________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम न्यायकन्दली च सुवर्णरजतादेरग्निसंयोगेन विलयनात् / गुरुत्ववत्पार्थिवमेव द्रवत्वं दह्यमानेषु सुवर्णादिषु संयुक्तसमवायात्प्रतीयत इति केचित् / न, पार्थिवद्रवत्वस्यात्यन्ताग्निसंयोगेन भस्मीभावोपलब्धेः,अस्य च तदभावात् / अत एव सुवर्णादिकमपि पार्थिवमेवेति कस्यचित्प्रवादोऽपि प्रत्युक्तः, पार्थिवत्वे सति सपिरादिवदत्यन्तवह्निसंयोगेन द्रवत्वोच्छेदप्रसङ्गात् / [टि०] 'व्यतिरेकी कार्यः / अत्र हि 'सपक्षस्य अविद्यमानत्वात् पार्थिवाप्यावयविनोस्तु विपक्षयोः पूर्वावयविनाशने सति "तेष्वेवावयवेष्ववयव्यन्तरोत्पादनाभावात द्रवत्वस्यात्यन्ताग्निसंयोगेनानुच्छिद्यमानत्वं नास्तीति नासाधारणत्वम्, पूर्वावयविनाशद्वारेण तव चावयव्यन्तरोत्पादनद्वारेणाच्छिद्यमानत्वस्य विवक्षितत्वाच्च पाथिवाप्यववियतिरिक्ताप्य परमाणुसमवेते द्रवत्वे विपक्षेऽभावान्न हेतोविरुद्धत्वम् ; 'पक्षेऽपि च विद्यमानत्वान्नासिद्धत्वम् / यश्च पार्थिव उपष्टम्भको "भागः स सुवर्णस्य "द्रवदशायामपि अदृष्टवशादद्रव एवास्ते, अत एवाप्यद्रवत्वविलक्षणं पार्थिवद्रवत्वमिति न विरुद्धत्वदूषणमपि। ननु तर्हि अदृष्टवशात्पार्थिवमेव द्रवत्वमत्यन्ताग्नि संयोगेनाप्यत्र न क्षीयते इति किं न "कल्पेत? भयस्तथादर्शनस्य पार्थिवत्वेऽपि समानत्वात ? सत्यम, "तैजसत्वेऽपि बाधाभावात / अत एव इति-सवर्णादि पार्थिवम, नैमित्तिकद्रवत्व वत्त्वात घतवदिति १५(उत्तरं पार्थिवत्वम इति-सवर्ण पार्थिवाप्यावयवि न भवति, अत्यन्ताग्निसंयोगेनानुच्छिद्यमानद्रवत्ववत्त्वात् घृतवद् ] इत्यनुमानेन "परानुमानु (मानमनु) कूलतर्करहितं सत्प्रतिपक्षम् / नन्वत्र यदि पार्थिवाभागः सुवर्णशब्दवाच्यत्वेन पक्षीक्रियते तर्हि पक्षो बाधितः, अथ "तेजसं द्रव्यं तदा आश्रयासिद्धिः ? [पं०] गुरुत्ववत्पार्थिवमेवेति पराभिप्रायः / पार्थिवद्वत्वस्यात्यन्तमग्निसंयोगेन भस्मीभावोपलब्धेरिति सपिरादिष पार्थिवद्रव्येषु / अस्य च तदभावादिति-अस्य सुवर्णादेस्तदभावात्तस्या भस्मीभावोपलब्धेरभावात् / सांसिद्धिकद्रवत्वाभावे सतीति-सांसिद्धिकं स्वाभाविकम् / सांसिद्धिकग्रहणं च अपां व्यवच्छेदाय / तदप्यसाधनमिति- तदप्यसारमिति [कु०] आचार्या ह्येवमभिति-"द्रवत्वस्योच्छेदप्रसङ्गादिति (कं. 26.5 / द्रवत्वसहचरितस्य पार्थिवस्य रूपस्यात्यन्ताग्निसंयोगघृतादावुच्छेदो दृश्यते; तद्वत्सुवर्णेऽपि यदि दृश्यमानद्रवत्वसहचरितं रूपं पार्थिवं स्यासद्वदेवास्य विनाशप्रसङ्ग इति / ततश्चायं प्रयोगः / रूपवत्वाद्वाय्वादिव्यतिरेकशैत्यस्य स्नेहकार्यसङग्रहस्य सांसिद्धिकद्रवत्वस्य वा लब्धेरम्भसश्च व्यतिरेके सिद्धे "सूवर्ण न पथिवी अत्यनाग्निसंयोगप्रतिबन्धविरहे अविनश्यपत्वाद सौतारा] लोकवदिति / एवं सुवर्णे प्रतीयमानं द्रवत्वं अपार्थिवम् अबाध्यमानसुवर्णसामानाधिकरण्यप्रतीतिविषयत्वाद्रूपवदिति पूर्वकमनुमानं द्रष्टव्यम् / न च सुवर्णमद्रवं ते [ज स्त्वात् सौरालोकवदित्यनेन बाध इत्य [ति] वाच्यम्, सौरालोके अद्रवत्वस्यादृष्टविरहप्रयुक्तत्वात् इतरथा घृतादिष्वपि पार्थिवत्वाल्लोष्टवदित्य द्रवत्वानुमान को वारयेदिति / भस्मोभावोपलब्धेरिति (कं. 26.3) पदं पार्थिवद्रवत्वस्य नियमेनात्यन्ताग्निसंयोगेन भस्मीभवत्पृथिव्यसामानाधिकरण्येनोपलब्धः सुवर्णादिसामानाधिकरण्येनो [नु]पलब्धिरिति व्याख्येयम् / तदप्यनुभूतरूपवत्वेनेति (कं. 26.9) इहानुद्भवो विवक्षितः इतरथा द्रव्यस्य नयनरश्मिवदप्रत्यक्षत्वप्रसङ्गः / अभिभतरूपं तु महारजनरूपाभिभूतमितिमा पट इव प्रत्यक्ष भवत्येव / अभिभावकं च उपलम्भकपाथिवभागरूपमेव द्रष्टव्यम् / तेजस: शुक्लरूपत्वेन पीतिमानुपपत्तेः / 1 चेत-कं. 1, कं. 2 / 2 व्यतिरेकार्थ:-अ; 3 सपक्षस्यासपक्षस्या-अ, ब; 4 त्वा-अ, ब; 5 तेष्वावय....अ, ब; 6 तत्वात् -अ, ब; 7 पार्थिवाप्याय वि-अ, ब, क; 8 परिमाणु-अ, ब; 9 पक्षेपि-अ, ब; पक्षे च -ड; 10 भावा-अ; 11 द्रवत्वदशायामपि -अ, ब, क; 12 संयोगो-अ, ब, क; 13 कल्पतेअ, ब, क; 14 तैजसत्वे -ड; 15 [ ] एतचिह्नान्तर्गतः पाठः अ पुस्तकेनास्ति / 16 पार्थिवत्त्वे - मु. 17 परानुभासन-ड; 18 तेजसं तद्भव्यं-अ, ब; 19 द्रवत्वोच्छेद-कं.।