________________ 54 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः - [गाथा कोहितवर्णस्योदय इति, तेजस्कायशरीराण्येवोष्णस्पर्शोदयेनोष्णानि लोहितवर्णनामोदयात्तु प्रकाशयुक्तानि भवन्ति, न स्वातपोदयादिति भावः / यदुदयाद् जन्तुशरीराण्यात्मनाऽनुष्णाम्यप्युष्णप्रकाशरूपमातपं कुर्वन्ति तद् आतपनामेत्यर्थः 3 // 14 // . अणुसिणपयासरुवं, जियंगमुज्जोयए इहुजोया। जइदेवुत्तरविक्कियजोइसखजोयमाइ व्व // 45 // इह 'उद्योताद्' उद्योतनामोदयेन ‘जीवा' जन्तुशरीरम् 'उद्योतते' उद्योतं करोति, कथम् ! इत्याह-अनुष्णप्रकाशरूपम् , उष्णप्रकाशरूपं हि वहिरप्युद्योतत इति तद्व्यवच्छेदार्थमनुष्णप्रकाशरूपमित्युक्तम् / आह क इवोद्योतोदयाद् जन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतं कुर्वन्ति ? इत्याह-'यतिदेवोत्तरवैक्रियज्योतिष्कखद्योतादय इव' तत्र यतयश्च-साधवः देवाश्च-सुराः यतिदेवाः, यतिदेवैर्मूलशरीरापेक्षयोचरकालं क्रियमाणं वैक्रियं यतिदेवोचरवैक्रियम् , ज्योतिकाः-चन्द्रग्रहनक्षत्रताराः, खद्योताः-प्रतीताः, ततो यतिदेवोत्तरवैक्रियं च ज्योतिष्काश्च खद्योताश्च ते आदिर्येषां रत्नौषधीप्रभृतीनां ते यतिदेवोत्तरवैक्रियज्योतिष्कखद्योतादयस्त. इव / अत्र मकारोऽलाक्षणिकः / अयमर्थः-यथा यतिदेवोचरवैक्रियं चन्द्रग्रहादिज्योतिष्काः खद्योता रनौषधीप्रभृतयश्चानुष्णप्रकाशात्मकमुद्योतं विदधति तथा यदुदयाद् जन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतमातन्वन्ति तद् उद्योतनामेत्यर्थः 4 // 45 // अंगं न गुरु न लहुयं, जायइ जीवस्स अगुरुलहुउदया। तित्थेण तिहुयणस्स वि, पुज्जो से उदओ केवलिणो // 46 // - 'अगुरुलघूदयाद्' अगुरुलघुनामोदयेन जीवस्य 'अहं' शरीरं न गुरु न लघु 'जायते' भवति किन्तु अगुरुलघु / यत एकान्तगुरुत्वे हि वोढुमशक्यं स्यात् , एकान्तलघुत्वे तु वायुमाऽपह्रियमाणं धारयितुं न पार्येत / यदुदयाद् जन्तुशरीरं न गुरु न लघु नापि गुरुलघु किन्त्वगुरुलघुपरिणामपरिणतं भवति तद् अगुरुलधुनामेत्यर्थः 5 / 'तीर्थेन' तीर्थकरनामकर्मवशात् 'त्रिभुवनस्यापि' देवमानवदानवलक्षणत्रिलोकलोकस्यापि 'पूज्यः' अर्यचनीयो भवति / 'से' तस्य तीर्थकरनामकर्मणः 'उदयः' विपाकः 'केवलिनः' उत्पन्नकेवलज्ञानस्यैव / यदुदयाद् जीवः सदेवमनुजासुरलोकपूज्यमुत्तमोत्तमं "तित्थं भंते! तित्थं ? तित्थयरे तित्थं ! गोयमा! अरिहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवन्ने समणसंघे पढमगणहरे वा // " (भग० श०२० उ० 8 पत्र 792-2) इति परममुनिप्रणीतधर्मतीर्थस्य प्रवर्तयितृपदमवामोति सत् तीर्थकरनामेत्यर्थः 6 // 46 // अंगोवंगनियमणं, निम्माणं कुणइ सुत्तहारसमं / उवधाया उवहम्मइ, सतणुवयवलंबिगाईहिं // 47 // 'निर्माण' निर्माणनाम 'अङ्गोपाङ्गनियमनम्' अङ्गप्रत्यङ्गानां नियतप्रदेशव्यवस्थापनं 'करोति' विदधाति, अंत एवेदं 'सूत्रधारसम' सूत्रभृत्कल्पम् / यदुदयाद् जन्तुशरीरेष्वङ्गोपाङ्गानां 1 तीर्थ भदन्त ! तीर्थम् ? तीर्थकरस्तीर्थम् ? गौतम। अर्हस्तावन्नियमात तीर्थङ्करः, तीर्थ पुनश्चतुर्वर्णः श्रमसजः प्रथमगणधरो वा // ततः सू० ख०॥