________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली [47] यद्यपि रूपं त्रयाणाम् समानम्, तथाप्यवान्तरभेदापेक्षया तदपि पृथिव्या एव वधर्पमित्याह - रूपम नेकप्रकारकमिति / अत्रापि क्षितावेवेत्यनुसन्धानीयम् / शुक्लपीताद्यनेकविधं रूपं क्षितावेव नान्यत्रेत्यर्थः / एकस्यां पृथिवीत्वजातौ नाना रूपाणि व्यक्तिभेदेन समवयन्ति / क्वचिदेकस्यामपि व्यक्तावनेक प्रकाररूपसमावेशः, यत्र नानाविधरूपसम्बन्धिभिरवयवैरवयव्यारभ्यते / कथमेतदिति चेत् ? उच्यते यथा वयवैरवयव्यारब्धस्तथावयवरूपैरवयविनि रूपमारब्धव्यम्, अवयवेषु च न शुक्लमेव रूपमस्ति, नापि श्याममेव, किन्तु श्यामशुक्लहरितादीनि / न च तेषामेकं रूपमेवारभते नापराणीत्यस्ति नियमः, प्रत्येकमन्यत्र सर्वेषामपि सामर्थ्यदर्शनात् / न च परस्परं विरोधेन सर्वाण्यपि नारभन्त एवेति युक्तम् / चित्ररूपस्यावयविनः प्रतीतेर रूपस्य द्रव्यस्य प्रत्यक्षत्वाभावाच्च / न चाजयवरूपाणि समुच्चितान्यत्र चित्रधिया प्रतीयन्ते, 'तैरेवावयवी प्रत्यक्ष इति ‘कल्पनायामन्यत्रापि तथाभावप्रसङ्गेनावयविरूपोच्छेदप्रसङ्गः, तस्मात् [टि०] [47] 'अन्यत्रापि तथाभावेति -तन्तूनामपि नीरूपत्वे '[तदबयवानामंशनामपि स्वावयवापेक्षयाऽवयवित्वात् नीरूपत्वे एवं परमाणावेव रूपसदभावेऽप्रत्यक्षत्वप्रसङ्गश्च / न तावदितरेतरेति-इतरेतराभाववत्त्वमेवास्ति] नत्वितरेतराभावरूपता / अन्योन्येति-नीलाभावे "पोतिभावात् पीत्यभावे च नीलाभावादिति / [पं०] [47] त्रयाणामिति = पृथिव्यप्तेजसाम् / अवान्तरभेदापेक्षयेति - अवान्तरभदाः पीतहरितादयः / नानारूपाणीति - खटिकाधातु हरितालादीनि / "अन्यत्रेति एक व[विधं? ]पटादौ / अथ रूपरहितस्यैवावयविद्रव्ये रूपोपलब्धिभविष्यति / तनिराकुर्वनाह-अरूपस्य द्रव्यस्य प्रत्यक्षत्वाभावाच्चेति कोऽर्थः ? यदि तैरवयवी नारभते ततोऽवयविनोऽरूपत्वप्रसंगः / अरूपस्य च न प्रत्यक्षत्वमित्यर्थः। समूच्चितानीति = मिलितानि / पटे-चित्रावयविनि / अन्यत्रापीति =अचित्रे पटावयविनि / तथाभावप्रसंगेनेति-रूपमवयवेष्वेवेतिप्रसंगेन / अवयविरूपोच्छेदप्रसंग इति [कु०] [47] यद्यपि गन्धसाहचर्येणैवासाधारणत्वं रूपस्य सिद्धं तथापि प्रकारान्तरेणाप्यसाधारणत्वप्रतिपादनपरं भाष्यमिति व्याचष्टे यद्यपीति (कं. 29.26) / मत्वां (नन्व) नेकप्रकाररूपस्य नीलत्वपीतत्वादिसमुच्चितजात्याश्रयत्वं बा, एकस्यामेव पृथिवीव्यक्तौ नीलपीतादिव्यक्तिसमच्चयो वा? नाद्यः परस्परविरुद्धयोर्जात्योरेकत्र समावेशानुपपत्तेः। द्वितीयोऽपि न व्याप्त्या अनुपलम्भबाधात्, नाव्याप्त्या रूपस्य व्याप्यवृत्तिताविरोधादित्यत आह - एकस्यामिति (कं. 30.2) / 1 त्रयाणाम् तथाप्य - कं. 1, कं. 2 / 2 वैधर्म्यमाह - कं. 1, कं. 2 / 3 'नुषञ्जनीयम् - जे. 1, जे. 3 / 4 प्रकारो-जे. 1, जे. 3 / 5 रवयवरूप-जे. 1, जे. 3 / 6 ररूपस्य प्रत्यक्ष° -जे. 1, जे. 3 / 7 तेनैवा -कं. 1, कं. 2 / 8 कल्पनाप्रामाण्य -जे. 1, जे. 3 / 9 अन्यवापि-ड। 10 [][ ] एतच्चिह्नान्तर्गतः पाठः अबपुस्तकयो स्ति। 11 पीताभावात्पीताभावे च-अ, ब, क; 12 अत्रापि-कं.।