________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली यदपीदमुक्तं पार्थिवं सुवर्णादिकम्, सांसिद्धिकद्रवत्वाभावे सति गुरुत्वाधिकरणत्वाल्लोष्टादिवत्, तदप्यसारम्, किन्तत्र गुरुत्वस्योपलब्धिस्तद्गुणत्वादुतान्यगुणत्वेऽपि 'घृतादिष्वपि स्नेहवत् स्वाश्रयप्रत्यासत्ति निमित्तादिति संशयस्या निवृत्तः / यदपि साधनान्तरं परप्रकाश्यमानत्वादिति, तदप्यनुभूतरूपवत्त्वेनाप्युपपत्तेरसाधनम् / दिङमात्रमस्माभिरुपदिष्टम् / [टि०] नैवम्, प्रत्यक्षप्रतीयमानस्यावान्तरतारतम्यवत्त्वात् गुणस्य द्रवत्वस्याधारो यद्रव्यं तस्य पक्षीकृतत्वात् / उतान्यगुणत्वे इति-स्वाश्रयस्याबार्योऽसौ प्रत्यासत्तिनियमः पार्थिवद्रव्येण सह संयोगनियमो नियतः संयोगः तस्मानियतसंयुक्तसमवायाद्, एतेन संदिग्धासिद्धिरुक्ता 'इत्यर्थः / यदपि इति - सुवर्ण पार्थिवं परप्रकाश्यमानत्वाद् इति / भत्र परेण स्वव्यतिरिक्तेन चक्षरादिना प्रकाश्यमानत्वं लोष्टे 'दीपे च सत्त्वादनकान्तिकमिति परेणेन्द्रियालोकव्यतिरिक्तेनालोकनेत्यर्थो व्याख्येयः / तदप्यनुभूतेति-यदि रूपमनुद्भूतं स्यात् पिशाचादिवत्सुवर्णं नोपलभ्येत तस्मादत्रानुभूतमिति तथाविध पार्थिवोपष्टम्भकद्रव्यरभिभतमिति व्याख्येयम् / अभिभूतरूपस्य च दर्शनं कुसुम्भाभिभूतशुक्लरूपस्येव पटस्योपपन्नमिति / पार्थिवरूपेणाभिभवोऽपि जलरूपस्य कुङ्कुमरूपेणेवोपपन्नः / एतेनान्यथासिद्धिरुक्ता / [पं०] पाठान्तरम् / तत्रेति = सुवर्णादौ / अन्यगुणत्वेऽपि घृतादिषु स्नेहवत् स्वाश्रयप्रत्यासत्तिविशेषनियमादिति - घृतं हि पार्थिवम् , तत्र च स्नेहः स्वाश्रयाप्यपरमाणुप्रत्यासत्तेः / स्नेहस्य हि स्वकीय आश्रयो जलम्, तेन प्रत्यासत्तिः पार्थिवघृतादेः / तद्वत्सुवर्णे गुरुत्वम्, गुरुत्वाश्रयपार्थिवपरमाणुप्रत्यासत्तेरित्यर्थः / यद्यपि साधनान्तरमुक्तमिति-पूर्वस्यामेव प्रतिज्ञायाम् : पार्थिवं सुवर्णादिकमिति / "अस्य परप्रकाश्यमानत्वादिति - सुवर्ण हि परेण प्रदीपादिना प्रकाश्यते घटादिवत, ततः कथं तेजसम् ? तैजसं हि यदि स्यात्तदाऽग्न्यादिवत्परप्रकाशकं स्यात्, तस्मात्पार्थिवमेवेति पराशयः / तदप्यनुभूतरूपत्वेनाप्युपपत्तरसाधनमिति-अपिरेवार्थेऽवधारणे, अप्रकटरूपत्वेनैव परप्रकाश्यमानत्वं सूवर्णस्य स्वभावेन तु तैजस्त्वमेवेत्यर्थः / ____ कारणाभावादिति - लक्षणाभावात् / तत्रायं व्यर्थ इति- अय परीक्षाविधिः / योऽपि हीति-उद्योतकराचार्यः। तस्यापि प्रयोजनादीनां.नास्ति परीक्षेति-तस्याप्युद्योतकराचार्यस्य प्रयोजनादीनां परीक्षासूत्राणि न संशयतीत्यर्थः। [कु०] ननु यदि कार्यरूपस्य सर्वदाऽभिभूतत्वात्परमाणुरूपस्यातीन्द्रियत्वादप्रत्यक्षत्वेनाविनश्यद्रव्य [व] त्वादिति हेतुः सन्दिग्धासिद्धः कथं तैजसत्वं सुवर्णस्य साधयेदिति / सत्यम्, किन्तु हिरण्यस्य तैजसस्त्वे तेजो हिरण्यमिति श्रुतिरेव प्रमाणम् / अयं तु ग्रन्थविस्तेजोघृतमित्य | श्रु] ते तस्य तस्याभावनिश्चयेन तृणादिसाधात् पृथिवीत्वसाधकेन श्रयमाणार्थबाधो नास्तीति प्रतिपादनपरो द्रष्टव्यः / तथा चोक्तं वल्लभाचार्येण / अनुच्छिन्नद्रवत्वं [यद्-तद्] वस्तु यस्त्वि [त्वि]ह भासते ' सुवर्णाव्यवहारोऽय तत्र शास्त्रे प्रवर्तते / / इति शास्त्रे श्रुतावित्यर्थः / अत एव श्रीधराचार्योऽपि तर्क" मेवात्यधित / नानुमानं जे [ये तु सुवर्णादर्शादेर्भास्वरं . रूपमङ्गीकृत्य द्रव्यान्तरसन्न स्फुटप्रतीतिः तथाभिभवाच्चेति युक्ति व्याचक्षते तेषां निशीथे गृहान्तनिहिते 1 घृतादिषु-जे. 1, जे. 3 / 2 नियमादिति - जे. 1, जे. 3 / 3 निवृत्तिः -जे. 1, जे. 2 / 4 तारप्तस्यवत्त्वात् - अ; 5 इत्यर्थ इति ड पुस्तके नास्ति / 6 दावे च-अ; ७'अस्य' - इति कं. पुस्तके नास्ति / 8 अत्र पाठो व्यत्यस्त इव भाति, तर्कमेवा[श्रित्य स्थितः ? सं.।