________________ 55 35-18] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / प्रतिनियतस्थानवृत्तिता भवति तत् सूत्रधारकल्प निर्माणनामेत्यर्थः / तदभावे हि तहतककल्पैरनोपाननामादिभिर्निर्वर्तितानामपि शिरउदरादीनां स्थानवृत्तेरनियमः स्यात् 7 / 'उपधाता' उपघातनामोदयाद् 'उपन्यते' विनाश्यते जन्तुः, कैः? इत्याह-खा-खकीया तनुः-शरीरं खतनुस्तस्या अवयवाः-अंशा ये लम्बिकादयः, आदिशब्दात् प्रतिजिह्वाचौरदन्तादिपरिग्रहस्तैः, "सतणुवयव" इत्यत्र अकारलोपः प्राकृतत्वात् / यदुदयात् खशरीरान्तःप्रवर्धमानैर्लम्बिकाप्रतिजिहाचौरदन्तादिभिर्जन्तुरुपहन्यते तद् उपघातनामेत्यर्थः 8 // 47 // व्याख्याता अष्टौ प्रत्येकप्रकृतयः / साम्प्रतं त्रसदशकं व्याख्यानयत्नाह बितिचउपणिदिय तसा, बायरओ बायरा जिया थूला। . नियनियपजत्तिजुया, पत्ता लद्धिकरणेहिं // 48 // त्रस्यन्ति-उप्णाद्यभितप्ताः सन्तो विवक्षितस्थानाद् उद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थ स्थानान्तरमिति त्रसाः, तत्पर्यायविपाकवेद्यं कर्मापि त्रसनाम / ततः 'त्रसात्' सनामोदयाद जीवाः "बितिचउपणिदिय" ति इन्द्रियशब्दस्य प्रत्येकं योगाद् द्वे इन्द्रिये स्पर्शनरसनलक्षणे येषां ते द्वीन्द्रियाः, शङ्खचान्दनककपर्दजलूकाकृमिगण्डोलकपूतरकादयो भवन्ति / त्रीणि स्पर्शमरसनघ्राणलक्षणानीन्द्रियाणि येषां ते त्रीन्द्रियाः, यूकामत्कुणगर्दमेन्द्रगोपककुन्थुमस्कोटकादयः / चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रियाः, मक्षिकाभ्रमरमशकवृश्चिकादयः / पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणीन्द्रियाणि येषां ते पञ्चेन्द्रियाः, मत्स्यमकरहरिहरिणसारसराजहंसनरसुरनारकादयो भवन्तीति / यदुदयाद् जीवास्त्रसा द्वित्रिचतुःपञ्चेन्द्रिया भवन्ति तत् त्रसनामेत्यर्थः 1 / 'बादराद्' बादरनामोदयाद् 'जीवाः' जन्तवो बादराः-स्थूला भवन्ति / . बादरत्वं चेह न चक्षुद्यत्वमिष्टम् , बादरस्याप्येकैकस्य पृथिव्यादिशरीरस्य चक्षुर्माहत्यामावात् / तस्माद् जीवविपाकित्वेन जीवस्यैव कश्चिद् बादरपरिणामं जनयति एतद्, न पुद्गलेषु, किन्तु जीवविपाक्यप्येतत् शरीरपुद्गलेष्वपि काञ्चिदप्यभिव्यक्तिं दर्शयति / तेन बादराणां बहुतरसमुदितपृथिव्यादीनां चक्षुषा ग्रहणं भवति, न सूक्ष्माणाम् / जीव विपाकिकर्मणः शरीरे खशक्तिप्रकटनमयुक्तमिति चेत्, नैवम् , जीवविपाक्यपि क्रोधो भ्रूभनत्रिवलीतरङ्गितालिकफलकक्षरत्वेदजलकणनेत्राद्याताम्रत्वपरुषवचनवेपथुप्रभृतिविकारं कुपितनरशरीरेऽपि दर्शयति, विचित्रत्वात् कर्मशक्तेरिति / / ___ यदुदयाद् जीवा बादरा भवन्ति तद् बादरनामेत्यर्थः 2 / 'पर्याप्तात्' पर्याप्तमामोदयाद जीवा निजनिजपर्याप्तियुता भवन्ति / तत्र पर्याप्तिर्नाम पुद्गलोपचयजः पुद्गलग्रहणपरिणमनहेतुः शक्तिविशेषः, सा च विषयभेदात् पोढा-आहारपर्याप्तिः 1 शरीरपर्याप्तिः 2 इन्द्रियपर्याप्तिः 3 उच्छ्वासपर्याप्तिः 4 भाषापर्याप्तिः 5 मनःपर्याप्तिः 6 चेति / तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः 1 / यया रसीभूतमाहारं रसासूग्मांसमेदोऽखिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः 2 / यया धातुरूपतया परिण १°मर्कोटका ख०१०ङ०॥