________________ 17-18] कर्मविपाकनामा प्रथमः कर्मप्रन्धः / ते चत्वारः क्रोधमानमायालोमाः / तथा परीषहोपसर्गोपनिपाते सति चारित्रिणमपि 'संशब्द ईषदर्थे' सम्-ईषद ज्वलयन्ति-दीपयन्तीति संज्वलनाः / यदभ्यधायि परीषहोपसर्गोपनिपाते यतिमप्यमी / ___ समीषद् ज्वलयन्त्येव, तेन संज्वलनाः स्मृताः // ते चत्वारः क्रोधमानमायालोमाः / तदेवं चत्वारश्चतुष्ककाः षोडश भवन्तीति // 17 // उक्काः षोडश कषायाः, सम्प्रत्येतेषामेव विशेषतः किञ्चित् खरूपं प्रतिपिपादयिषुराह जाजीववरिसचउमासपक्खगा नरयतिरियनरअमरा। सम्माणुसव्वविरईअहखायचरित्तघायकरा // 18 // "जाजीव" ति "यावत्वावजीवितावर्तमानावटमावारकदेवकुलैवमेवे वः" (सि०८-१२७१) इति प्राकृतसूत्रेण वकारलोपे यावजीवं च वर्ष च चतुर्मासं च पक्षश्च यावज्जीववर्षचतुर्मासपक्षास्तान् गच्छन्तीति यावज्जीववर्षचतुर्मासपक्षगाः / “नाम्नो गमः खड्डौ च विहायसस्तु विहः" (सि०५-१-१३१) इति डप्रत्ययः / इदमुक्तं भवति-यावज्जीवानुगा अनन्तानुबन्धिनः, वर्षगा अप्रत्याख्यानावरणाः, चतुर्मासगाः प्रत्याख्यानावरणाः, पक्षगाः संज्वलनाः / इदं च फरुसवयणेण दिणतवं, अहिक्खिवंतो य हणइ मासतवं / वरिसतवं सवमाणो, हणइ हणंतो यं सामन्नं // (उप० मा० गा० 134) इत्यादिवद् व्यवहारनयमाश्रित्योच्यते; अन्यथा हि बाहुबलिप्रभृतीनां पक्षादिपरतोऽपि संज्वलनाद्यवस्थितिः श्रूयते, अन्येषां च संयतादीनामाकर्षादिकाले प्रत्याख्यानावरणानामप्रत्याख्यानावरणानामनन्तानुबन्धिनां चान्तर्मुहूर्तादिकं कालमुदयः श्रूयत इति / तथा नरकगतिकारणत्वांदनन्तानुबन्धिनः कषाया अपि नरकाः, भवति च कारणे कार्योपचारः, यथा-"आयुधृतम् , नडलोदकं पादरोगः" इति / एवं तिग्गतिकारणत्वात् तिर्यञ्चोऽप्रत्याख्यानावरणाः, नरगतिकारणत्वान्नराः प्रत्याख्यानावरणाः, अमरगतिकारणत्वादमराः संज्वलनाः / एतदुक्तं भवति–अनन्तानुबन्ध्युदये मृतो नरकगतावेव गच्छति, अप्रत्याख्यानावरणोदये मृतस्तिर्यक्षु, प्रत्याख्यानावरणोदये मृतो मनुष्येषु, संज्वलनोदये पुनर्पतोऽमरेष्वेव गच्छति / उक्तश्चायमर्थः पश्चानुपूर्व्याऽन्यत्रापि पैक्खचउमासवच्छरजावज्जीवाणुगामिणो भणिया / देवनरतिरियनारयगइसाहणहेयवो नेया // (विशे० गा० 2992) - इंदमपि व्यवहारनयमधिकृत्योच्यते; अन्यथा हि अनन्तानुबन्ध्युदयवतामपि मिथ्याशा केषाञ्चिदुपरितनौवेयकेषत्पत्तिः श्रूयते, प्रत्याख्यानावरणोदयवतां देशविरतानां देवगतिः, अप्रत्याख्यानावरणोदयवतां च सम्यग्दृष्टिदेवानां मनुष्यगतिः / तथा “सम्म" ति सम्यक्त्वं च "अणुसबविरइ"ति विरतिशब्दस्य प्रत्येकं सम्बन्धाद् अणुविरतिश्च-देशविरतिः सर्वविर.१ परुषवचनेन दिनतपोऽधिक्षिपंश्च हन्ति मासतपः / वर्षतपः शपमानः हन्ति ग्रंथ श्रामण्यम् // 2 पक्षचतुर्मासवत्सरयावज्जीवानुगामिनो भणिताः / देवनरतिर्यमारकगतिसाधनहेतवो ज्ञेयाः॥