________________ 1-32] कर्मविपाकवामा प्रथमः कर्मग्रन्थः।। 43 वशादेव बन्धे नाधिकार इत्युक्तम् , सम्प्रति ययोः प्रकृत्योः सर्वथैव बन्धो न भवति ते माह-"न य सम्ममीसया बंधे" ति 'न च' नैव सम्यक्त्वमिश्रके बन्धेऽधिक्रियेते / अयमभिप्रायः-सम्यक्त्वमिश्रयोर्बन्ध एव न भवति, किन्तु मिथ्यात्वपुद्गलानामेव जीवः सम्यक्त्वगुणेन मिथ्यात्वरूपतामपनीय केषाश्चिदत्यन्तविशुद्धिमापादयति, अपरेषां त्वीषद्विशुद्धिम् , केचित् पुनर्मिथ्यात्वरूपा एवावतिष्ठन्ते; तत्र येऽत्यन्तविशुद्धास्ते सम्यक्त्वव्यपदेशभाजः, ईद्विशुद्धा मिश्रव्यपदेशभाजः, शेषा मिथ्यात्वमिति / उक्तं च सम्यक्त्वगुणेन ततो, विशोधयति कर्म तत् स मिथ्यात्वम् / यद्वच्छगणप्रमुखैः, शोध्यन्ते कोद्रवा मदनाः / / . यत् सर्वथाऽपि तत्र विशुद्धं तद् भवति कर्म सम्यक्त्वम् / मिश्रं तु दरविशुद्धं, भवत्यशुद्धं तु मिथ्यात्वम् // उदयोदीरणासत्तासु पुनः सम्यक्त्वमिश्रके अप्यधिक्रियेते / एवं च सति ज्ञानावरणे पञ्च, दर्शनावरणे नव, वेदनीये द्वे, मोहे सम्यक्त्वमिश्रवर्जाः षड्विंशतिः, आयुषि चतस्रः, नाम्नि मेदान्तरसम्भवेऽपि प्रदर्शितयुक्त्या सप्तषष्टिः, गोत्रे द्वे, अन्तराये पञ्च इत्येतविंशत्युत्तरं प्रकृतिशतं बन्धेऽधिक्रियते / एतदेव सम्यक्त्वमिश्रसहितं द्वाविंशत्युत्तरप्रकृतिशतमुदये उदीरणायां च / सत्तायां पुनः शेषकर्मणां पञ्चपञ्चाशत् नाम्नस्त्रिनवतिरित्यष्टाचत्वारिंशं शतम् , यद्वा शेषकर्मणां पञ्चपञ्चाशत् नाम्नत्युत्तरशतमित्यष्टापश्चाशं शतमधिक्रियत इति / एतदेव मनसिकृत्याह- "बंधुदए सत्ताए" इत्यादि / इह शतशब्दस्य प्रत्येकं योगाद् यथासङ्ख्यं बन्धे विशं शतम् , उदये उपलक्षणत्वाद् उदीरणायां च द्वाविंशं शतम् , सचायामष्टपञ्चाशं शतम् उपलक्षणत्वादष्टाचत्वारिंशं शतमिति, भावना सुकरैव // 31 // अब पूर्वनिर्दिष्टान् गतिजातिप्रभृतीनां पिण्डप्रकृतीनां चतुरादिभेदान् व्याचिख्यासुराह- मिरयतिरिनरसुरगई, इगबियतियचउपणिदिजाईओ। ओरालियवेउबियाहारगतेयकम्मइगा // 32 // निरयाश्च तिर्यञ्चश्च नराश्च सुराश्च तेषु गतिरिति विग्रहः / भावार्थोऽयम्-आतिशब्दः प्रत्येकं योज्यते, ततश्च "अयमिष्टफलं दैवम्" इति वचनाद् निर्गतम् अयम्-इष्टफलं सातवेदनीयादिरूपं येभ्यस्ते निरयाः-सीमन्तकादयो नरकावासाः, ततो निरयेषु विषये गतिरिति गतिनाम निरयगतिनाम, तद्विपाकवेद्या कर्मप्रकृतिरपि निरयगतिनाम, नारकशब्दव्यपदेश्यपायनिबन्धनं निरयगतिनामेति हृदयम् / एवं तिर्यगनरसुरगतिनामापि वाच्यम् / अत्राह-ननु सर्वेऽपि पर्याया जीवेन गम्यन्ते प्राप्यन्त इति सर्वेषामपि तेषां गतित्वप्रसनः, तथा च प्राग्गतिशब्दस्येयमेव व्युत्पतिर्दर्शितेति, नैवम् , यतोऽविशेषेण व्युत्पादिता अपि वादा रूढितो गोशब्दवत् प्रतिनियतमेवार्थ विषयीकुर्वन्तीत्यदोषः / उक्तं गतिनाम पतुर्विधम् 1 / तथा सूचकत्वात् सूत्रस्य एकेन्द्रियाश्च द्वीन्द्रियाश्च त्रीन्द्रियाश्च चतुरिन्द्रियाश्च पञ्चेन्द्रियाश्च भोरालविवाहारगतेयकम्मण पण सरीरा घ०॥