________________ देवेन्द्रसूरिविरक्तिखोपज्ञटीकोपेतः [गाया - कार्मणनिबन्धनं नाम कार्मणनाम, यदुदयात् कार्मणप्रायोग्यान् पुद्गलानादाय कार्मणशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति 5 // 32 // उक्तं तनुनाम पञ्चधा 3, इदानीमङ्गोपाङ्गनाम त्रिधा प्राह पाहरु पिढि सिर उर, उयरंग उवंग अंगुलीपमुहा। सेसा अंगोवंगा, पढमतणुतिगस्सुवंगाणि // 33 // 'बाई' भुजद्वयम् 'ऊरू' ऊरुद्वयम् 'पृष्ठिः' प्रतीता 'शिरः' मस्तकम् 'उरः' वक्षः 'उदर' पोट्टमित्यष्टावनान्युच्यन्ते / इह विभक्तिलोपः प्राकृतत्वात् , एवमन्यत्रापि / उपानानि अङ्गुलीप्रमुखाणि, इह पुंस्त्वं प्राकृतत्वात् / 'शेषाणि' तत्प्रत्यवयवभूतान्यङ्गुलपर्वरेखादीनि अङ्गोपाक्रानि, इहापि पुंस्त्वं प्राकृतत्वात् / प्राकृते हि लिङ्गमतन्त्रम् / यदाहुः प्रभुश्रीहेमचन्द्रसरिपादाः खप्राकृतलक्षणे-"लिङ्गमतन्त्रम्" (सि०८-४-४४५) इति / इमानि च उपाङ्गानि "पढमतणुतिगस्स" ति प्रथमाः-आधा यातनवः-शरीराणि तासां त्रिकं-त्रितयमौदारिकवैक्रियाऽऽहारकखरूपम् तस्य प्रथमतनुत्रिकस्य भवन्ति / ततः प्रथमतनुत्रिकद्वारेणानोपाङ्गनामापि त्रिविध मन्तव्यम् / तथाहि-औदारिकाङ्गोपाङ्गनाम वैक्रियाजोपाङनाम आहारकाजोपाननाम / तत्र यदुदयाद् औदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद् औदारिकालोपाङ्गनाम 1 / यदुदयाद् वैक्रियशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद् वैक्रियानोपानाम 2 / यदुदयाद् आहारकशरीरत्वेन परिणताना पुद्गलानामनोपानविभागपरिणतिरुपजायते तद् आहारकाङ्गोपाङ्गनाम 3 / तैजसकार्मणयोस्तु बीवप्रदेशसंस्थानानुरोपित्वात् नास्त्यनोपाइसम्भव इति // 33 // . उक्तं त्रिविघमनोपाङ्गनाम / साम्प्रतं बन्धननामखरूपमाह... उरलाइपुग्गलाणं, निबद्धबझतयाण संबंधं / जं कुणइ जउसमं तं, उरलाईबंधणं नेयं // 34 // औदारिकादिपुद्गलानाम् आदिशब्दाद् वैक्रियपुद्गलानाम् आहारकपुद्गलानां तैजसपुद्गलानां कार्मणपुद्गलानाम् , किंविशिष्टानाम् ? इत्याह-"निबद्धबझंतयाण"ति निबद्धाश्च बध्यमानाश्च निबद्धवष्यमानास्तेषां 'निबद्धबध्यमानानां' पूर्ववद्धानां बध्यमानानां च यत् कर्म सम्बन्ध' परस्परं मीलनं करोति दारूणामिव जतु, अत एव जतुसमं तद् औदारिकादिबन्धनम् , आदिशब्दाद् वैक्रियबन्धनम् आहारकबन्धनं तैजसबन्धनं कार्मणबन्धनं 'ज्ञेयं ज्ञातव्यमिति गाथाक्षरार्थः। भावार्थस्त्वयम्-इह पूर्वगृहीतैरौदारिकपुद्गलैः सह परस्परं गृह्यमाणान् औदारिकपुद्गकान् उदितेन येन कर्मणा बन्नाति-आत्मा अन्योऽन्यसंयुक्तान् करोति तद् औदारिकशरीरबन्धन नाम दारुपाषाणादीनां जतुरालाप्रमृतिश्लेषद्रव्यतुल्यम् 1 / पूर्वगृहीतैर्वैक्रियपुद्गलैः सह परस्पर गृह्यमाणान् वैक्रियपुद्गलान् उदितेन येन कर्मणा बध्नाति-आत्माऽन्योऽन्यसंयुक्कान् करोति तद् जतुसमं वैक्रियशरीरबन्धननाम २।पूर्वगृहीतैराहारकशरीरपुद्गलैः सह परस्परं गृह्यमाणान् आहारकपुद्गलान् उदितेन येन कर्मणा बध्नाति-आत्माऽन्योऽन्यसंयुक्तान् करोति तद् जतुसममाहा १पुहिक० ख० गऊ॥ 2 पेट्टमि घ०॥