________________ टिप्पणपम्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती। एते च गुणविनिवेशाधिकारे रूपादयो 'गुणविशेषाः सिद्धाः / चाशुषवचनात् सप्त सङ्ख्यादयः / पतनोपदेशाद् गुरुत्वम् / न्यायकन्दली पृथिवीत्वाभिसम्बन्धात् / यथाहोद्योतकरः-"समानासमानजातीयव्यवच्छेदो लक्षणार्थः" (न्या० वा०) एतेनैतदपि 'प्रत्युक्तम्, यदुक्तमपरैः प्रसिद्धाश्चेत् पदार्था न लक्षणीयाः, अप्रसिद्धा नतरामशक्यत्वात्, स्वरूपेणावगतस्यापि व्यवहारविशेषप्रतिपादनार्थं सामान्येन प्रसिद्धस्य विशेषाक्गमार्थञ्च 'लक्षणस्य प्रवृत्तेः / नन्वेवं सत्यनवस्था, लक्ष्यवल्लक्षणस्या'प्यन्यतो लक्षणीयत्वादिति चेन्न, अप्रतीतौ लक्षणस्यापेक्षित्वात्, सर्वत्र चाप्रतीत्यभावात्, तथा हि-शिरसा पादेन गवामनुबध्नन्ति विद्वांसः, न पुनरेतावप्यन्यतः 'समीक्षन्ते / यस्तु सर्वथैवाप्रतिपन्नो न तं प्रत्युपदेशः, तस्य बालमूकादिवदनधिकारात् / पिं०] इति = अव्युत्पन्नः / यदि ते रूपिद्रव्येषु न सन्तीति-पृथिवी च रूपद्रव्यमिति भावः / तत्समवायेनेति = रूपिद्रव्यसमवायेन / तेषामिति संख्यादीनाम / [कु०] ननु पृथिवीस्वरूपसिद्धौ किं लक्षणेन ? सिद्धे साधनवैयर्थ्यात् तदसिद्धौ वाऽश्रयासिद्धिरत एव पृथिवीसिद्धावितरेतराश्रययित्वमित्यत आह योहोति (कं. 28.12) / पृथिवीमित्युपलक्षणं पृथिवीत्वमित्यपि द्रष्टव्यम्, अन्यथा स्वरूपासिद्धिप्रसङ्गात, व्यामोहादगन्धरूपाद्यनेकसन्निधौ व्यावर्तकविशेषानवधारणात् / पृथिवीत्वाभिस (कं. 28.14) पृथिवीत्वं जातिस्तस्याः सम्बन्धः समवायः, न त्वेकार्थसमवायः संयुक्तसमवायो वा, तथा सति विरोधो व्यभिचारः स्यादिति व्याख्येयम् / 'यश्च पृथिवीति (कं. 28.16) पृथिवीत्वं च पश्यतीति शेषः / जानाति च तस्याः स्वरूप [मिति] (कं. 28.17) विवेकेनेति शेषः / - लक्ष्यलक्षणयोः स्वरूपमितरव्यवच्छेदं च जानन्नपि विशेषनिमित्तो यत्र व्यवहारजिज्ञासुः प्रथमः, इतरव्यवच्छेदमात्रजिज्ञासुद्वितीय इति विशेषः / एतेन अधिकारिविवेचनेन अशक्यत्वादिति आश्रयासिद्धेरितिभावः / इह लक्षणस्य लक्षणान्तरानुसरणे नानवस्था / यत्र कुत्रचिद्विवेके [च] तं प्रति वा तद्विपरीतं प्रति वा ? नाद्य इत्याह अप्रतीतादिति (कं. 29.1) / न पुनरिति (कं. २९.२)-त्रिचतुरेषु लक्षणेषु पूर्वविदिक्तस्यैव लक्षणतयाभिधाने स्वयमेव निरपेक्षः स्यादिति भावः / न द्वितीय इत्याह व्यवहारव्यवच्छेदौ क्वचिदप्रसिद्धौ वा नाद्यः अप्रसिद्धविशेषणत्वप्रसङ्गात् / सिद्धिपक्षेपि किमिवादी पथिव्यामेव नाद्यः अबादावेवा आदौ व्यवच्छेदस्य व्याहतत्वमित्यर्थः / पृथिवीत्वस्य प्रतीत पृथिवीव्यवहारादिव्यवछेदादेवादेः सपक्षादपि व्यावृत्तेरसाधारणत्वप्रसङ्गात् / न द्वितीयः साधनवैयर्थ्यादिति / / 1 विशेषगुणान्ता-दे.। 2 प्रत्युक्तं, प्रसिद्धाश्चेत् - कं. 1, कं. 2 / 3 लक्षणप्रवृत्तेः- कं. 1, कं. 2 / 4 प्यन्ततो-कं. 1, कं.२। 5 लक्षणापेक्षितत्वात-कं. 1, कं. 2 / 6 समीक्ष्यन्ते-कं. 1, कं. 2 / 7 यो वा-कं.।