________________ 41 37-39] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / संहन्यन्ते-दृढीक्रियन्ते शरीरपुद्गला येन तत् संहननम् , तच्च 'अस्थिनिचयः कीलिकादिरूपाणामस्मां निचयः-रचनाविशेषोऽस्थिनिचयः / तत् संहननं 'षड्धा' षट्प्रकारैर्भवति / तद्यथा-वज्रऋषभनाराचं 1 तथा ऋषभनाराचम् 2 इहानुखारोऽलाक्षणिकः, नाराचम् 3 अर्धनाराचं 4 कीलिका 5 सेवार्तम् 6 / 'इह' प्रवचने 'ऋषभः' ऋषमशब्देन परिवेष्टनपट्ट उच्यते, 'वज्र वज्रशब्देन कीलिकाऽभिधीयते, 'नाराचं' नाराचशब्देनोभयतो मर्कटबन्धो भण्यते / 'इदम्' अस्थिनिचयात्मकं संहननम् 'औदारिकाङ्गे औदारिकशरीर एव, नान्येषु शरीरेषु, तेषामस्थिरहितत्वात् / इति गाथायुगलाक्षरार्थः / भावार्थः पुनरयम्-इह द्वयोरस्मोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेन अस्था परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद् वज्रऋषभनाराचम् , तन्निबन्धनं नाम वजऋषभनाराचनाम 1 / यत् पुनः कीलिकारहितं संहननं तद् ऋषभनाराचम् , तन्निबन्धनं नाम ऋषभनाराचनाम 2 / यत्र पुनर्मर्कटबन्धः केवलो भवति न पुनः कीलिका ऋषभसंज्ञः पट्टश्च तदू नाराचम् , तन्निबन्धनं नाम नाराचनाम 3 / यत्र स्वेकपोधेन मर्कटबन्धो द्वितीयपार्थेन च कीलिका भवति तद् अर्धनाराचम्, तन्निबन्धनं नामाऽर्धनाराचनाम 4 / यत्र पुनरस्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत् कीलिकासंहननम् , तन्निबन्धनं नाम कीलिकानाम 5 / यत्र तु परस्परं पर्यन्तस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति नेहाभ्यवहारतैलाभ्यङ्गविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षन्ते तत् सेवार्तम् , तन्निबन्धनं नाम सेवातनाम 6 / यद्वा “छेवटुं" ति दकारस्य लुप्तस्येह दर्शनात् छेदानाम्-अस्थिपर्यन्तानां वृत्तं-परस्परसम्बन्धघटनालक्षणं वर्तनं वृत्तियत्र तत् छेदवृत्तम् , कीलिकापट्टमर्कटबन्धरहितमस्थिपर्यन्तमात्रसंस्पर्शि षष्ठमित्यर्थः / ततो यदुदयात् शरीरे वज्रऋषभनाराचसंहननं भवति तद् वज्रऋषभनाराचसंहनननामकर्मेति / एवमृषभनाराचादिष्वपि वाच्यमिति // 37 // 38 // . व्याख्यानं षडिधं संहनननाम / सम्प्रति षोढा संस्थाननाम विवक्षुराह समचउरंसं निग्गोहसाइखुज्जाइँ वामणं हुंडं / संठाणा वन्ना किण्हनीललोहियहलिद्दसिया // 39 // समचतुरस्रम् 1 "निग्गोह" ति पदैकदेशेऽपि पदप्रयोगदर्शनात् न्यग्रोधपरिमण्डलम् 2 सौदि 3 कुजम् 4 वामनम् 5 हुण्डम् 6 इति षट् ‘संस्थानानि' अवयवरचनात्मकशरीराकृतिखरूपाणि शरीरे भवन्तीति शेषः / तत्र समाः-शास्त्रोक्तलक्षणाऽविसंवादिन्यश्चतस्रोऽसयःपर्यङ्कासनोपविष्टस्य जानुनोरन्तरम् , आसनस्य ललाटोपरिभागस्य चान्तरम् , दक्षिणस्कन्धस्य वामजानुनश्चान्तरम् , वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत् समचतुरस्रम्, "सुप्रातसुश्वसुदिवशारिकुक्षचतुरसैणीपदाऽजपदप्रोष्ठपदभद्रपदम्" (सि० 7-3-129) इति सूत्रेण समासान्तोऽप्रत्ययः, समचतुरस्रं च तत् संस्थानं च समचतुरस्रसंस्थानम् / तुल्यारोहपरिणाहः सम्पूर्णलक्षणोपेतानोपानावयवः खाङ्गुलाष्टाधिकश.१°कार भ० ख० ग० रु०॥ 2 पार्वे मक० ग० / एवमप्रेऽपि // 3 सादि 3 वामनम् 4 कुन्जम् 5 हु° ख० ग० ङ०॥ क०७