________________ 15 32] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / 169) इतीकण्प्रत्ययः, तन्निबन्वनं नाम औदारिकनाम, यदुदयवशाद् औदारिकशरीरप्रायोग्यान् पुद्गलानादाय औदारिकशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयति, तद् औदारिकशरीरनामेत्यर्थः 1 / तथा विविधा क्रिया विक्रिया तस्यां भवं वैक्रियम् / तथाहि-तदेकं भूत्वा अनेकं भवति, अनेकं भूत्वा एकम् , अणु भूत्वा महद् भवति, महच्च भूत्वा अणु, खेचरं भूत्वा भूमिचरं भवति, भूमिचरं भूत्वा खेचरं भवति, दृश्य भूत्वा अदृश्यं भवति, अदृश्यं भूत्वा दृश्यमित्यादि / तच द्विधा-औपपातिकं लब्धिप्रत्ययं च / तत्रौपपातिकम्-उपपातजन्मनिमित्तम् , तच देवनारकाणाम् / लब्धिप्रत्ययं तिर्यमनुष्या. णाम् / वैक्रियनिबन्धनं नाम वैक्रियनाम, यदुदयाद वैक्रियशरीरप्रायोग्यान पुद्गलानादाय वैकियशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति 2 / तथा चतुर्दशपूर्व विदा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशाद् आह्रियते-निवर्त्यत इत्याहारकम् , “बहुलम्" (सि०५-१-२) इति वचनात् कर्मणि णक्प्रत्ययः, यथा पादहारक इत्यादौ, तच्च वैक्रियापेक्षयाऽत्यन्तशुभं खच्छस्फटिकशिलेव शुभ्रपुद्गलसमूहघटनात्मकम् , आहारकनिबन्धनं नाम आहारकनाम, यदुवयवशाद् आहारकशरीरप्रायोग्यान् पुद्गलानादाय आहारकशरीररूपतया परिणमयति, परिणमथ्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति 3 / तथा तेजसा तेजःपुद्गलैर्निर्वृत्तं तैजसम्, यद् भुक्ताहारपरिणमनहेतुर्यद्वशाच विशिष्टतपःसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः, तेजोनिबन्धनं नाम तैजसनाम, यदुदयवशात् तैजसशरीरमायोग्यान् पुद्गलानादाय तैजसशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति / तथा कर्मपरमाणुषु भवं कार्मिकं कार्मणशरीरमित्यर्थः / कर्मपरमाणव एवामप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः कार्मणशरीरम् , कर्मणो विकारः कार्मणमिति ध्युत्पत्तेः / तदुक्तम् कैम्मविगारो कम्मणमट्टविह विचित्तकम्मनिष्फनं / . सबेसि सरीराणं, कारणभूयं मुणेयवं // अत्र "सोर्सि" ति सर्वेषामौदारिकादिशरीराणां 'कारणभूतं' बीजभूतं कार्मणशरीरम् / ने खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावसम्भवः / इदं च कार्मणशरीर जन्तोर्गत्यन्तरसान्तौ साधकतमं कारणम् / तथाहि-कार्मणेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशममिसर्पति / ननु यदि कार्मणवपुःपरिकरितो गत्यन्तरं सङ्कामति तर्हि स गच्छन्नागच्छन् वा कस्मात् नोपलक्ष्यते / उच्यते-कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियाऽगोचरत्वात् / आह च प्रज्ञाकरगुप्तोऽपि---- अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलक्ष्यते। निष्कामन् प्रविशन् वाऽपि, नाभावोऽनीक्षणादपि // १कार्मणं शक० ख० ग० घ०॥ 2 कर्मविकारः कार्मणमष्ठविधविचित्रकर्मनिष्पनम् / सर्वेर्षा घरीराणां कारणभूतं सातव्यम् //