________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा तथाहि-औदारिकऔदारिकबन्धननाम 1 औदारिकतैजसबन्धननाम 2 औदारिककार्मणबन्धननाम 3, वैक्रियवैक्रियबन्धननाम 1 वैक्रियतैजसबन्धननाम 2 वैक्रियकार्मणबन्धननाम 3, आहारकाऽऽहारकबन्धननाम 1 आहारकतैजसबन्धननाम 2 आहारककार्मणबन्धननाम 3 / तत्र पूर्वगृहीतैरौदारिकशरीरपुद्गलैः सह गृह्यमाणौदारिकपुद्गलानां बन्धो येन क्रियते तद् औदारिकौदारिकबन्धननाम 1 / येनौदारिकपुद्गलानां तैजसशरीरपुद्गलैः सह सम्बन्धो विधीयते तद् औदारिकतैजसबन्धननाम 2 / येनौदारिकपुद्गलानां कार्मणशरीरपुगलैः सह सम्बन्धो विधीयते तद् औदारिककामणबन्धननाम 3 / एवमनेन न्यायेनान्यान्यपि बन्धनानि वाच्यानि / शेषबन्धननिरूपणायाह-"इयरदुसहियाणं तिनि" ति इतरे-खकीयनामापेक्षयाऽन्ये तैजसकार्मणशरीरे, ततः प्राकृतत्वादन्यथोपन्यासेऽपि द्वे च ते इतरे च द्वीतरे ताभ्यां सहितानि-युक्तानि द्वीतरसहितानि, यद्वा "दु" ति द्विकं तत इतरञ्च तहिकं चेतरद्विकं तेन सहितानि इतरद्विकसहितानि तेषां द्वीतरसहितानाम् इतरद्विकसहितानां वा, औदारिकवैक्रियाहारकाणामत्रापि योज्यम् , त्रीणि बन्धनानि भवन्ति / अयमाशयः-प्रत्येकमौदारिकवैक्रियाहारकाणां तैजसकार्मणाभ्यां युगपत् संयोगे त्रिकसंयोगरूपाणि त्रीणि बन्धनानि भवन्ति / तथाहि-औदारिकतैजसकार्मणबन्धननाम 1 वैक्रियतैजसकार्मणबन्धननाम 2 आहारकतैजसकार्मणबन्धननाम 3 / अर्थः पूर्वोक्त एव / न केवलमेषामौदारिकादीनामितरद्विकसहितानामेव त्रीणि बन्धनानि भवन्ति, किन्तु "तेसिं च" ति त्रीणीति शब्दो डमरुकमणिन्यायादत्रापि योज्यः / ततोऽयमर्थः-तयोश्चेतरशब्दवाच्ययोस्तैजसकार्मणयोः खनाना इतरेण च योगे त्रीणि बन्धनानि भवन्ति / यथा-तैजसतैजसबन्धननाम 1 तैजसकार्मणबन्धननाम 2 कार्मणकार्मणबन्धननाम 3 / तदेवं नव त्रीणि त्रीणि च मिलितानि पञ्चदश बन्धनानीति / अत्राह–पञ्चानां शरीराणां द्विकादियोगप्रकारेण षडिंशतिः संयोगा भवन्ति, तत्तुल्यबन्धनानि च कस्मात् न भवन्ति ! उच्यते-औदारिकवैक्रियाहारकाणां परस्परविरुद्धाऽन्योsन्यसम्बन्धाभावात् पञ्चदशैव भवन्ति, नाधिकानि / / आह-यथा पञ्चदश बन्धनानि भवन्ति, एवमनेनैव क्रमेण पञ्चदश सङ्घाता अपि कस्मात् नाभिधीयन्ते / सङ्घातितानामेव बन्धनभावात् , तथाहि-पाषाणयुग्मस्य कृतसङ्घातस्यैवोत्तरकालं वज्रलेपरालादिना बन्धनं क्रियते, तदसत्, यतो लोके ये खजातौ संयोगा भवन्ति त एव शुमाः, एवमिहापि खशरीरपुद्गलानां खशरीरपुद्गलैः सह ये संयोगरूपाः सङ्घातास्ते शुभा इति प्राधान्यख्यापनाय पञ्चैव सङ्घाता अभिहिता इति // 36 // . व्याख्यातानि पञ्चदशापि बन्धनानि। सम्प्रति संहनननाम पडिएमभिघित्सुर्गाथायुगलमाह संघयणमहिनिचओ, तं छद्धा बजरिसहनारायं / तह रिसहनारायं, नारायं अद्धनारायं // 37 // कीलिय छेवढं इह, रिसहो पहो य कीलिया वनं / उभओ मक्कडबंधो, नारायं इममुरालंगे // 38 // 1-2 °ह बन्धो ख० ग० अ०॥