________________ 18 देवेन्द्रसूरिविरचितखोपाटीकोपेतः - गाथा मनिमित्तं वा जीवस्य बाधाभ्यन्तरेषु वस्तुष्वरतिः-अप्रीतिर्भवति तद् अरतिमोहनीयम् 3 / यदुदयात् सनिमित्तमन्यथा वा जीवस्योरस्ताडनक्रन्दनपरिदेवनदीर्घनिःश्वसनभूलुठनरूपः शोको भवति तत् शोकमोहनीयम् 4 / यदुदयात् सनिमितमनिमितं वा तथारूपखसङ्कल्पतो जीवस्य "इहपरलोयारऽऽदाण३मकम्हा४आजीव५मरणक्ष्मसिलोए 7 / " (आव०सं०गा० पत्र 615-2) इति गाथाधोक्तं सप्तविधं भयं भवति तद् भयमोहनीयम् 5 / यदुदयात् सनिमित्तमनिमित्तं वा जीवस्याशुभवस्तुविषया जुगुप्सा-व्यलीकं भवति तद् जुगुप्सामोहनीयम् 6 // 21 // उक्तं हास्यादिषट्कं, सम्प्रति वेदत्रिकमाह पुरिसित्थि तदुभयं पह, अहिलासो जव्वसा हवह सोउ। थीनरनपुवउदओ, फुफुमतणनगरदाहसमो॥२२॥ प्रतिशब्दः प्रत्येकं योज्यते, पुरुष प्रति स्त्रियं प्रति तदुभयं प्रति-स्त्रीपुरुषं प्रतीत्यर्थः 'यद्वशात्' यत्पारतध्याद् 'अभिलाषः' वान्छा भवति' जायते, तुशब्दः परस्परापेक्षया पुनरर्थे, सी-योषित् नरः-पुरुषः "नपु"त्ति नपुंसकं तैवेद्यते-अनुभूयते स्त्रीनरनपुंवेदस्तस्योदयः स्त्रीनरनपुंवेदोदयो ज्ञेय इति शेषः / पुम्फुमा-करीषम् तृणानि-प्रतीतानि नगर-पुरम् फुस्फुमातृणनगराणि तेषां दाहस्तेन समः-तुल्य इति गाथाक्षरार्थः / भावार्थस्त्वयम्-यद्वशात् स्त्रियाः पुरुषं प्रत्यमिलापो भवति, यथा पित्तवशाद् मधुरद्रव्यं प्रति, स फुस्फुमादाहसमः, [* यथा यथा चाल्यते तथा तथा ज्वलति "बृंहति च, एवमबलाऽपि यथा यथा संस्पृश्यते पुरुषेण तथा तथाऽस्या अधिकतरोऽभिलाषो जायते, अभुज्यमानायां तु च्छन्नकरीषदाहतुल्योऽभिलाषो मन्दइत्यर्थः, इति *] स्त्रीवेदोदयः 1 / यद्वशात् पुरुषस्य स्त्रियं प्रत्यभिलाषो भवति, यथा श्लेष्मवशादम्लं प्रति, स पुनस्तृणदाहसमः, [* यथा तृणानां दाहे ज्वलनं झटिति विध्यापनं च भवति, एवं पुंवेदोदये स्त्रियाः सेवनं प्रत्युत्सुकोऽभिलाषो भवति, निवर्तते च तत्सेवने शीघ्रमिति *] नरवेदोदयः 2 / यद्वशाद् नपुंसकस्य तदुभयं प्रत्यभिलाषो भवति, यथा पित्तश्लेष्मपश्चात् मज्जिका प्रति, स पुनर्नगरदाहसमः, [* यथा नगरं दह्यमानं महता कालेन दह्यते विध्याति च महतैव, एवं नपुंसकवेदोदयेऽपि स्त्रीपुरुषयोः सेवनं प्रत्यभिलाषातिरेको महताऽपि कालेन न निवर्तते, नापि सेवने तृप्तिरिति *] नपुंवेदोदयः 3 / अभिहितं वेदत्रिकम् , तदभिधाने चाभिहितं नवधा नोकषायमोहनीयम् , तदमिधाने च समर्थितं चारित्रमोहनीयमिति // 22 // उक्तमष्टाविंशतिविधं चतुर्थे मोहनीयं कर्म, इदानीं पश्चममायुष्कर्म व्याचिख्यासुराह सुरनरतिरिनरयाऊ, हडिसरिसं नामकम्म चित्तिसमं / बायालतिनवइविहं, तिउत्तरसयं च सत्तही // 23 // आयुःशब्दः प्रत्येकं योज्यते, ततश्च सुष्ठु राजन्त इति सुराः, यद्वा "सुरत् ऐश्वर्यदीप्त्योः" 1 इहपरलोकादानमकस्मादाजीविकामरणमश्लोकः // 2 [* *-एताहकू सफुल्लिककोष्ठकान्तःपाती सन्दर्भः क पुस्तके मास्ति, एवमप्रेऽपि // ३°था फुम्फुमा चाख०॥ 4 दहति च ख० गळ म.१०॥ ५°वमानाऽपि ख०॥ 6 दाघे ख०म० 0 //