________________ 19-21] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / विशेषस्तत्सम्बन्धिनी लता सुखेनैव नमति, एवं यस्य मानस्सोदये जीवः खाग्रहं मुक्त्वा सुखेनैव नमति स संज्वलनमानः 1 / यथा स्तब्धं किमपि काष्ठममिखेदादिबहूपायैः कष्टेन नमति, एवं यस्य मानस्योदये जीवोऽपि कष्टेन नमति स काष्ठोपमः प्रत्याख्यानावरणो मानः 2 / यथाऽस्थि-हड्डु बहुतरैरुपायैरतितरां महता कष्टेन नमति, एवं यस्य मानस्योदये जीवोऽप्यतितरां महता कष्टेन नमति सोऽस्थ्युपमोऽप्रत्याख्यानावरणो मानः 3 / शिलायां घटितः शैलः शैलश्चासौ स्तम्भश्च शैलस्तम्भस्तदुपमस्त्वनन्तानुबन्धी मानः, कथमप्यनमनीय इत्यर्थः // 19 // उक्तश्चतुर्विधो मानः। अथ मायालोभी व्याख्यानयन्नाह- मायाऽवलेहिगोमुत्तिमिंदसिंगघणवंसिमूलसमा / लोहो हलिदखंजणकदमकिमिरागसामाणो // 20 // मायाऽवलेखिकासमा संज्वलनी, धनुरादीनामुल्लिख्यमानानां याऽवलेखिका वक्रत्वग्रूपा पतति, यथाऽसौ कोमलत्वात् सुखेनैव प्राञ्जलीक्रियते, एवं यस्या उदये समुत्पन्नाऽपि हृदये कुटिलता. सुखेनैव निवर्तते सा संज्वलनी माया 1 / गौः-बलीवर्दस्तस्य मार्गे गच्छतो वक्रतया पतिता मूत्रधारा गोमूत्रिकाऽभिधीयते, यथाऽसौ शुष्का पवनादिभिः किमपि कष्टेन नीयते, एवं यजनिता कुटिलता कष्टेनापगच्छति सा गोमूत्रिकासमा प्रत्याख्यानावरणी माया 2 / एवं मेषशृङ्गसमायामप्यप्रत्याख्यानावरणमायायां भावना कार्या, नवरमेषा कष्टतरनिवर्तनीया 3 / धनवंशीमूलसमा त्वनन्तानुबन्धिनी माया, यथा निबिडवंशीमूलस्य कुटिलता किल वहिनाऽपि न दह्यते, एवं यजनिता मनःकुटिलता कथमपि न निवर्तते साऽनन्तानुबन्धिनी माये. त्यर्थः 4 / तथा लोभो हरिदारागसमानः संज्वलनः, यथा वाससि हरिदारागः सूर्यातपस्पर्शादिमात्रादेव निवर्तते तथाऽयमपीत्यर्थः 1 / कष्टनिवर्तनीयो वस्त्रविलमप्रदीपादिखञ्जनसमानः प्रत्याख्यानावरणलोभः 2 / कष्टतरापनेयो वस्त्रलमनिबिडकर्दमसमानोऽप्रत्याख्यानावरणलोमः 3 / कृमिरागरक्तपट्टसूत्ररागसमानः कथमप्यपनेतुमशक्योऽनन्तानुबन्धी लोभ 4 इति // 20 // उक्तं कषायमोहनीयम् / अथ नोकषायमोहनीयं व्याख्यायते, तच्च द्विविधम्-हास्यादिषट्कं वेदत्रिकं च / तत्र हास्यादिषट्कं व्याख्यानयन्नाह जस्सुदया होइ जिए, हास रई अरइ सोग भय कुच्छा। सनिमित्तमन्नहा वा, तं इह हासाइमोहणियं // 21 // . यस्य 'उदयाद्' विपाकात् 'भवति' जायते 'जीवे' जीवस्य हासो रतिः अरतिः शोको भयं "कुच्छ"ति जुगुप्सा, हासादिशब्देषु सिलोपः प्राकृतत्वात् , 'सनिमित्तं' सकारणम् 'अन्यथा' अनिमित्तं निष्कारणम् , वाशब्दः पक्षान्तरद्योतकः, तद् इह' प्रवचने हास्यादिमोहनीयम् / आदिशब्दाद् रतिमोहनीयम् अरतिमोहनीयं शोकमोहनीयं भयमोहनीयं जुगुप्सामोहनीयं मण्यत इति शेषः, इति गाथाक्षरार्थः / भावार्थः पुनरयम्-यदुदयात् सनिमित्तमनिमिचं वा जीवस्य हासः-हास्वं भवति तद् हासमोहनीयम् 1 / यदुदयात् सनिमित्तमनिमित्रं वा बाह्याभ्यन्तरेषु वस्तुषु जीवस्य रतिः-प्रमोदो भवति तद् रतिमोहनीयम् 2 / यदुदयात् सनिमिच१ कष्टेनापनीय ग० घ०॥