________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् 121 न्यायकन्दली [60] इदमपरं बाधकम्, अवयविनः प्रत्यवयवमेकदेशेन वृत्तिः कात्न्ये न वा ? प्रकारान्तराभावात् / न तावदेकदेशेन वृत्तिरवयवव्यतिरेकेणास्यैकदेशाभावात् / कात्स्न्येन वृत्तौ 'वाऽवय वान्तरे वृत्त्यभावः, एकावयवसंसर्गावच्छिन्ने स्वरूपेऽवयवान्तराणामनवकाशात्, तत्स्वरूपव्यतिरेकेण चास्य स्वरूपान्तराभावात् / अत्रापि निरूप्यते-यद् वर्तते तदेकदेशेन वर्तते कात्स्न्येन वेति ? किमिदं स्वसिद्धमभिधीयते परसिद्धं वा ? स्वयं तावत् कस्यचित् 'क्वचिद् वृत्तिरसिद्धा शाक्यानाम्, परस्यापि नैकदेशकात्या॑भ्यां वृत्तिः सिद्धा, तयोरवृत्तित्वात्, वृत्ति प्रत्यकारणत्वाच्च / यद् वर्त्तते तत् स्वरूपेणाश्रयाश्रितभावलक्षणया वृत्त्या वर्तते / न चैकस्यानेकसंसर्गो विरुद्धयते / दृष्टो हि चित्रज्ञाने नीलाकारावच्छिन्ने पीताद्याकारसंसर्गः / न च तस्य [टि.] [60] इदमपरमिति-यत्सत्तत्सवृत्तिकं 'यथा परमाणुरूपम् / अवयविनस्तु वृत्तिर्नोपपद्यते इति भावः / अवयवव्यतिरेकेण इति-यद्यवयवव्यतिरेकेणान्ये देशास्युस्तदा तेष्वप्येकदेशेने समुदायेन वा वृत्तिरिति तदवस्थम् / परस्यापि नैकेति-एकदेशकात्या॑भ्यां कृत्वा 'वृत्तिस्तयोः स्वयं वृत्तिरूपत्वे सति सम्भवति, यथा द्रव्ये रूपं समवायवृत्या वर्तते इति समवाय एव तत्र स्वयं वृत्तिरूपः, वृत्ति प्रति कारणत्वेन वा / तत्र पक्षद्वयेऽपि दूषणमाह तयोरवृत्तित्वाद् इत्यादि / अकारणत्वं वृत्तेः समवायलक्षणाया नित्यत्वात् / यथैकावयवावच्छिन्न इति-यथा ज्ञाने तत्रापीत्यर्थः अवच्छिन्ने [पं०] [60] परः प्राह इदमपरमित्यादि / अस्यैकदेशाभावादिति-स्वयं निरंशत्वादवयविनः / एकावयवसंसर्गावच्छिन्ने इति-एकावयवसंसर्गपरिसमाप्ते स्वरूपे इति-अवयविनः संबन्धिनि / श्रीधर: प्राह-अत्रापि निरूप्यत इत्यादि / परस्यापीति = वैशेषिकस्य / अवृत्तित्वादिति-असमवायत्वात् / आश्रयाश्रितभावलक्षणया वृत्त्येति-अवयवेष्वाश्रयभूतेषु अवयवी आश्रित इत्येषा आश्रयाश्रितभावलक्षणावृत्तिः / न च तस्य प्रत्याकारभेद इति तस्य चित्रज्ञानं भेदस्य प्रत्याकारं [कु०] अवयविनि प्रसङ्गागते [तं] बाधकमाशङ्कते नन्विति (कं. 41.24) / परिहरति तदिति (कं. 41.27) / न चलाचलत्वमिति (कं. 42.4) साधि[ता] हि नित्यानां युतसिद्धिरिति भावः / भिन्नत्वेऽपीति (कं. 42.6) पदं तादात्म्यनिरासाय / कतिपयावयवग्रहणेन गह्यत इति (कं. 42.10) इतरथा अर्वाग्भागेन मध्यपरभागयोः सर्वदावरणादवयविनो न ग्रहणं स्यादिति भावः / तत्कि द्वित्राणामवयवानां ग्रहणेऽवयवी गृह्यते नेत्याह यत्रेति (कं. 42.12) / अ[त्र] सङ्ख्यानियमो न शक्यते किन्तु कार्यमेव प्रमाणमिति भावः / [60] अव्याप्यवृत्तित्वाद्युगपदेकत्र भावाभाववत्त्वादिति भावः / अवयवव्यतिरेकेणेति (कं. 42 18) भावे वा तेषामेव वृत्तिर्वाऽवयविन इति भावः / स्वरूपान्तराभावादिति (कं. 42.20) भावे वाहवः / स्वयं तावदिति 1 चावयवान्तरे-जे. 1, जे. 3 / 2 वा वर्तते-जे. 1, जे. 3 / 3 कुत्रचिद्-जे. 1, जे. 3 / 4 यथारूप-ड; 5 न्यदेशस्तस्य स्यात्तदा - अ, ब; 6 दस्ति तयोः-ड; 7 दूषणे प्राह -- अ, ब; 8 तथैका-अ, ब, ड; 16