________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [46-47-48] अद्भिः सामान्यवचनाद् द्रवत्वम् / उत्तरकर्मवचनात् 'संस्कार इति / क्षितावेव गन्धः / रूपमनेक प्रकारं शुक्लादि / रसः षड्विधो मधुरादिः / गन्धो द्विविधः सुरभिरसुरभिश्च / स्पर्शोऽस्या अनुष्णाशीतत्वे सति पाकजः / न्यायकन्दली [46] अद्भिः सामान्यवचनाद् द्रवत्वम्, “सपिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम्" (वै. सू. 2-1-7) इति वचनात् पृथिव्यां नैमित्तिकं द्रवत्वमस्तीत्युक्तम् / मधूच्छिष्टशम्देन सिक्यस्याभिधानम् / उत्तरकर्मवचनात् संस्कार इति / "नोदनादाद्यमिषोः कर्म, तत्कर्मकारिताच्च संस्कारात् तथोत्तरमुत्तरञ्च" (वै. सू. 5-1-17) इति सूत्रकारेण इषो पार्थिवद्रव्ये कर्महेतुः संस्कार इति दर्शयता पृथिव्यां वेगोऽस्तीति ज्ञापितम्, अविद्यमानस्याहेतुत्वात् / यथा चैक एव संस्कार आपतनात् तथोपपादयिष्यामः / / ____क्षितावेव गन्धः। 'अयमस्यार्थः-केवल एवायम साधारणो धर्म इति / सुगन्धि सलिलम्, सुगन्धिः समीरण इति प्रत्ययाद् द्रव्यान्तरेऽपि गन्धोऽस्तीति चेन्न, पार्थिवद्रग्यसमवायेन तद्गुणोपलब्धः / कथमेष निश्चय इति चेत् ? तदभावेऽनपलम्भात् / [टि०] [46] तथोत्तरम् इति-यथा 'नोदनाद्यस्य कर्मण उत्पत्तिस्तथोत्तरस्योत्तरसंस्कारादित्यर्थः तदभाव इतिपार्थिवद्रव्याभावे वायौ जले च गन्धो नोपलभ्यते, अत एव सन्निहित पार्थिवद्रव्यगन्ध एव जलवाय्वोरुपलभ्यते न तु गन्धान्तरम् / [पं०] [46] नोदनाविति - नोद्यनोदकयोरविभागहेतुः संयोगविशेषो नोदनम्, तस्मान्न च कर्मवत्संस्कारा अपि. 'नवनवा उत्पद्यन्ते इत्याह-यया चैकेत्यादिना / तथोपपादयिष्याम इति गुणपदार्थे। द्रध्यान्तरेऽपीति-क्षितिव्यतिरेकसलिलसमीरणादो। तदभावे इति = पार्थिवद्रव्याभावे / [कु०] [46] कारणमसमवायिकारणत्वमिति व्याख्येयमिति ज्ञापितमनुमानेन / प्रयोगस्तु उत्तरकर्मासमवायिकारणवत् कर्मत्वात् प्रथमकर्मवत् / अत्रैव विपक्षे बाधकमाह अविद्यमानस्येति (कं. 29.21) / रूपादीनां गन्धसाहचर्येणासाधारणत्वं, गन्धस्य तु स्वरूपेणेति प्रदर्शनपरं भाष्यमिति व्याचष्टे 'अस्यायमिति (कं. 29.23) / पाथिवेति (कं. 29.24) समीरणसलिलसंयुक्तपार्थिवद्रव्यसमवेतो गन्धः समीरणे सलिले वोपलभ्यते इत्यर्थः / स्फटिकादावदर्शनादयमव्यापक इति चेत् न, अनमानसिद्धेः / तथाहि 'स्फटिको' गन्धवान् पाकनरूपवत्त्वात्, कदलीफलवत्; इतरथा पाक [ज] रूपवानपि न स्यात् / [प्रा] गभावव्यतिरिक्तसामग्र्यभेदात्पाकजानामिति / 1 संस्कार:-कं. 1, के. 2 / 2 प्रकारकं. कि., पा. ५-पु.। 3 अस्यायमर्थः-जे. 1; जे. 3 / 4 °मसाधारणधर्म इति-कं. 1; कं. 2 / 5 नोहनाद्यस्य-अ, नोदनाद्यस्य-ब; 6 अयमस्यार्थ:-कं.। .. .