________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा मितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः 3 / यया पुनरुच्छ्वासप्रायोग्यवर्गणादलिकमादाय उच्छ्वासरूपतया परिणमय्याऽऽलम्ब्य च मुञ्चति सा उच्छासपर्याप्तिः / यया तु भाषाप्रायोग्यवर्गणाद्रव्यं गृहीत्वा भाषात्वेन परिणमय्याऽऽलम्ब्य च मुश्चति सा भाषापर्याप्तिः 5 / यया पुनर्मनोयोग्यवर्गणादलिकं गृहीत्वा मनस्त्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा मनःपर्याप्तिः 6 / एताश्च यथाक्रममेकेन्द्रियाणां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाऽर्सज्ञिपञ्चेन्द्रियाणां संज्ञिपञ्चेन्द्रियाणां च चतुःपञ्चषट्सङ्ख्या भवन्ति / तथा वैक्रियशरीरिणां शरीरपर्याप्तिरेवैका आन्तर्मोहूर्तिकी, शेषाः पञ्चाप्येकसामयिक्यः / औदारिकशरीरिणां पुनराहारपर्याप्तिरेवैका एकसामयिकी, शेषाः पुनरान्तमॊहूर्तिक्यः / आह च वेउवियपज्जती, सरीर अंतमुहु सेस इगसमया / / ___ आहारे इगसमया, सेसा अंतमुहु ओराले // - ततः पर्याप्तयो विद्यन्ते येषां "अभ्रादिभ्यः" (सि०७-२-४६) इति अप्रत्यये ते पर्याप्ताः, तद्विपाकवेद्यं कर्मापि पर्याप्तनाम / यदुदयात् खपर्याप्तियुक्ता भवन्ति जीवास्तत् पर्याप्तनामेत्यर्थः 3 / ते च पर्याप्ता द्विधा- लब्ध्या करणैश्च / तत्र ये खयोग्यपर्याप्तीः सर्वा अपि समर्थ्य नियन्ते नावाक् ते लब्धिपर्याप्ताः; ये च पुनः करणानि-शरीरेन्द्रियादीनि निर्वर्तितवन्तस्ते करणपर्याप्ता इति / ननु च शरीरपर्याप्त्यैव शरीरं भविष्यति, किं प्रागभिहितेन शरीरनाम्ना :, नैतदस्ति, साध्यभेदात् / तथाहि-शरीरनाम्नो जीवेन गृहीतानां पुद्गलानामौदारिकादिशरीरत्वेन परिणतिः साध्या, शरीरपर्याप्तेः पुनरारब्धशरीरस्य परिसमाप्तिरिति / अथ प्रागुक्तेनोच्छासनाम्नैवोच्छ्सनस्य सिद्धत्वाद् इहोच्छासपर्याप्तिनिर्विषयेति, नैवम् , सतीमप्युच्छासनामोदयेन जनितामुच्छ्सनलब्धिमात्मा शक्तिविशेषरूपामुच्छ्रासपर्याप्तिमन्तरेण व्यापारयितुं न शक्नुयात् / यथा हि शरीरनामोदयेन गृहीता अप्यौदारिकादिशरीरपुद्गलाः शक्तिविशेषरूपां शरीरपर्याप्ति विना शरीररूपतया परिणमयितुं न शक्यन्त इति शरीरनाम्नः पृथग् इप्यते शरीरपर्याप्तिः, एवमत्राप्युच्छासनानः पृथगुच्छासपर्याप्तिरेष्टव्या, तुल्ययुक्तित्वादिति // 48 // पत्तेय तणू पत्तेउदयेणं दंतअट्टिमाइ थिरं। नाभुवरि सिराइ सुह, सुभगाओ सव्वजणइहो // 49 // / ___ 'प्रत्येकोदयेन' प्रत्येकनामकर्मोदयवशाद् जन्तूनां 'प्रत्येकं तनुः' पृथक् पृथक् शरीरं भवति, यदुदयाद् एकैकस्य जन्तोरेकैकं शरीरमौदारिकं वैक्रियं वा भवति तत् प्रत्येकनामेत्यर्थः 4 / 'स्थिरं' स्थिरनामोदयेन दन्ताऽस्थ्यादि निश्चलं भवति, यदुदयात् शिरोऽस्थिग्रीवादीनामवयवानां स्थिरता भवति तत् स्थिरनामेत्यर्थः 5 / 'शुभं' शुभनामोदयात् नाभ्युपरि शिरआदिर्भवति, यदुदयाद् नाभेरुपर्यवयवाः शुभा भवन्ति तत् शुभनाम, शिरःप्रभृतिभिः स्पृष्टः परो हृष्यतीति तेषां शुभत्वम् 6 / 'सुभगात्' सुभगनामोदयेन सर्वजनेष्टो भवति, 1 वैक्रियपर्याप्तिः शरीरे आन्तर्मोहूर्तिकी शेषा एकसामयिक्यः / आहारे (पर्याप्तिः) एकसामयिकी शेषा भान्तर्मोहूर्तिक्य औदारिके //