________________ 44 देवेन्द्रसूरिविरचितखोपजुटीकोपेतः [गाथा तेषां जातय इति विग्रहः / भावार्थोऽयम्-एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामभेदात् पञ्चधा जातिनाम / तत्र एकस्य स्पर्शनेन्द्रियज्ञानस्यावरणक्षयोपशमाद् एकविज्ञानभाज एकेन्द्रियाः, द्वयोः स्पर्शनरसनज्ञानयोरावरणक्षयोपशमाद् द्विविज्ञानभाजो द्वीन्द्रियाः, त्रयाणां स्पर्शनरसनघ्राणज्ञानानामावरणक्षयोपशमात् त्रिविज्ञानभाजस्त्रीन्द्रियाः, चतुर्णा स्पर्शनरसनघाणचक्षुर्ज्ञानानामावरणक्षयोपशमात् चतुर्विज्ञानभाजश्चतुरिन्द्रियाः, पश्चानां स्पर्शनरसनघाणचक्षुःश्रोत्रज्ञानानामावरणक्षयोपशमात् पञ्चविज्ञानभाजः पञ्चेन्द्रियाः / तत एकेन्द्रियाणां जातिनाम एकेन्द्रियजातिनाम, एवं यावत् पञ्चेन्द्रियजातिनाम / अत्राह-ननु एतेन जातिनाम्ना किं भावेन्द्रियमेकादिकं जन्यते ! उत द्रव्येन्दिर ! आहोखिदेकेन्द्रियोऽयमित्यादिव्यपदेशः ? इति त्रयी गतिः / तत्र यद्याद्यः पक्षः स न युक्तः, मावेन्द्रियस्य श्रोत्रादीन्द्रियज्ञानावरणक्षयोपशमजन्यत्वात् "क्षायोपशमिकानीन्द्रियाणि" इति वचनात् / अथ द्रव्येन्द्रियं जन्यते तदप्ययुक्तम् , द्रव्येन्द्रियस्येन्द्रियपर्याप्तिनामोदयजन्यत्वात् / एकेन्द्रियादिव्यपदेशस्त्वेकादीन्द्रियज्ञानावरणक्षयोपशमपर्याप्तिनामभ्यामेव सेत्स्यति किसन्तर्गडुना जातिनाना , अत्रोच्यते-आद्यविकल्पयुगलं तावद् अनभ्युपगमादेव निरस्तम् / यत् पुनरुक्तम् 'एकेन्द्रियादिव्यपदेशस्तु' इत्यादि तदयुक्तम् , यत इन्द्रियज्ञानावरणक्षयोपशम इन्द्रियपर्याप्तिश्च यथाक्रमं भावेन्द्रियजनने द्रव्येन्द्रियजनने च कृतार्था कथमेकेन्द्रियादिव्यपदेशनिबन्धनपरिणतिलक्षणं कार्यान्तरं जनयितुमलम् !, न धन्यसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गात्, तस्माद् एकेन्द्रियादीनां समानजातीयजीवान्तरेण सह समाना बाद्या काचित् परिणतिरेकेन्द्रियादिशब्दवाच्या अवश्य जातिनामकोंदयत एवाभ्युपगन्तव्या / उकं च अव्यभिचारिणा सादृश्येन एकीकृतोऽर्थात्मा जातिः इति / तथाहि-वकुलादीनामनुमानादिसिद्धे इन्द्रियपञ्चकक्षयोपशमे सत्यपि पञ्चेन्द्रियशब्दज्यपदेश्यपञ्चेन्द्रियजातिनामकमोदयजन्यविशिष्टबाह्यपरिणत्यमावात् न पञ्चेन्द्रियव्यपदेशो भवति / यद्येवं गोतुरगभुजगमातङ्गादिक्रमे सत्यपि पञ्चेन्द्रियव्यपदेश्यस्यापि पर्यायस्य कारणं किञ्चित् कर्माभ्युपगन्तव्यम् ! इति चेद् नैवम् , जातिनामकर्मवैचित्र्यादेव तत्सिद्धेः / न चात्रैकान्तेन युक्त्युपन्यास एवाग्रहः कार्यः, आगमोपपतिगम्यत्वात् तत्त्वस्य / यदवादि- . आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् / अतीन्द्रियाणामर्थाना, सद्भावप्रतिपत्तये // इति / उक्तं जातिनाम पञ्चधा 2 / तथा औदारिकं च वैक्रियं च आहारकं च तैजसं च कार्मिक चेति द्वन्द्वः / भावार्थोऽयम्-औदारिकवैक्रियाऽऽहारकतैजसकार्मणनामभेदात् पञ्चधा शरीरनाम / तत्र उदारं-प्रधानम् , प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुचरसुरशरीरस्यापि अनन्तगुणहीनत्वात् , यद्वा उदारं-सातिरेकयोजनसहस्रमानत्वात् शेषशरीरापेक्षया बृहत्प्रमाणम् , बृहत्ता चास्य वैक्रिय प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोचरवैक्रियं योजनलक्षमानमपि लभ्यते, उदारमेवौदारिकम् , “विनयादिभ्यः" (सि०७-२१ विदि ल° ख०॥