________________ , देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः ( স্মথ यावत् चतुरादयो भेदा भवन्तीति वाक्यार्थः / तथाहि-गतिनाम चतुर्धा, जातिनाम पञ्चघा, तनुनाम पञ्चधा, उपाङ्गनाम त्रिघा, बन्धननाम पञ्चधा, सङ्घातननाम पञ्चधा, संहनननाम पोढा, संस्थाननाम षोढा, वर्णनाम पञ्चधा, गन्धनाम द्विघा, रसनाम पञ्चधा, स्पर्शनामाऽष्टधा, आनुपूर्वानाम चतुर्धा, विहायोगतिनाम द्वेषा / एतेषां सर्वमीलने मेदाप्रमाह"इय" ति 'इति' अमुना चतुरादिभेदमीलनप्रकारेणोत्तरभेदानां पञ्चषष्टिरिति // 29 // अडवीसजुया तिनवइ, संते वा पनरबंधणे तिसयं / बंधणसंघायगहो, तणूसु सामन्नवन्नचऊ // 30 // ___ एषा पूर्वोक्ता पञ्चषष्टिः 'अष्टाविंशतियुता' प्रत्येकप्रकृत्यष्टाविंशत्या सह मीलने त्रिभिरधिका नवतिस्त्रिनवतिर्भवति / सा च कोपयुज्यते ? इत्याह-"संते" ति प्राकृतत्वात् सत्तायां सत्कर्म प्रतीत्य बोद्धव्येत्यर्थः / वाशब्दो विकल्पाओं व्यवहितसंबन्धश्च, स चैवं योज्यते'पञ्चदशबन्धनैस्त्रिशतं वा' पञ्चदशसयैर्वक्ष्यमाणखरूपैर्बन्धनैः प्रदर्शितत्रिनबतिमध्ये प्रक्षिप्तैलिभिरधिकं शतं त्रिशतं वा सत्तायामधिक्रियते इति शेषः / अथ त्रिनवतिमध्ये पञ्चदशानां प्रकृतीनां प्रक्षेपेऽष्टोत्तरं शतं भवतीति चेद् उच्यते-या वक्ष्यमाणाः पञ्चदश बन्धननामप्र-. कृतयस्तासु मध्यात् सामान्यत औदारिकादिबन्धनपञ्चकस्य त्रिनवतिमध्ये पूर्व प्रक्षिप्तत्वात् शेषाणां दशानां प्रक्षेपे त्रिशतमेव भवतीति न कश्चिद्विरोधः / सूत्रे च "पनरबंधणे" इत्यत्र विभक्तिवचनव्यत्ययः प्राकृतत्वादिति / उक्ता नामकर्मणस्त्रिनवतिरुयुत्तरशतं च मेदानाम् / अथ सप्तषष्टिभेदानाह-"बंधणसंघायगहो तणूसु" ति / बन्धनानि च पञ्चदश, सङ्घाताश्चसङ्घातनानि पञ्च, बन्धनसङ्घातास्तेषां ग्रहणं ग्रहो बन्धनसङ्घातग्रहः / 'तनुषु' शरीरेषु, तनुग्रहणेनैव बन्धनसङ्घाता गृह्यन्ते न पृथग् विवक्ष्यन्त इत्यर्थः / तथा “सामन्नवनचऊ" चि सामान्यं-कृष्णनीलाद्यविशेषितं वर्णेनोपलक्षितं चतुष्कं सामान्यवर्णचतुष्कं गृह्यत इति शेषः / अयमत्राशयः-इह सप्तषष्टिमध्ये औदारिकादितनुपञ्चकमेव गृह्यते, न तद्वन्धनानि सत्सवातनानि च, यत औदारिकतन्वा खजातीयत्वाद् औदारिकतनुसदृशानि बन्धनानि तत्सङ्घाताश्च गृहीताः; एवं वैक्रियादितन्वाऽपि निर्जनिजबन्धनसङ्घाता गृहीता इति न पृथगेते पञ्चदश बन्धनानि पञ्च सङ्घाता गण्यन्ते / तथा वर्णगन्धरसस्पर्शानां यथासङ्ग्यं पञ्चद्विपञ्चाऽष्टमेदैर्निष्पन्नां विंशतिमपनीय तेषामेव सामान्यं वर्णगन्धरसस्पर्शलक्षणं चतुष्कं गृह्यते, ततश्चानन्तरोदितात् त्र्युत्तरशताद् वर्णादिषोडशकबन्धनपञ्चदशकसङ्घातपञ्चकलक्षणानां षट्त्रिंशत्प्रकृतीनामपसारणे सति सप्तषष्टिर्भवतीति // 30 // एतदेवाह इय सत्तट्ठी बंधोदए य न य सम्ममीसया बंधे। बंधुदए सत्ताए, वीसदुवीसऽट्ठवन्नसयं // 31 // 'इति' पूर्वोक्तप्रकारेण सप्तषष्टिर्नामकर्मप्रकृतीनां भवति / सा च कोपयुज्यते ! इत्याह"बंधोदए य" ति बन्धश्च उदयश्च बन्धोदयं तस्मिन् 'बन्धोदये' बन्धे च उदये च सप्तषष्टिर्भवति, चशब्दाद् उदीरणायां च सप्तषष्टिः / अथ बन्धनसङ्घातनवर्णादिविशेषाणां विवक्षा१जा निजा बख० ग०3०॥ HEHHHHHH