________________ 50 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाश तोच्छ्यः सर्वसंस्थानप्रधानः पञ्चेन्द्रियजीवशरीराकारविशेषः समचतुरस्रसंस्थान निबन्धनं नाम समचतुरस्रनाम 1 / न्यग्रोधवत् परिमण्डलं यस्य तद् न्यग्रोधपरिमण्डलम्, यथा न्यग्रोधःवटवृक्ष उपरि सम्पूर्णावयवोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णावयवम् अधस्तु ने तथा तद् न्यग्रोधपरिमण्डलम् , तन्निबन्धनं नाम न्यग्रोधपरिमण्डलनाम 2 / सह आदिनानामेरधस्तनभागरूपेण यथोक्तप्रमाणयुक्तेन वर्तत इति सादि / सर्वमपि हि शरीरं सादि, तत! सादित्वविशेषणान्यथानुपपत्तेरादिरिह विशिष्टो ज्ञातव्यः / ततो यत्र नामेरघो यथोक्तप्रमाणयुसमुपरि च हीनं तत् सादि संस्थानम् , तन्निबन्धनं नाम सादिनाम 3 / यत्र पाणिपादशिरोग्रीवं यथोक्तप्रमाणोपपन्नम् उरउदरादि च मडभं तत् कुन्नसंस्थानम्, तन्निबन्धनं नाम कुअनाम 4 / यत्र पुनरुरउदरादि यथोक्तप्रमाणोपेतं हस्तपादादिकं च हीनं तद् वामनसँस्थानम् , तन्निबन्धनं नाम वाममनाम 5 / अन्ये तु कुलवामनयोर्विपरीतं लक्षणमाहुः / यत्र सर्वेऽप्यवयवाः शास्त्रोक्तप्रमाणहीनास्तत् सर्वत्रासंस्थितं हुण्डसंस्थानम् , तन्निबन्धनं नाम हुण्डनाम 6 / ततो यदुदयाद् जन्तुशरीरं समचतुरस्रसंस्थानं भवति तत्कर्मापि समचतुरस्रसंस्थाननामेति / एवं न्यग्रोधपरिमण्डलादिष्वपि योज्यम् / उक्तं षोढा संस्थाननाम / / ___ इदानीं पञ्चधा वर्णनामाऽऽह-वर्णाः पञ्च भवन्ति कृष्णपनीलरलोहित३हरिदश्सिताः 5 / तत्र यदुदयाद् जन्तुशरीरं कृष्णं भवति राजपट्टादिवत् तत्कर्मापि कृष्णनाम 1 / यदुदयाद्जन्तुशरीरं मरकतादिवद् नीलं भवति तद् नीलनाम 2 / यदुदयाद् जन्तुशरीरं लोहितं-रक्तं हिमुलादिवद् भवति तद् लोहितनाम 3 / यदुदयाद् जन्तुशरीरं-हारिद-पीतं हरिद्रावद् भवति तद् हारिद्रनाम 4 / यदुदयाद् जन्तुशरीरं सितं-श्वेतं शङ्खादिवद् भवति तत् सितनाम 5 / कपिशादयस्त्वेतत्संयोगेनैवोत्पद्यन्ते, न पुनः सर्वथैतद्विलक्षणा इति न दर्शिताः // 39 // उक्तं वर्णनाम पञ्चधा / अथ गन्धनाम द्विधाऽऽह सुरहिदुरही रसा पण, तित्तकडुकसायअंबिला महुरा। __फासा गुरुलघुमिउखरसीउण्हसिणिद्धरुक्खऽढ // 40 // इह गन्धशब्दः प्रक्रमाद् गम्यते, ततः सुरभिगन्धो दुरभिगन्धश्च द्वेधा गन्धः / तत्र सौमुख्यकृत् सुरभिगन्धः, यदुदयाद् जन्तुशरीरं कर्पूरादिवत् सुरभिगन्धं भवति तत् सुरभिगन्धनाम 1 / वैमुख्यकृत् दुरभिगन्धः, यदुदयाद् जन्तुशरीरं लशुनादिवद् दुरभिगन्धं भवति तद् दुरभिगन्धनाम 2 / अत्राप्युभयसंयोगजाः पृथग् नोक्ताः एतत्संसर्गजत्वादेव मेदाविवक्षणात् / उक्तं द्विधा गन्धनाम // ___ अथ पञ्चधा रसनामाऽऽह-रसाः पूर्वोक्तशब्दार्थाः पञ्च भवन्ति / तथाहि-तिक्तकटुकषायाऽम्लाश्चत्वारो मधुरश्च पञ्चमः / तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिको रसः / तथा च भिषक्शास्त्रम् श्लेष्माणमरुचिं पित्तं, तृषं कुष्ठं विषं ज्वरम् / हन्यात् तिक्तो रसो बुद्धेः, कर्ता मात्रोपसेवितः // इति / 1 हुण्डं सं° ख० ग०॥ २°हुलकादि ख० ग० ङ० //