________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [44] 'एवं सर्वत्र साधयं विपर्ययाद्वैधर्म्यञ्च 'वाच्यमिति / . न्यायकन्दली [44] 'अनेनैव न्यायेन सर्वत्र पदार्थेषऽन्यदपि साधयं स्वयं वाच्यम्, विपर्यायादितरव्यावृत्ते वैधयं च वाच्यमिति शिष्यानाह-एवमिति / अनुद्दिष्टेषु पदार्थेषु न तेषां लक्षणानि प्रवर्त्तन्ते निविषयत्वात्, अलक्षितेषु च तत्त्वप्रतीत्यभावः कारणाभावात्, अतः पदार्थव्युत्पादनाय प्रवृत्तस्य शास्त्रस्योभयथा प्रवृत्तिः-उद्देशो लक्षणञ्च / परीक्षायास्त्वनियमः। यत्राभिहिते लक्षणे प्रवादान्तरव्याक्षेपात्तत्त्वनिश्चयो न भवति, तत्र परपक्षव्युदासार्थ - परीक्षाविधिरधिक्रियते / यत्र तु लक्षणाभिधानसामर्थ्यादेव तत्त्वनिश्चयः स्यात्, तत्रायं व्यर्थो नार्थ्यते। योऽपि हि त्रिविधां शास्त्रस्य प्रवृत्तिमिच्छति, तस्यापि प्रयोजनादीनां टि०] [44-45] तस्यापि इति -प्रमाणप्रमेयसंशयानां साक्षात 'परीक्षासूत्राण्युक्तानि प्रयोजनादीनां तु पदार्थानां नोक्तानीति // शस् "प्रत्ययान्तेति वीप्सित"वीप्स्येपि शस्दर्शनात् / // इति साधयनिरूपणम् / / [पं०] [44] श्रीधरः पृच्छति तत्कस्य हेतोरिति - परोत्तरं लक्षणमात्रादेवैते प्रतीयन्त इति / श्रीधरः प्राह एवं चेत्यादि। [कु.] दर्पणादी भास्वररूपानुपलम्भेन प्रमाणबाधः स्पष्टः / किञ्च श्रुत्यनादरे द्रवत्वादिना वैधhण तेजो व्यावृत्ती दशमद्रव्यशङ्कापि दुर्वारेत्यलं बहुनोक्सेन / [44] अन्यदपीति (कं. 26.11) - अबादीनामगन्धवत्वम्, अनलादीनामरसवत्त्वमगुरुत्वम्, अनिलादीनामरूपत्वमप्रत्यक्षादि साधर्म्यमनुवृत्तेर्वाच्यमित्यर्थः / इतरव्यावृत्तेरिति (कं. 26.12) हृदोः साधर्म्यमपि गुरुत्वं तेज:प्रभृतेया॑वृत्ते_धर्म्यमित्याद्यपि बोधनीयमित्यर्थः / 1 एवं च-दे। 2 सर्वत्र विपर्ययात् साधयं वैधर्म्य-पा. 5.5 / 3 वाच्यमिति द्रव्यासकर:- कं. 1, कं. 2; द्रव्यसङ्करः- इति पाठः अन्यत्र कासुचिदपि हस्तलिखितपुस्तकेषु नोपलब्धः। किरणावल्यामपि नास्ति / 4 अनेन -जे. 1, जे. 3 / 5 पदार्थे- कं. 1, कं. 2 / 6 वैधयं वाच्यमिति-कं. 1, कं. 2 / 7 परीक्षायाख्तु न नियमः-जे. 1. जे. 3 / 8 लक्षणविधान-जे. 1, जे. 2 / 9 सूत्राण्युक्तानी-अ; परीक्षासूत्राण्युक्तानी-ब; 10 प्रत्ययात् - मु; प्रत्ययान्ता-जे. 1, जे. 2; 11 वीप्स्यति-अ; वीप्स्येति -ब;