________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली 'गन्धसचरितचतुर्दशगुणवत्त्वमपि पृथिव्या इतरेभ्यो वैध→मिति प्रतिपादयन्नाहरूपरसगन्धेति / 'अत्र द्वन्द्वानन्तरं 'मतुपप्रत्यययोगात् प्रत्येकं रूपादीनां 'पृथिव्या सह 'सम्बन्धो लभ्यते। सूत्रकारस्याप्येते गुणाः पृथिव्यामभिमता इत्याह-एते चेति / गुणानां विनिवेशो द्रव्येषु वृत्तिः, सा प्रतिपाद्यत्वेनाधिक्रियतेऽस्मिन्निति गुणविनिवेशाधिकारो द्वितीयोऽध्यायः / तस्मिन् रूपरसगन्धस्पर्शाः पृथिव्यां सिद्धाः सूत्रकारेण प्रतिपादिताः-रूपरसगन्धस्पर्शवती पृथिवीति (वै. सू. 2-1-1) / चाक्षुषवचनात् सप्त सङ्घयादयः / “सङ्ख्या परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि" (वै. सू. 4-1-1) इति चाक्षुषवचनाद् रूपबत्यां पृथिव्यां सङ्घयादयः सप्त सिद्धाः / यदि ते रूपिद्रव्येषु न सन्ति तत्समवायेन तेषां प्रत्यक्षत्वं सूत्रकारेण नोक्तं स्यादित्यर्थः / पतनोपदेशाद् गुरुत्वमिति / “संयोगवेगप्रयत्नाभावे गुरुत्वात्पतनम्" (बै. सू. 5-1-7) इत्युपदेशात् सूत्रकारेण पतनसम्बन्धिन्यां पृथिव्यां गुरुत्वमस्तीत्यर्थात् कथितम्, ज्यधिकरणस्याकरणत्वात् / कि०] नैष दोषः घटादी व्यवहारव्यवच्छेदयोः प्रतीतत्वेन नाप्रसिद्धबिशेषणत्वम् / अबादौ च प्रतीतत्वेन न व्याघातासाधारणत्वे / सर्वस्यां पृथिव्यामप्रतीतत्वान्न साधनवैयर्थ्यम् / ननु तथा [प्यं] शे साधनवैयर्थ्यमिति चेत्, न तावत्प्रमाणान्तराधिगतगोचरत्वेन वैयर्थ्य, सर्वोपसंहारेण व्याप्तिग्रहणवेलायामेव सामान्याकारेण प्रतीतवह्नयादिविषयानुमानाङ्गीकारात् / नापि पूर्वाधिगतविषयानतिरेकवयर्थ्यम्, कार्याकार्यसमस्तपृथिव्याः व्याप्ततया व्यवच्छेदयोः पूर्वमनधिग (ते) तयोर्व्याप्ततया क्वचिदप्यप्रतीतेरप्रसिद्धविशेषणत्वं तदवस्थमिति चेत्, न, पक्षधर्मतावल्लक्ष्यविशेषाप्रसिद्धेरप्रसिद्धविशेषणत्वात्सर्वानुमानो [च्छेद]प्रसङ्गादिति / यदुक्तद्वि सक्त्या शत[स् ]प्रत्ययेन च वैधानेकत्वमिति तदाहत्याह - गन्धसहचरितेति (कं. 29.4) अत्र च गम्धसाहचर्येण चतुर्दशत्वमायंनानां गुणानां समुदायो वैधयं गन्धकार्थसमवायवन्तः प्रत्येकं रूपादय इत्यनुसन्धेयम् / रूपादिभिर्द्रवत्वान्तैर्युक्तः संस्कार इति मध्यमपदकोपिनस्तत्पुरुषान्मरुपि समुदितानामेव सम्बन्धः प्रतीयते स च प्रमाणविरुद्ध इत्यत आह - अत्र द्वन्द्वति (कं. 29.5) / सूत्रकारेण प्रतिपादिता इति (कं. 29.9) प्रत्यक्षप्रमाणेनेति शेषः / __ननु त्रयाणां रूपवत्त्वाद (दि) त्यत[स्त ]स्मिन् समवायेनापि वचनार्थसं (ग) गतेः सर्वेषु समवायः कुत इत्यत आह यदि त इति (कं. 29.13) / वा धर्मान्तरेण सङ्कोच्यान्यथासिद्धिशङ्कायामतिप्रसङ्गः स्यादिति भावः / अर्थादिति (कं. 29.16) अयंते ज्ञायते अने [ने] त्यर्थो लिङ्गं तस्मादनमा[ना]त्कथितं प्रतिपादितमित्यर्थः / व्यधिकरणस्याकरणत्वादिति (कं. 29.16) गुरुत्वतत् संयोगविरह इति विशेषः / 1 सहचरितं-जे. 1, जे. 3 / 2 अतो-जे. 3 / 3 'वत्'-जे.१। 4 पृथिव्या:-जे. 1, जे. 3 / 5 सम्बन्धोऽपि -जे. 1 / 6 पाद्यतेऽनेना - कं. 1, कं. 2 / पृथिव्याः -जे. 3 / 8 समवाये प्रत्यक्षत्वं-कं. 1, कं. 2 / 9 'संयोगाभावे गुरुत्वात् पतनम्' (वै. सू. 5.1.7) इति सर्वत्र सूत्रपाठः, संयोगप्रतियस्नाभावे-कं. 1, कं. 2, संयोगप्रयत्नाभाये-जे. 3 /