________________ - 16] 33 कर्मविपाकनामा प्रथमः कर्मग्रन्थः। खीणे दंसणमोहे, तिविहम्मि वि खाइयं भवे सम्मं / वेयगमिह सबोइयचरमिल्लयपुग्गलग्गासं // (धर्मसं० 801) उवसमसेढिगयस्स उ, होइ हु उवसामियं तु सम्मत्तं / जो वा अकयतिपुंजो, अखवियमिच्छो लहइ सम्मं // उवसमसम्मत्ताओ, चयओ मिच्छं अपावमाणस्स / सासायणसम्मत्तं, तयंतरालम्मि छावलियं // मिच्छत्तं जमुइन्नं, तं खीणं अणुइयं च उवसंतं / मीसीभावपरिणयं, वेइज्जंतं खओवसमं // (विशे० आ० गा० 529-31-32) इति // 15 // उक्तं सम्यक्त्वम् / अथ मिश्रमाह__ मीसा न रागदोसो, जिणधम्मे अंतमुहु जहा अन्ने / नालियरदीवमणुणो, मिच्छं जिणधम्मविवरीयं // 16 // "मिश्रात्' मिश्रोदयाद् जीवस्य 'जिनधर्मे जिनधर्मस्योपरि न रागः-मतिदौर्बल्यादिना एकान्तनिश्चयात्मकश्रद्धानरूपः प्रीतिविशेषः, न च द्वेषः-एकान्तविप्रतिपत्तिपरिणामोपजातनिन्दा मकोप्रीतिरूपः / मिश्रोदयश्च "अंतमुहु" त्ति 'अन्तर्मुहूर्त' भिन्नमुहूर्तकालं यावद् भवती. त्यर्थः / अथ कथं मिश्रोदयाज्जिनधर्मे न रागो न द्वेषः ! इत्याशक्य दृष्टान्तमाह-"जहा अन्ने" इत्यादि / 'यथा' इत्युदाहरणोपन्यासे 'अन्ने कुराधोदने 'नालिकेरद्वीपमनुजस्य' नालिकेरद्वीपवासिपुरुषस्य न रागो न च द्वेषोऽदृष्टाऽश्रुतत्वेन / उक्तं च बृहच्छतकबृहचूर्णी जैहा नालिकेरदीववासिस्स अइछुहाइयस्स वि पुरुसस्स इत्थ ओयणाइए अणेगविहे - वि ढोइए तस्स आहारस्स उवरिं न रुई न य निंदा, जेण कारणेण सो ओयणाइओ आहारो न कयाइ दिट्ठो नावि सुओ / एवं सम्मामिच्छदिद्विस्स वि जीवाइपयत्थाणं उवरिं न रुई न य निंदा // इत्यादि। उक्तं मिश्रम् / सम्प्रति मिथ्यात्वमाह-"मिच्छं जिणधम्मविवरीयं" ति / "मिच्छं" ति मिथ्यात्वं जिनधर्माद् विपरीतं-विपर्यसं ज्ञेयमिति शेषः / अत्रायमाशयः-रागद्वेषमोहादिकलवाकितेऽदेवेऽपि देवबुद्धिः, "धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः / सत्त्वानां धर्मशास्त्रार्थदेशको गुरुरुच्यते // " १क्षीणे दर्शनमोहे त्रिविधेऽपि क्षायिकं भवेत्सम्यक्त्वम् / वेदकमिह सर्वोदितचरमपुदलप्रासम् // उपशमश्रेणिगतस्य तु भवति खलु औपशमिकं तु सम्यक्त्वम् / यो वाऽकृतत्रिपुजोऽक्षपितमिथ्यात्वो लभते सम्यक्वम् // उपशमसम्यक्त्वाच्यवमानस्य मिथ्यालमप्राप्नुवतः / साखादनसम्यक्त्वं तदन्तराले षडावलिकम् // मिथ्यात्वं यदुदीर्ण तत्क्षीणमनुदितं चोपशान्तम् / मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् // 2 उवसामगसेढिगयस्स होइ उव इति भाष्ये // 3 यथा नालिकेरदीपवासिनोऽतिक्षुधादितस्यापि पुरुषस्येहौदनादिकेऽनेकविधेऽपि दौकिते तस्याहारस्योपरि न रुचिर्न च निन्दा, येन कारणेन स ओदनादिक आहारो न कदाचिद् दृष्टो नापि श्रुतः। एवं सम्यग्मिथ्यादृष्टेरपि जीवादिपदार्थानामुपरिन रुचिर्न च निन्दा // क०५