________________ कर्मविपाकनामा प्रथमः कर्मग्रन्थः। 17 रकशरीरबन्धननाम 3 / पूर्वगृहीतैस्तैजसपुद्गलैः सह परस्परं गृह्यमाणांढजसपुद्गलान् उदितेन येन कर्मणा बध्नाति-आत्माऽन्योऽन्यसंयुक्तान् करोति तद् जतुसमं तैजसशरीरबन्धननाम / पूर्वगृहीतैः कार्मणपुद्गलैः सह परस्परं गृह्यमाणान् कार्मणपुद्गलान् उदितेन येन कर्मणा बध्नातिआत्माऽन्योऽन्यसंयुक्तान् करोति तद् जतुसमं कार्मणशरीरबन्धननाम 5 / यदि पुनरिद शरीरपञ्चकपुद्गलानामौदारिकादिशरीरनाम्नः सामर्थ्यावहीवानामन्योऽन्यसम्बन्धकारि बन्धनपञ्चकं न स्यात् ततस्तेषां शरीरपरिणतौ सत्यामप्यसम्बन्धत्वात् पवनाहतकुण्डस्थितास्तीमितसक्तूनामिवैकत्र स्थैर्य न स्यादिति // 34 // उक्तं बन्धनखरूपम् / इदं च बन्धननाम असंहवानां पुद्गलानां न सम्भवति, अतोऽन्योऽन्यसन्निधानलक्षणपुद्गलसंहतेः कारणं सङ्घातनमाह जं संघाय उरलाइपुग्गले तणगणं व दंताली। तं संघायं बन्धणमिव तणुनामेण पंचविहं // 35 // यत् कर्म 'सङ्घातयति' पिण्डीकरोति औदारिकादिपुद्गलान् आदिशब्दाद् वैक्रियपुद्गलान् आहारकपुद्गलान् तैजसपुद्गलान् कार्मणपुद्गलान् , तत्र दृष्टान्तमाह-'तृणगणमिव' तृणोत्करमिवेतश्चेतश्च विक्षिप्तं 'दन्ताली' काष्ठमयी मरुमण्डलपसिद्धा, तत् 'सङ्घातं' सङ्घातननाम, तच्च पूर्वोक्तं बन्धननामापि 'तनुनाम्ना' शरीराभिधानेन पञ्चविधं भवतीति / तत्र बन्धननाम पूर्वमेव भावितम् / अथ सङ्घातनाम भाव्यते-औदारिकसङ्घातनाम वैक्रियसङ्घातनाम आहारकसङ्घातनाम तैजससङ्घातनाम कार्मणसङ्घातनाम / तत्र यदुदयाद् औदारिकशरीरत्वपरिणवान् पुद्गलानात्मा सङ्घातयति-अन्योऽन्यसन्निधानेन व्यवस्थापयति तद् औदारिकसङ्घातननाम 1 / यदुदयाद् वैक्रियशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति-अन्योऽन्यसन्निधानेन व्यवस्थापयति तद् वैक्रियसङ्घातननाम 2 / यदुदयाद् आहारकशरीरत्वपरिणवान् पुद्गलानात्मा सङ्घातयति-अन्योऽन्यसन्निधानेन व्यवस्थापयति तद् आहारकसङ्घातननाम 3 / यदुदयात् तेजसशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति-अन्योऽन्यसन्निधानेन व्यवस्थापयति तत् तैजससङ्घातननाम 4 / यदुदयात् कार्मणशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति-अन्योऽन्यसनिधानेन व्यवस्थापयति तत् कार्मणसङ्घातननाम 5 इति // 35 // उकं पञ्चधा बन्धननाम पञ्चधा सङ्घातननाम / सम्प्रति "संते वा पनरबंधणे तिसयं" इति (30) गाथासूचितं बन्धनपञ्चदशकं व्याचिख्यासुराह ओरालविउव्वाहारयाण सगतेयकम्मजुत्ताणं। नव बंधणाणि इयरदुसहियाणं तिनि तेसिं च // 36 // औदारिकवैक्रियाऽऽहारकशरीराणां नव बन्धनानीति योगः। कीदृशानां सताम् : इत्याह'खकतैजसकार्मणयुक्तानाम्' प्रत्येकं खकतैजसकार्मणानां मध्यादन्यतरेण युक्तानामित्यर्थः / "नव" ति नवसङ्ख्यानि बन्धनानि बन्धनप्रकृतयो भवन्तीति / औदारिकवैक्रियाहारकाणां त्रयाणामपि प्रत्येकं खनाम्ना तैजसेन कार्मणेन च योगाद् द्विकसंयोगनिष्पन्नान्येकैकस्य औदारिकादेस्त्रीणि त्रीणि बन्धनानि भवन्ति, तेषां च त्रयाणां त्रिकाणां मीलने नव बन्धनानीति / 1 णमवि त° क०॥ 2 खस्खते का घ०॥