________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् न्यायकन्दली सम्भूय तैरारभ्यते / तच्चारभ्यमाणं विविधकारणस्वभावानुगमाच्छयामशुक्लहरितात्मकमेव स्यात्, चित्रमिति च व्यपदिश्यते / विरोधादेकमनेकस्वभावमयुक्तमिति चेत् ? तथा च प्रावादुकप्रवादः-"एकञ्च चित्रञ्चेत्येतत्तच्च चित्रतरं ततः" इति / को विरोधो नोलादीनाम्, न तावदितरेतराभावात्मकः, भावस्व'भावानुगमादन्योन्यसंश्रयापत्तेश्च / स्वरूपान्यत्वं विरोध इति चेत् ? सत्यमस्त्येव / तथापि चित्रात्मनो रूपस्य नायुक्तता, विचित्रकारणसामर्थ्यभाविनस्तस्य सर्वलोकप्रसिद्धन प्रत्यक्षेणैवोपपादितत्वात् / अचित्रे पार्श्वे पटस्येव तदाश्रयस्य चित्ररूपस्य ग्रहणप्रसङ्गस्तस्यैकत्वादिति चेन्न, अन्वयव्यतिरेकाभ्यां समधिगतसामर्थ्यस्यावयवनानारूपदर्शनस्यापि चित्ररूपग्रहणहेतुत्वात्, तस्य च [टि०] अचित्रे पावें इति-रूपं तावच्चित्रं सकलपटव्यापकं ततो यथा रक्ते पटप्रदेशे पटप्रतीतिर्भवति तथा एकस्य चित्ररूपस्य तत्रापि च रक्तेऽवयवे वर्तमानस्योपलम्भः प्रसज्यते / तस्य च पार्वेति तस्यावयवनानारूपदर्शनस्येत्यर्थः / तदन्यत्रापि इति-यथा विजातीयाभ्यां तन्तुरूपाभ्यां द्वितन्तुके रूपमारभ्यते तथा समस्तेऽप्यवयविनि विजातीयरेव रूपरूपारम्भः स्यादेव, द्वितन्तकरूपारम्भयोविशेषाभावात / विवादाध्यासितमिति-सम्बन्धीति समवायकारणे नेत्यर्थः अन्यथा नैकरूपसम्बन्धः संयुक्तसमवायलक्षणो मञ्जिष्ठाहरितालनीलीद्रव्यसंयोगिनि पटादिद्रव्येप्यस्तीति अनैकान्तिकता स्यात् / एककालं चैकरूपसमवायः साध्यः अन्यथा नानाकाले नानारूपा श्रयेण परमाणुना व्यभिचार: स्यात् / द्रव्यत्वादि [पं०] अयमत्र भावः -पटापेक्षया तन्तुरवयवः / तन्वपेक्षया अंशुकः / अंशुकापेक्षया प्रत्यंशुकः / एवं परमाणौ विश्रान्तिः / परमाणुश्च नी (नि)रूपः / एवं रूपोच्छेदप्रसंगः / परः प्राह विरोधावेकमित्यादि / प्रावादुकप्रवाद इति-प्रावादुको धर्मकीतिः / चित्रतरमिति = आश्चर्यतरम् / श्रीधरः पृच्छति को विरोधो नीलादीनामित्यादि। 'भावस्वभावानुभावादिति / विधिमुखेन प्रतीतेरित्यर्थः / अन्योन्यसंश्रयापत्तेश्चेति नीलसिद्धे तदभावात्मकनौलं सिध्यति / अनीले सिद्धे नीलमित्यन्योन्याश्रयत्वम् / तदाश्रयस्येति स एव पट आश्रयो यस्य चित्ररूपस्य तत्तदाश्रयम् / तस्य तदाश्रयस्य / तस्यकत्वादिति-चित्ररूपे यस्यैकत्वात् / अवयवनानारूपदर्शनस्यापि चित्ररूपग्रहणहेतुत्वादिति-न केवलं पटाख्यावयविरूपग्रहणं चित्ररूपग्रहणे हेतुः, अवयवनानारूपदर्शनमपि चित्ररूपग्रहणे हेतुरित्यपेत्यर्थः / तदवयवरूपग्रहणाभावादिति [कु०] ननु व्यक्तिभेदेन समवेतानि नानारूपाणि कथं पृथिव्या व्यवच्छेदकानि, भागासिद्धत्वादिति चेत्, न, अनेकावान्तरभेदवदेकजातीयस्य पृथिवीत्यजात्याक्रान्ते धर्मिणि व्याप्यवृत्तित्वाविरोधात् / नैवम् , तोये तेजसि च तत्रावान्तरजातिभेदस्यैकयैव विधया समवायादिति / [त]तश्च तोये तेजस्त्वात्यन्ताभाववद्वत्तित्वान्नीलत्वपीतत्वाद्यधिकरणं रूपं पृथिव्या एव वैधर्म्यमित्यर्थः / 1 त्येतच्चित्रतरं तमः-जे.१, जे.३ / 2 इतरेतराभावात्मकत्वं-जे. 1, जे. 3 / 3 °भावानुभवात् - जे.१, जे. 3 / 4 तन्तुरूपाभ्यां इति अ.ब.क.पुस्तकेषु नास्ति। 5 स्यादेवं - अ, ब. 6 द्वितन्तुकरूपारम्भयोविशेष भावात -अ, ब, क; 7 कारणत्वेनेत्यर्थः-३ 8 ग्रयेण-अB 9 -स्वभावानुगमात्-क.।