________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [43] 'क्षितितेजसो मित्तिकद्रवत्वयोगः / न्यायकन्दली [43] क्षितितेजसो मित्तिकद्रवत्वयोगः / निमित्तादुपजातं (नैमित्तिकम), नैमित्तिकञ्च तद्रवत्वञ्चेति नैमित्तिकद्रवत्वम्, तेन सह क्षितितेजसोर्योगः, पार्थिवस्य सपिरादेस्तैजसस्य [टि० [43] [ तेजसो नैमित्तिकद्रवत्वस्थापनम् / ] 'गुरुत्ववत्पार्थिवम् इति - विवादाध्यासितं द्रवत्वं पार्थिवम्, नैमित्तिकद्रवत्वात्, घृत द्रवत्ववदिति / उत्तरं पार्थिवत्वेति / ननु पार्थिव'द्रव्यस्यैव भस्मरूपता द्रवत्वस्य 'तूच्छेद एवेति कथमुक्तं 'द्रवत्वस्य भस्मीभावो परब्धेरिति? सत्यम् / भस्मीभावोऽत्र उच्छेद एवाभिप्रेत इति / परोक्तमनमानं [प्रत्यक्ष परिदृश्यमानं] 'द्रवत्वमपार्थिवम् अत्यन्ताग्निसंयोगेनानुछिद्यमानद्रवत्वात्, घृत'द्रवत्ववदिति व्यतिरेकिणा सत्प्रतिपक्ष केचिदाह-तत्राच्छिद्यमानत्वं अवयबिद्रवत्वापेक्षया वा? परमाणु"द्रवत्वापेक्षया वा? नाद्यः, पक्षत्रयाव्यावृत्तत्वेनाहेतुत्वप्रसङ्गात् / अग्न्यभिघातेन हि सुवर्णजलघतावयविन एव नाश्यन्ते न 2 तदद्रवत्वम्, द्रवत्वस्यावयविनाशेनैव नाशात, न द्वितीयः अवयविद्रवत्वस्य पक्षीकृतत्वात्, परमाणुर्सिद्धस्य हेतोः पक्षेऽभावात् पक्षे एवासिद्धेः / किञ्च सुवर्णमध्य गते उपष्टम्भकपाथिवे भागे यद् द्रवत्वं "तदप्यक्षीयमाणमेव मन्तव्यम्, अन्यथा सुवर्णस्य क्षयः स्यादिति तत्राप्यक्षीयमाण द्रवत्वस्य भावाद् विरुद्धत्वमपि स्यात् / अथात्यन्ताग्नि संयोगेनावयविनाशद्वारेण पुनस्तेष्ववयवेषु अवयव्यन्तरोत्पादनद्वारेण च "द्रवत्वस्योच्छेदो जलवृत्तयोरस्ति, सुवर्णे “त्ववयव्यन्तरारम्भान्न द्रवत्वोच्छेद इति न पक्षत्रयव्यापित्वम्, तर्हि विद्यमाने सपक्षे विपक्षे च पक्षे एव वर्तनादसाधारणत्वं हेतोः स्यात्, तस्माद् विवादाध्यासितं द्रवत्वं "पार्थिवाप्यावयविव्यतिरिक्तावयविसमवेतम्, अत्यन्ताग्निसंयोगेनानुच्छिद्यमानद्रवत्वात्, “घृतद्रवत्वद् इति केवल . [कु०] [43] सुवर्णस्य तैजसत्वमङ्गीकृत्यैव तद्रवत्वस्यातद्धर्मत्वमाशङ्कय परिहरति गुरुत्ववदिति (कं. 26.1) / सुवर्णस्य तेजसत्वं साधयितुमुपक्रमते अत एवेति (कं. 26.4) / नन्वयं तर्को विपर्ययापर्यवसायी तथा हि अस्य विपर्यय एवं भवेत् / सुवर्णपरमाणवस्तै जसाः परमाणुत्वे क्षीयमाणद्रवत्वे च सति अत्यन्ताग्निसंयोगेऽक्षीयमाणत्वादिति / - आद्यविशेषणं कार्यघृने व्यभिचारपरिहाराय, द्वितीयमम्भसि, तृतीयं विशेषणविशेष्यपरिहाराय / अयं वा साधारणः सतोऽपि सपक्षात् सौरालोकादेावर्तमानत्वात् / अग्निसंयोगा द्रव्या वा] ? भवतः सुवर्णस्योपष्टम्भिके पार्थिवे भागे दर्शनाद्विरुद्धः / अत्रैव पार्थिवद्र व्यत्वमत्यन्ताग्निसंयोग सति विनश्यतीति पूर्व व्याप्तेर्भङ्गो द्रष्टव्यः / उपष्टम्भकाऽवयवा द्रव्य (व) त्वाविनाशस्य सुवर्णद्र (व्य) [व]त्ववादिनाच्यङ्गोकारादिति नानवबोधात् / 1 पाठोऽयं-जे. 1, जे. 3 पुस्तकयोरपि नास्ति; किन्तु भाव्यमनेन पाठेन। 2 वस्पार्थिवम्-ड; 3 द्रव्यत्वस्यैव-अ, 4 त्वनुच्छेद - अ, व, क; 5 द्रव्यत्व - ब, क, द्रव्यवत्व-अB६ पलब्धिरिति - अ, ब; 7 [ ] एतच्चिह्नान्तर्गतो पाठः ड पुस्तके नास्ति / 8, 9 द्रव्यवत्त्वं - अ, द्रव्यत्वं - ब, क, 10 अनुच्छिद्यमानद्रवत्वम्-अ; 11 द्रव्यवत्त्वा- अ, द्रव्यत्वा-ब, क; 12 न द्रवत्वम् - अ; 13 मुपगते - अ, ब, क; 14 तदेवाक्षीय-अ; 15 स्याभावाद् -अ, ब, 16 समयोग -त; 17 द्रवस्योच्छेदो-ड; 18 त्वयव्य -अ, ब, क; 19 सपक्षे च पक्षे एव वर्तनाद -ड; 20 पार्थिवाप्यावयविव्यस्तु विपक्षयोः पूर्वावयविनाशने अतिरिक्तावयविसमवेतम -ब; 21 घृतद्रववद् -अ, ब;