराभाववतामपि दण्डचीवरचक्रादीनामेककार्यकरत्वदर्शनादित्यर्थः / कार्यविरोधपक्षं प्रत्याह-विचित्रकारणेति (कं. 3 द्रव्यं -जे. 1, जे. 3 / 4 द्रव्यम् - अ, ब, क / 1 नेति-जे. 1, जे.३। 2 तदन्यत्रापि-कं. 1, कं. 3 / *आकाशादिना-अ। 5 रूपमेवेति -अ, ब। 6 उन