________________ 10 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा पर्वरेखादीन्योपानानि, ततश्चानानि चोपानानि च अनोपानानि चेति द्वन्द्वे "स्यादावसध्येयः" (सि० 3-1-119) इत्येकशेषे च कृते अनोपानीति, तत्र यदुदयात् शरीरतयोपाचा अपि पुद्गला अनोपानविभागेन परिणमन्ति तत् कर्मापि अनोपाङ्गनाम 4 / बध्यन्तेगृधमाणपुद्गलाः पूर्वगृहीतपुद्गलैः सह श्लिष्टाः क्रियन्ते येन तद् बन्धनं तदेव नाम बन्धननाम 5 / खत एव संघ्नन्ति-सङ्घावमापद्यन्ते, ततस्ते संमन्तः सन्तः सङ्घात्यन्ते-प्रत्येकं शरीरपञ्चकप्रायोग्याः पुद्गलाः पिण्ड्यन्ते येन तत् सङ्घातनं तदेव नाम सङ्घातननाम 6 / संहन्यन्तेधातूनामनेकार्थत्वाद् दृढीक्रियन्ते शरीरपुद्गलाः कपाटादयो लोहपट्टिकादिनेव येन तत् संहननं तदेव नाम संहनननाम 7 / सन्तिष्ठन्ते-विशिष्टावयवरचनात्मिकया शरीराकृत्या जन्तवो भवन्ति येन तत् संस्थानं तदेव नाम संस्थाननाम 8 / वर्ण्यते-अलकियतेऽनेनेति वर्ण: कृष्णादिः, जन्तुशरीरे कृष्णादिवर्णहेतुकं नामकर्मापि वर्णनाम 9 / गन्ध्यते-आघायत इति गन्धः, तद्धेतुत्वान्नामकर्मापि गन्धनाम 10 / रस्यते-आखाद्यत इति रसस्तिक्तादिः, जन्तुशरीरे तिकादिरसहेतुकं कर्मापि रसनाम 11 / स्पृश्यत इति स्पर्शः कर्कशादिः, तद्धेतुत्वात् कर्मापि स्पर्शनाम 12 / द्विसमयादिना विग्रहेण भवान्तरं गच्छतो जन्तोरनुश्रेणिनियता गमनपरिपाटी आनुपूर्वी, तद्विपाकवेद्या कर्मप्रकृतिरप्यानुपूर्वी 13 / गमनं गतिः, सा पुनरत्र पादादिविहरणात्मिका देशान्तरप्राप्तिहेतुर्दीन्द्रियादीनां प्रवृचिरभिधीयते, नैकेन्द्रियाणां पादादेरभावात् , ततो विहायसा-नभसा गतिर्विहायोगतिः, तद्धेतुत्वात् कर्मापि विहायोगतिनाम 14 / ननु विहायसः सर्वगतत्वेन ततोऽन्यत्र गमनाभावाद् व्यवच्छेद्याभावेन विहायसेति विशेषणस्य वैयर्थ्यम्, सत्यम् , किन्तु यदि गतिरित्येवोच्येत तदा नाम्नः प्रथमप्रकृतिरपि गतिरस्त्रीति पौनरुक्त्याशक्षा स्यात् , तयवच्छेदार्थ विहायोग्रहणमकारि, विहायसा गतिः प्रवृत्तिर्न तु भवगतिर्नारकादिकेति // 24 // अथ प्रदर्शितानां गत्यादिप्रकृतीनामभिधानसझ्याकथनपूर्वकमष्टौ प्रत्येकप्रकृतीराह पिंडपयडि त्ति चउदस, परघाउस्सासआयवुज्जोयं / ___ अगुरुलहुतित्थनिमिणोवधायमिय अह पत्तेया // 25 // एतैर्गतिनामादिभिः पदैर्वक्ष्यमाणचतुरादिभेदानां पिण्डितानां प्रतिपादनात् पिण्डप्रकृतय उच्यन्ते / काः ! 'इति' इति एता गत्यादयोऽनन्तरगाथोद्दिष्टाः प्रकृतयः / कियन्त्यः पुनस्ताः! इत्याह-चतुर्दशसहयाः / तथा प्रक्रमानामशब्दः पराघातादिष्वप्यध्याहार्यः, तद्यथापराघातनाम उच्छासनाम आतपनाम उक्ष्योतनाम अगुरुलघुनाम "तित्थ" ति तीर्थकरनाम "निमिण" ति निर्माणनाम उपघातनाम 'इति' एताः पराघातादयः 'अष्टौ' अष्टसङ्ख्याः प्रत्येकप्रकृतयो ज्ञेयाः, आसां पिण्डप्रकृतिवदन्यमेदाभावादिति // 25 // तस बायर पजत्तं, पत्तय थिरं सुभं च सुभगं च / सुसराइज जसं तसदसगं थावरदसं तु इमं // 26 // _नामशब्दस्बेहापि सम्बन्धात् सनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरनाम शुभनाम सुभगनाम 'चशब्दौ' समुच्चये सुखरनाम आदेयनाम "जसं'. ति यशःकीर्तिनाम इत्येवं