________________ 31 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा इत्यादिप्रतिपादितगुरुलक्षणविलक्षणेऽगुरावपि गुरुबुद्धिः, संयमसूनृतशौचब्रमसत्यादि(ब्रह्माकिश्चन्यादि)खरूपधर्मप्रतिपक्षेऽधर्मेऽपि धर्मबुद्धिरिति मिथ्यात्वम् // 16 // उकं मिथ्यात्वम् , तगणने चाभिहितं त्रिविधमपि दर्शनमोहनीयम् / इदानीं चारित्रमोहनीयमभिघित्सुराह सोलस कसाय नव नोकसाय दुविहं चरित्तमोहणियं / अण अप्पच्चक्खाणा, पञ्चक्खाणा य संजलणा // 17 // 'द्विविघं' द्विमेदं चारित्रमोहनीयं भवति, वद्यथा-"सोलस कसाय" ति कष्यन्ते-हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः-संसारः, कषमयन्ते-गच्छन्त्येभिर्जन्तव इति कषायाः। यद्वा कषस्याऽऽयः-लामो येभ्यस्ते कषायाः क्रोधमानमायालोमाः। तत्र क्रोधोऽक्षान्तिपरिणतिरूपः, मानो जात्यादिसमुत्थोऽहकारः, माया परवञ्चनाद्यामिका, लोभोऽसन्तोषात्मको गृद्धिपरिणामः / ततः षोडशसङ्ख्याः कषायाः कषायमोहनीयमुच्यते / विभक्तिलोपश्च प्राकृतत्वात् , एवमुत्तरत्रापि / “नव नोकसाय" ति कषायैः सहचरा नोकषायाः, ते च नव-हास्यादयः षट् त्रयो वेदाः / अत्र नोशब्दः साहचर्यवाची / एषां हि केवलानां न प्राधान्यमस्ति, किन्तु कषायैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति, तद्विपाकसदृशमेव विपाकं दर्शयन्ति, बुधग्रहवदन्यसं. सर्गमनुवर्तन्ते इति भावः / कषायोद्दीपनाद्वा नोकषायाः / उक्तं च कषायसहवर्तित्वात् , कषायप्रेरणादपि / हास्यादिनवकस्योक्ता, नोकषायकषायता // ततो नवसङ्ख्या नोकषाया नोकषायमोहनीयमुच्यते / अथ “यथोद्देशं निर्देशः" इति न्यायात् प्रथमं कषायमोहनीयं व्याख्यानयन्नाह-"अण अप्पञ्चक्खाणा" इत्यादि / “अण" वि अनन्तानुबन्धिनः / तत्रानन्तं संसारमनुबधन्तीत्येवंशीला अनन्तानुवन्धिनः / यदवाचि यस्मादनन्तं संसारमनुबन्ति देहिनाम् / ततोऽनन्तानुबन्धीति, संज्ञाऽऽद्येषु निवेशिता // ते चत्वारः क्रोधमानमायालोमाः / यद्यपि चैतेषां शेषकषायोदयरहितानामुदयो नास्ति, तथाप्यवश्यमनन्तसंसारमौलकारणमिथ्यात्वोदयाक्षेपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः। शेषकपाया हि नावश्यं मिथ्यात्वोदयमाक्षिपन्ति, अतस्तेषामुदययोगपद्ये सत्यपि नायं व्यपदेश इत्यसाधारणमेतेषामेवैतन्नामेति / तथा न वेद्यते खल्पमपि प्रत्याख्यानं येषामुदयादतोऽप्रत्याख्यानाः। यदभाणि नाल्पमप्युत्सहेयेषां, प्रत्याख्यानमिहोदयात् / अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता // ते चत्वारः क्रोधमानमायालोमाः। तथा प्रत्याख्यानं सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः / यन्यगादि सर्वसावद्यविरतिः, प्रत्याख्यानमिहोच्यते / तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता // १भायाः कषायाः।