________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा मूत्यादिवद् रूक्षं भवति तद् रूक्षस्पर्शनाम 8 // 10 // उक्तमष्टधा स्पर्शनाम / इदानीं वर्णादिचतुष्कोतरविंशतिभेदानां शुभाशुभत्वयोरभिधित्सया प्राह नीलकसिणं दुगंधं, तित्तं कडुयं गुरुं खरं रुक्खं / सीयं च असुहनवगं, इकारसगं सुभं सेसं // 41 // . 'नीलकृष्णं' नीलकृष्णाख्ये कर्मणी अशुमे, दुर्गन्धनाम, "तितं कडुयं" इति तिक्तकटुके रसनानी, गुरु खरं रूक्षं शीतं चेति चत्वारि स्पर्शनामानि / एतानि च सर्वाण्यपि समुदितानि किमुच्यते ! इत्याह-'अशुभनवकं' नव प्रकृतयः परिमाणमस्य प्रकृतिवृन्दस्य तद् नवकम् , अशुभं च तद् नवकं च अशुभनवकम् / 'एकादशकम्' एकादर्शप्रकृतिसमूहरूपं, यथा रक्तपीतश्वेतवर्णाः, सुरभिगन्धः, मधुराऽम्लकषायरसाः, लघुमृदुस्निग्धोष्णस्पर्शा इति 'शुभं' शुभविपाकवेद्यत्वात् शुभखरूपम् / कीदृशं तत् ? इत्याह-शेष' कुवर्णनवकाद् अवशिष्टम् , कोऽर्थः ! कुवर्णनवकात् शेषा एकादश वर्णादिभेदाः शुभवर्णैकादशकमुच्यत इति // 11 // अधुना गतिनामातिदेशेनाऽऽनुपूर्वीचतुष्टयम्, आनुपूर्वीसम्बन्धेनोत्तरत्रोपयोगिप्रकृतिसमुदायसङ्घाहिनरकद्विकादिरूपं संज्ञान्तरं, विहायोगतिद्विकं चाभिधातुमाह घउह गइ व्वष्णुपुव्वी, गइपुव्विदुगं तिगं नियाउजुयं / पुव्वीउदओ वक्के, सुह असुह वसुट्ट विहगगई // 42 // . चतुर्धा गतिरिवाऽऽनुपूर्वी प्रागुक्तरूपा भवति / कोऽर्थः! -गत्यभिधानव्यपदेश्यमानुपूनाम, ततो निरयानुपूर्वीतिर्यगानुपूर्वीमनुष्यानुपूर्वीदेवानुपूर्वीभेदत आनुपूर्वीनाम चतुर्धति तात्पर्यम् / तत्र नरकगत्या नामकर्मप्रकृत्या सहचरिताऽऽनुपूर्वी नरकगत्यानुपूर्वी, तत्समकालं चास्या वेद्यमानत्वात् तत्सहचरितत्वम् / एवं तिर्यग्मनुप्यदेवाऽऽनुपूर्दोऽपि वाच्याः। “गइपुषिदुगं" ति इह पूर्वीशब्देनाऽऽनुपूर्वी मण्यते, आनुशब्दलोपः “ते लुग्वा" (सि०. 3-2108) इति सूत्रेण, यथा देवदत्तः देवः दत्तः इति / ततो नरकादिगतिनरकाद्यानुपूर्वीखरूपं नरकादिद्विकमुच्यते / तदेव त्रिकमभिधीयते-गतिपूर्वी द्विकमिह काकाक्षिगोलकन्यायेन सम्बध्यते / कीदृक्षं तद् ! इत्याह-निजायुयुतं' नरकाघायुष्कसमन्वितं नरकादित्रिकमुच्यत इति हृदयम् / उपलक्षणत्वाद् वैक्रियषट्कं विकलत्रिकम् औदारिकद्विकं वैक्रियद्विकम् आहारकद्विकम् अगुरुलघुचतुष्कं वैक्रियाष्टकमित्याद्यनुक्तं संज्ञान्तरं ग्राह्यम् / तत्र देवगतिर्देवानुपूर्वी नरकगतिर्नरकानुपूर्वी वैक्रियशरीरं वैक्रियानोपानमिति वैक्रियषट्कम् / द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां जातयो विकलत्रिकम् / औदारिकशरीरं औदारिकाङ्गोपाङ्गमित्यौदारिकद्विकम् / वैक्रियशरीरं वैक्रियाङ्गोपाङ्गमिति वैक्रियद्विकम् / आहारकशरीरम् आहा- . रकाङ्गोपाङ्गमित्याहारकद्विकम् / देवगतिर्देवानुपूर्वी देवायुर्नरकगतिर्नरकानुपूर्वी नरकायु(क्रियशरीरं वैक्रियाङ्गोपाङ्गमिति वैक्रियाष्टकम् / अगुरुलघु१उपघात२पराघात३उच्छ्वास४लक्षणमगुरुलघुचतुष्कमिति / ननु आनुपूर्व्या उदयो नरकादिषु किमृजुगत्या गच्छत आहोखिद् वक्रगत्या ? इत्याशङ्कयाह- "पुबीउदओ वक्के" ति पूर्व्या:-आनुपूर्व्या वृषभस्य नासिकारज्जु१°शसङ्ख्याप्रकृ० ख० ग० ऊ०॥