________________ 11-44] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / 53 कल्पाया उदयः-विपाको वक्र एव भवति / अयमर्थः-नरके द्विसमयादिवक्रेण गच्छतो जीवस्य नरकानुपूर्व्या उदयः, तिर्यक्षु द्विसमयादिवक्रेण जीवस्य गच्छतस्तिर्यगानुपूर्व्या उदयः, मनुष्येषु द्विसमयादिवक्रेण गच्छतो जीवस्य मनुष्यानुपूर्व्या उदयः, देवेषु द्विसमयादिवक्रेण गच्छतो जीवस्य देवानुपूर्व्या उदयः / उक्तं च बृहत्कर्मविपाके नंग्याउयस्स उदए, नरए वक्केण गच्छमाणस्स / नरयाणुपुबियाए, तहिँ उदओ अन्नहिं नस्थि // (गा० 122) एवं तिरिमणुदेवे, तेसु वि वक्केण गच्छमाणस्स / तेसिमणुपुखियाणं, तहिं उदओ अन्नहिं नत्थि // (गा० 123) तथा विहायसा-आकाशेन गतिविहायोगतिः, सा द्विधा-'शुभा' प्रशस्ता 'अशुभा' अप्रशस्ता / क्रमेणोदाहरणमाह-"वसुदृ" ति वृषः-वृषभः सौरमेयो बलीवर्द इति यावत् , ततो वृषस्य उपलक्षणत्वाद् गजकलभराजहंसादीनां प्रशस्ता विहायोगतिः / उष्ट्र:-करभः क्रमेलक इति यावत् , तत उष्ट्रस्य उपलक्षणत्वात् खरतिड्डादीनामप्रशस्ता विहायोगतिरिति // 42 // व्याख्याताः पिण्डप्रकृतीनामुत्तरभेदाः, साम्प्रतमष्टौ प्रत्येकप्रकृतीरभिधित्सुराह-: . परघाउदया पाणी, परेसि बलिणं पि होइ दुद्धरिसो। ऊससणलद्धिजुत्तो, हवेइ ऊसासनामवसा // 43 // परान् आहन्ति-परिभवति परैर्वा न हन्यते-नाभिभूयत इति पराघातम्, तन्निबन्धनं नाम पराघातनाम / ततः 'पराघातोदयात्' पराघातनामकर्मविपाकात् 'प्राणी' जन्तुः 'परेषाम्' अन्येषां 'बलिनामपि बलवतामपि आस्तां दुर्बलानामित्यपिशब्दार्थः, 'भवति' जायते 'दुर्धर्षः' अनभिभवनीयमूर्तिः / अयमर्थः-यदुदयात् परेषां दुष्प्रधर्षः-महौजखी दर्शनमात्रेण वाक्सौष्ठवेन वा महाभूपसभामपि गतः सभ्यानामपि क्षोभमुत्पादयति प्रतिपक्षप्रतिभाप्रतिघातं च करोति तत् पराघातनामेत्यर्थः 1 / 'उच्छासनामवशाद्' उच्छासनामकोंदयेन 'उच्छ्सनलब्धियुक्तो भवति' उच्छ्वासैलब्धिसमन्वितो जायते, यदुदयाद् उच्छ्सनलब्धिरात्मनो भवति तद् उच्छ्वासनाम 2 / सर्वलब्धीनां क्षायोपशमिकत्वाद् औदयिकी लब्धिर्न सम्भवतीति चेत्, नैतदस्ति, वैक्रियाहारकलब्धीनामौदयिकीनामपि सम्भवाद्, वीर्यान्तरायक्षयोपशमोऽपि चात्र निमित्तीभवतीति सत्यप्यौदयिकत्वे क्षायोपशमिकव्यपदेशोऽपि न विरुध्यते // 13 // रविबिंये उ जियंगं, तावजुयं आयवाउ न उ जलणे। जमुसिणफासस्स तर्हि, लोहियवन्नस्स उदउ त्ति // 44 // . 'आतपाद्' आतपनामोदयाद् जीवानामङ्गं-शरीरं 'तापयुतं' स्वयमनुष्णमप्युष्णप्रकाशयुक्त भवति / आतपस्य पुनरुदयो रविबिम्ब एव, तुशब्द एवकारार्थः / कोऽर्थः !-भानुमण्डलादिपार्थिवशरीरेण्वेव 'न तु' न पुनः 'ज्वलने' हुतभुजि / अत्र युक्तिमाह-'यद्' यस्मात् कारणात् 'तत्र' ज्वलने-ज्वलनजन्तुशरीरे तेजस्कायशरीर इत्यर्थः उष्णस्पर्शस्योदयस्तथा 1 नरकायुष उदये नरके वक्रेण गच्छतः / नरकानुपूर्व्यास्तत्रोदयोऽन्यत्र नास्ति // एवं तिर्यग्मनुष्यदेवेषु तेष्वपि बक्रेण गच्छतः। तेषामानुपूर्वीणां तत्रोदयोऽन्यत्र नाति॥२°सनिःश्वासल' ख०म०3०॥