________________ 25-29] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / / असशब्देनोपलक्षितं प्रकृतिदशकं त्रसदशकमिदमुच्यते इति शेषः / तथा स्थावरेण स्थावरशब्देनोपलक्षितं त्रसदशकस्य विपक्षभूतं "दस" ति प्राकृतत्वाद् दशकं स्थावरदशकम् , तत् पुनरिदं वक्ष्यमाणामिति // 26 // तदेकह थावर सुहुम अपन, साहारणअथिरअसुभदुभगाणि / दुस्सरणाइजाजस, इय नामे सेयरा वीसं // 27 // इहापि नामशब्दस्य सम्बन्धात् स्थावरनाम सूक्ष्मनाम अपर्याप्तनाम साधारणनाम अस्थिरनाम अशुभनाम दुर्भगनाम दुःखरनाम अनादेयनाम "अजस" ति अयशःकीर्तिनाम / प्ररूपितं दशकद्वयमपि, अधुना दशकद्वयमीलने यथाभूता सतीयं विंशतिर्यद्विषयोच्यते तदाह"इय" ति 'इति' अमुना प्रसादिप्रदर्शितप्रकारेण "नामे" ति नामकर्मणि 'सेतरा' सप्रतिपक्षा प्रत्येकसंज्ञिता विंशतिर्विज्ञेया / तथाहि-त्रसनानः स्थावरनाम प्रतिपक्षभूतम्, एवं बादरसूक्ष्मप्रकृतीनामपि सेतरत्वं सुप्रतीतमेवेति // 27 // अथानन्तरोद्दिष्टत्रसादिविंशतिमध्ये यासां प्रकृतीनामाद्यपदनिर्देशेन याः संज्ञा भवन्ति ताः कथयन्नाह... तसचउथिरछकं अथिरछक्कसुहमतिगथावरचउक। सुभगतिगाइविभासा, तदाइसंखाहिँ पयडीहिं // 28 // त्रसप्रकृत्योपलक्षितं चतुष्कं त्रसचतुष्कम्, एतदनुसारतः समासोऽन्यत्रापि कार्यः, ततो यथासम्भवं पुनरपि समाहारद्वन्द्वश्च / तत्र त्रसचतुष्कं यथा-वसं बादरं पर्याप्तं प्रत्येकमिति / स्थिरषट्कम्-स्थिरं शुभं सुभगं सुखरम् आदेयं यशःकीर्तिश्चेति / अस्थिरषट्कम्-अस्थिराऽशुभदुर्भगदुःखराऽनादेयाऽयशःकीर्तिखरूपम् / सूक्ष्मत्रिकम्-सूक्ष्माऽपर्याप्तसाधारणलक्षणम् / सावरचतुष्कम्-स्थावरसूक्ष्माऽपर्याप्तसाधारणाख्यम् / सुभगत्रिकम्-सुमगसुखराऽऽदेयाभिधम् / आदिशब्दाद् दुर्भगत्रिकम् -दुर्भगदुःखराऽनादेयखरूपं गृह्यते / ततः सूत्रपदे समासो यथा-सुभगत्रिकमादिर्यस्य दुर्भगत्रिकस्य तत् सुभगत्रिकादि तस्य विभाषा-प्ररूपणा कर्तव्येति शेषः / काभिः कृत्वा पुनस्वसचतुष्कादिका विभाषा कर्तव्या ! इत्याह-'तदादिसझ्याभिः प्रकृतिभिः' सा-निर्दिष्टा प्रकृतिरादिर्यस्याः सङ्ख्यायाः सा तदादिः, तदादिः सङ्ख्या यासां प्रकृतीनां तास्तदादिसङ्ख्यास्ताभिस्तदादिसङ्ख्यामिः प्रकृतिभिः, कोऽर्थः: याऽसौ प्रकृतिस्त्रसादिका निर्दिष्टा तामादौ कृत्वा निर्दिष्ट सङ्ख्या पूरणीयेति / एताश्च संज्ञाः प्रकृतिपिण्डकसङ्ग्राहिण्यो यथास्थानमुपयोगमायास्यन्तीति कृत्वा प्ररूपिता इति // 28 // उक्ता नामकर्मणो द्वाचत्वारिंशद् भेदाः / अथ तस्यैव विनवतिभेदान् प्ररूपयितुकामो गत्यादिपदानां पिण्डप्रकृतिसंज्ञिकानां मध्ये केस पदेन यावन्तो भेदाः पिण्डिता वर्तन्ते तान् मेदान् तेषामाह गइयाईण उ कमसो, चउपणपणतिपणपंचछच्छक्कं / पणदुगपणऽढचउदुग, इय उत्तरभेयपणसट्ठी // 29 // 'गत्यादीनां' पिण्डप्रकृतीनां पूर्वप्रदर्शितखतपाणां पुनः 'क्रमशः' क्रमेण यथासङ्ग्यमिति १०कं त्रसंक०ग०॥