________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [45] इहेवानीमेकैकशो वैधर्म्यमुच्यते / पृथिवीत्वाभिसम्बन्धात् पृथिवी / ___ न्यायकन्दली [45] इहेदानीमिति / पूर्व द्वयोबहूनां परस्परापेक्षया वैधर्म्यमुक्तम् / इह वक्ष्यमाणे प्रकरणे सम्प्रत्येकैकस्य द्रव्यस्य व्यावर्सको धर्मः कथ्यते / एकैकश इति शस्'प्रत्ययान्ताद् बीप्सात्यन्तबहुव्याप्तिप्रदर्शनार्था / उद्देशक्रमेण पृथिव्याः प्रथमं वैधय॑माह-पथिवीत्वाभिसम्बन्धात्पथिवीति / यो हि पृथिवीं स्वरूपतो जामन्नपि कुतश्चिद् व्यामोहात् पृथिवीति न व्यवहरति तं प्रति 'विपर्ययसम्बन्धाव्यभिचारेण व्यवहारसाधनार्थमसाधारणो धर्मः कथ्यते-पृथिवीत्वाभिसम्बन्धात्पृथिवीति / इयं पृथिवीति व्यवहर्तव्या पृथिवीत्वाभिसम्बन्धात् यत्पुनः पृथिवीति न व्यवह्रियते, न तत् पृथिवीत्वेनाभिसम्बद्धम्, यथाबादिकम, न चेयं पृथिवीत्वेन 'नाभिसम्बद्धा, तस्मात्पृथिवीति व्यवहर्तव्येति / यो वा पृथिवीति लोके शृणोति न जानाति च तस्याः स्वरूपं कीदगिति, तं प्रति तस्या स्वपरजातीयव्यावृत्तस्वरूपप्रतिपारमार्थमसाधारणो धर्मः कथ्यते, या लोके पृथिवीति व्यपदिश्यते सा 'पृथिवी, [ni0] केवलव्यतिरेकी हेतुः / तथा हि शिरसा इति - वृक्षान्तरितस्य गोरसाधारणेन शिरःपादेनानुमानम् / एतौ इति पदार्थों शिर:पादरूपी द्वयोस्त्वनुकर्षणे प्राणि तुर्यङ्गानामित्येकत्वं स्यात् क्लौबस्य च शेषः स्यात् / गन्धसहचरितमिति ननु चतुर्दशगुणा ‘गन्धसहचरिता इति समुदाये पञ्चदशत्वं स्यात् ? नवम्, तेन सहैव चतुर्दशसङ्ख्योपपत्तेः यथा नामात्रा सहैते दश सन्ति स दशम इत्यर्थः / भाष्यटीके हि नोत्सूत्रे भवत इति सूत्रकारानुमति दर्शयति सूत्रकारस्यापि इति / अधिकार इति - आधारे अमट प्राप्तौ 'बाहुलकाद् घञ् आद्भिः सामान्यमिति तुल्यमित्यर्थः / [पं०] [45] "विपर्ययस्य सम्बन्धाव्यभिचारेणेति-वैधर्म्यसम्बन्धाव्यभिचारेण केवलव्यतिरेकिप्रयोगेणेत्यर्थः / सर्व हि लक्षणं केवलव्यतिरेक्यनुमानमामनन्ति / स्वपरजातीयव्यावृत्तस्वरूपप्रतिपादनार्थमिति स्वजातीयमबादिद्रव्यम, परजातीया गुणादयः / लक्षणार्थ इति - लक्षणस्य प्रयोजनं व्यवहारविशेषप्रतिपादनार्थमिति व्यामूढस्य / अप्रतिपन्न [10] [45] मनु नित्यवीप्सयोरिति द्विवचनं वीप्सायां विधीयते तथा सङ्ख्यकवचनाच्च वीप्सायामिति शसृप्र[त्य]योऽपि तथैव / एवं चोभयोपादानं किमर्थमित्यत आह "एकैकशब्द इति (कं. 27.1) द्विर्वचनेन पृथिव्यादीनामेकस्येति मिसाकल्येन लभ्यते शस् प्रत्ययेन तु तेषामेव प्रत्येकमनेक वैधमिति गम्यते इत्यर्थः / 1 प्रश्ययाद्-कं. 1, कं. 2 / 2 विषयसम्बन्धा-कं. 1, कं. 2 / अत्र विपर्ययपाठे टिप्पणं व्यतिरेकव्याप्तिलक्षणेन -ये. 1 / 3 अनभिसम्बद्धा-जे. 1, जे. 3 / 4 पृथिवी इति-जे. 1, जे. 3 इत्यनयो स्ति। 5 वृक्षान्तरस्य -अ, ब, क; 6 तुर्यङ्गाणा-; 7, 8 गन्धसहितम्, गन्धसहिता-ड; 9 अबाहुलकाद् -अ; 1. विषयसम्बन्धाव्यभिचारेण-कं.। 11 एकैकश-कं. भयमेव समीचीनः पाठः-सं.।