________________ 20] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / 51 ' यदुदयाद् जीवशरीरं निम्बादिवत् तिकं भवति तत् तितनाम 1 / गलामयादिप्रशमनो मरिचनागराद्याश्रितः कटुः / यदवादि-- कटुर्गलामयं शोफं, हन्ति युक्त्योपसेवितः / दीपनः पाचको रुच्यो, बृंहणोऽतिकफापहः // यदुदयाद् जन्तुशरीरं मरिचादिवत् कटु भवति तत् कटुनाम 2 / रक्तदोषाद्यपहर्ता विभीतकाऽऽमलककपित्थाधाश्रितः कषायः / यदभाणि रक्तदोषं कर्फ पितं, कषायो हन्ति सेवितः। रूक्षः शीतो गुरुग्राही, रोषणश्व खरूपतः // यदुदयाद् जन्तुशरीरं बिभीतकादिवत् कषायं भवति तत् कषायनाम 3 / अमिदीपनादिकृद् अम्लीकाद्याश्रितोऽम्लः / यदभ्यधायि अम्लोऽमिदीप्तिकृत् स्निग्धः, शोफपित्तकफापहः। छेदनः पाचनो रुच्यो, मूढवातानुलोमकः / / यदुदंयाद् जीवशरीरमम्लीकादिवद् अम्लं भवति तद् अम्लनाम 4 / पिचादिप्रशमकः खण्डशर्कराद्यानितो मधुरः / यदवाचि--- पित्तं वातं कर्फ हन्ति, धातुवृद्धिकरो गुरुः। . - जीवनः केशकृद् बालवृद्धक्षीणौजसां हितः // यदुदयाद जन्तुशरीरमिक्ष्वादिवद् मधुरं भवति तद् मधुरनाम 5 / स्थानान्तरे स्तम्भिता. हारविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठ्यते, स चेह नोपातः, मधुरादिसंसर्गजत्वात् तदभेदेन विवक्षणात् / सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव खादुत्वोपपवेरिति / अभिहितं पञ्चधा रसनाम // . अधुना स्पर्शनाम अष्टधा प्राह-स्पृश्यन्त इति स्पर्शाः 'अष्टौ' अष्टसङ्ख्याका भवन्ति / तथाहि-गुरु१लघुरमृदु३खर४ शीत५उष्ण स्निग्ध रूक्षाः 8 इति / तत्राघोगमनहेतुरयोगोलकादिगतो गुरुः 1 / प्रायस्तिर्यगूर्ध्वगमनहेतुरर्कतूलादिनिश्रितो लघुः 2 / सन्नतिकारणं तिनिसलतादिगतो मृदुः 3 / स्तब्धतादिकारणं दृषदादिगतः खरः 4 / देहस्तम्भादिहेतुः पालेयाद्याग्नितः शीतः 5 / आहारपाकादिकारणं ज्वलनाद्यनुगत उष्णः 6 / पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः 7 / पुद्गलद्रव्याणां मिथोऽसंयुज्यमानानामबन्धनिबन्धनं भस्माद्याधारो रूक्षः 8 / एतत्संसर्गजास्तु नोक्ताः, एण्वेवान्तर्भामादिति / ततो यदुदयाद् जन्तुशरीरं गुरु भवति वज्रादिवद् तद् गुरुस्पर्शनाम 1 / यदुदयाद् जन्तुशरीरमर्कतूलादिवद् लघु भवति तद् लघुस्पर्शनाम 2 / यदुदयाद् जन्तुशरीरं हंसरूतादिवद् मृदु भवति तद् मृदुस्पर्शनाम 3 / यदुदयाद् जन्तुशरीरं खरं-कर्कशं पाषाणादिवद् भवति तत् खरस्पर्शनाम 4 / यदुदयाद् जन्तुशरीरं शीतं-शीतलं मृणालादिवद् भवति तत् शीतस्पर्शनाम 5 / यदुदयाद् जन्तुशरीरं हुतभुजादिवद् उष्णं भवति तद् उष्णस्पर्शनाम 6 / यदुदयाद् जन्तुशरीरं घृतादिवत् स्निग्धं भवति तत् स्निग्धस्पर्शनाम 7 / यदुदयाद् जन्तुशरीरं