________________ 22-24] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / सुरन्ति-विशिष्टमैश्वर्यमनुभवन्ति दिव्याभरणकान्त्या सहजशरीरकान्त्या च दीप्यन्त इति सुराः, यदि वा सुष्टु रान्ति-ददति प्रणतानामीप्सितमर्थ लवणाधिपसुस्थित इव लवणजलधौ मार्ग जनार्दनस्येति सुराः-देवाः तेषामायुः सुरायुर्येन तेष्ववस्थितिर्भवति 1 / नृणन्वि-निश्चिन्बन्ति वस्तुतत्त्वमिति नराः-मनुष्याः तेषामायुर्नरायुस्तद्भवावस्थितिहेतुः 2 / “तिरि" ति प्राकृतस्वात् तिरोऽञ्चन्ति-गच्छन्तीति तिर्यञ्चः, व्युत्पतिनिमित्तं चैतत् , प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, ततस्तिरब्धामायुस्तिर्यगायुर्येनैतेषु स्थीयते 3 / नरान् उपलक्षणत्वात् तिरथोऽपि प्रभूतपापकारिणः कायन्तीव-आहृयन्तीवेति' नरकाः-नरकावासास्तत्रोत्पन्ना जन्तवोऽपि नरकाः, नरको वा विद्यते येषां ते "अादिभ्यः" (सि०७-२-४६) इति अप्रत्यये नरकास्तेषामायुर्नरकायुर्येन ते तेषु ध्रियन्ते / एतच्चायुर्हडिसहशं भवति / तत्र हडि:-खोडकस्तेन सरशं तत्तुल्यम् , यथा हि राजादिना हडौ क्षिप्तः कश्चिञ्चौरादिस्ततो निर्गमनमनोरथं कुर्वाणोऽपि विवक्षितं कालं यावत् तया ध्रियते, तथा नारकादिस्ततो निष्क्रमितुमना अपि तदायुषा प्रियत इति हडिसदृशमायुः / व्याख्यातं चतुर्विधं पञ्चममायुष्कर्म // सम्प्रति षष्ठं नामकर्माभिघित्सुराह-"नामकम्म चित्तिसमं" इत्यादि / नामकर्म भवति 'चित्रिसम' चित्रं कर्म तत् कर्तव्यतया विद्यते यस्य स चित्री-चित्रकरतेन समम्-सदृशं चित्रिसमम् / यथा हि चित्री चित्रं चित्रप्रकारं विविधवर्णकैः करोति, तथा नामकर्मापि जीवं नारकोऽयं तिर्यग्जातिकोऽयमेकेन्द्रियोऽयं द्वीन्द्रियोऽयमित्यादिव्यपदेशैरनेकधा करोतीति चित्रिसममिदमिति / एतच्चानेकभेदम् , कथम् ! इत्याह-"बायालतिनवइविहं तिउत्तरसयं च सत्तही" ति / अत्र विधाशब्दस्य प्रत्येकं योगाद् द्विचत्वारिंशद्विधम् , यद्वा त्रिनवतिविधम् , यदि वा व्युत्तरशतविधम् , अथवा सप्तषष्टिविधम् / चशब्दः समुच्चये व्यवहितसम्बन्धश्च, स च तथैव योजितः // 23 // अथ नामकर्मणो द्विचत्वारिंशतं मैदान् प्रचिकटयिषुराह गइजाइतणुउवंगा, बंधणसंघायणाणि संघयणा। संठाणवन्नगंधरसफासअणुपुग्विविहगगई // 24 // इह नाम्नः प्रस्तावात् सर्वत्र गत्यादिषु नामेत्युपस्कारः कार्यः / तथाहि-गतिनाम जातिनाम तनुनाम उपाङ्गनाम (ग्रन्थानम् 1000) बन्धननाम सङ्घातननाम संहनननाम संस्थाननाम वर्णनाम गन्धनाम रसनाम स्पर्शनाम आनुपूर्वीनाम विहायोगतिनामेति / तत्र गम्यतेतथाविधकर्मसचिवैींवैः प्राप्यत इति गतिः-नारकादिपर्यायपरिणतिः, तद्विपाकवेद्या कर्मप्रकृतिरपि गतिः, सैव नाम गतिनाम 1 / जननं जातिः-एकेन्द्रियादिशब्दव्यपदेश्येन. पर्यायेण जीवानामुत्पतिः, तद्भावनिबन्धनभूतं नाम जातिनाम 2 / तनोति-जन्तुरात्मप्रदेशान् विस्तारयति यस्यां सा तनुः, तज्जनकं कर्मापि तनुः, सैव नाम तनुनाम, शरीरनामेत्यर्थः 3 / "उवंग' ति उपलक्षणत्वाद् अङ्गोपाङ्गनाम, तत्र “अौप व्यक्तिम्रक्षणगतिषु" इति धातोः अज्यन्ते-गर्भोत्पत्तेरारभ्य व्यक्तीभवन्ति जन्मप्रभृतेर्मक्ष्यन्ते चेत्यानि शिरउरउदरादीनि वक्ष्यमाणखरूपाणि, तदवयवभूतान्यगुल्यादीन्युपानानि, शेषाणि तु तत्पत्यवयवभूतान्यङ्गुलिषु १°ति नरकावासास्त ख० ग० 0 //