________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा तिश्च यथाख्यातचारित्रं च सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्राणि तेषां पात:-विनाशः सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्रघातस्खं कुर्वन्तीत्येवंशीलाः सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्रघातकराः / एतदुक्तं भवति–अनन्तानुबन्धिनः कषायाः मम्यक्त्वघातकाः। यदाहुः श्रीभद्रबाहुखामिपादाः पंढमिल्ल्याण उदए, नियमा संजोयणाकसायाणं / सम्मइंसणलंभं, भवसिद्धीया विन लहंति // (आ०नि० गा० 108) अप्रत्याख्यानावरणा देशविरतर्घातकाः, न सम्यक्त्वस्येत्याल्लब्धम् / यदाहुः पूज्यपादाः बीयकसायाणुदये, अप्पञ्चक्खाणनामधिज्जाणं / सम्मइंसणलंभ, विरयाविरयं न उ लहंति // (आ० नि० गा० 109) प्रत्याख्यानावरणास्तु सर्वविरतर्घातकाः, सामर्थ्यान्न देशविरतेः / उक्तं च तैइयकसायाणुदए, पञ्चक्खाणावरणनामधिजाणं / / देसिकदेसविरई, चरित्तलंभं न उ लहंति // (आ० नि० गा० 110) - संज्वलनाः पुनर्यथाख्यातचारित्रस्य घातकाः, न सामान्यतः सर्वविरतेः / उक्तं च श्रीमदाराध्यपादैः मूलगुणाणं लंभ, न लहइ मूलगुणघाइणं उदए / संजलणाणं उदए, न लहइ चरणं अहक्खायं // (आ० नि० गा० 111) इति // 18 // अथ जलरेखादिदृष्टान्तेन किश्चित्सविशेष कोषादिकषायाणां खरूपं व्याचिख्यासुराह जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो। . तिणिसलयाकट्ठडियसेलत्थंभोवमो माणो // 19 // इह राजिशब्दः सदृशशब्दश्च प्रत्येकं सम्बध्यते / ततो जलराजिसदृशस्तावत् संज्वलन क्रोधः, यथा यट्यादिभिर्जलमध्ये राजी-रेखा क्रियमाणा शीघ्रमेव निवर्तते, तथा यः कथमप्युदयप्राप्तोऽपि सत्वरमेव व्यावर्तते स संज्वलनः क्रोधोऽभिधीयते 1 / रेणुराजिसदृशः प्रत्याख्यानावरणः क्रोधः, अयं हि संज्वलनक्रोधापेक्षया तीव्रत्वा रेणुमध्यविहितरेखावत् चिरेण निवर्तत इति भावः 2 / पृथिवीराजिसशस्त्वप्रत्याख्यानावरणः, यथा स्फुटितपृथिवीसम्बधिनी राजी कचवरादिभिः पूरिता कष्टेनापनीयते, एवमेषोऽपि प्रत्याख्यानावरणापेक्षया कष्टेन निवर्तत इति भावः 3 / विदलितपर्वतराजिसदृशः पुनरनन्तानुबन्धी क्रोधः, कथमपि निवर्तयितुमशक्य इत्यर्थः 1 / उक्तश्चतुर्विधः क्रोधः // ___ इदानीं मानोऽभिधीयते--तत्र तिनिसलतोपमः संज्वलनो मानः, यथा तिनिशः-वनस्पति प्राथमिकानामुदये नियमात्संयोजनाकषायाणाम् / सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते // 2 द्वितीयकषायाणामुदयेऽप्रत्याख्याननामधेयानाम् / सम्यग्दर्शनलाभं विरताविरतं न तु लभन्ते // 3 तृतीयकषायाणामुदये प्रत्याख्यानावरणनामधेयानाम् / देशैकदेशविरतिं चरित्रलाभं न तु लभन्ते // 4 मूलगुणानां काम न लभते मूलगुणधाविनामुदये / संज्वलनानामुदये न लभते चरणं यथाख्यातम् //