________________ 19-50] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / यदुदयाद् अनुपकार्यपि सर्वस्य मनःप्रियो भवति तत् सुभगनामेत्यर्थः 7 / तदभ्यधायि अणुवकए वि बहूणं, होइ पिओ तस्स सुभगनामुदओ ति / सुभगुदए वि हु कोई, कंची आसज दूभगो जइ वि। जायऍ तद्दोसाओ, जहा अभवाण तित्थयरों // // 19 // सुसरा महुरसुहझुणी, आइना सव्वलोयगज्झवओ। जसओ जसकित्ति इओ, थावरदसगं विववत्थं // 50 // 'सुखरात्' सुखरनामोदयेन मधुरः-माधुर्यगुणालङ्कृतः सुखयतीति सुखः-सुखदो ध्वनिःखरो भवति, यदुदयाद् जीवस्य खरः श्रोत्रप्रीतिहेतुर्भवति तत् सुखरनामेत्यर्थः 8 / 'आदेयाद्' आदेयनामोदयेन सर्वलोकेन समस्तजनेन ग्राह्यम्-आदेयं वचः-वचनं यस्य स तथा, यदुदयाद् यत्किञ्चिदपि ब्रुवाणो जीवः सर्वस्योपादेयवचनो भवति, दर्शनसमनन्तरमेव तस्याभ्युत्यानादि समाचरति तद् आदेयनामेत्यर्थः 9 / “जसउ" तिं यशःकीर्तिनामोदयाद् यशःकीर्तिर्भवति / तत्र सामान्यतस्तपःशौर्यत्यागादिसमुपार्जितयशसा कीर्तन-संशब्दनं श्लाघनं यशःकीर्तिरुच्यते / यद्वा . दानपुण्यकृता कीर्तिः, पराक्रमकृतं यशः / अथवा एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः / 10 इति / व्याख्यातं त्रसदशकम् / सम्प्रति स्थावरदशकं व्याचिख्यासुरतिदिशति-'इतः' सदशकात् स्थावरदशकं 'विपर्यस्तं' विपरीतार्थ भवति / तथाहि-तिष्ठन्तीत्येवंशीला उष्णाद्यमितापेऽपि तत्परिहाराऽसमर्थाः स्थावराः, “स्थेशभासपिसकसो वरः” (सि०५-२-८२) इति वरप्रत्ययः, पृथिवीकायिका अप्कायिकास्तेजस्कायिका वायुकायिका वनस्पतिकायिका एकेन्द्रियाः, वद्विपाकवेद्यं कर्मापि स्थावरनाम / तेजोवायूनां तु स्थावरनामोदयेऽपि चलनं खामाविकमेव, न पुनरुष्णाद्यभिवापेन द्वीन्द्रियादीनामिव विशिष्टम् 1 इति / यदुदयात् सूक्ष्माः पृथिवीकायिकादयः पञ्च भवन्ति तदपि जीवविपाकि सूक्ष्मनामकर्म 2 इति / यदुदयात् पूर्वोक्तखयोग्यपर्याप्तिपरिसमाप्तिविकला जन्तवो भवन्ति तद् अपर्याप्तनाम, अपर्याप्तयो विद्यन्ते येषां तेऽपर्याप्ता इति कृत्वा, तन्निबन्धनं नाम अपर्याप्तनाम / तत्र द्वेषा अपर्याप्ताः-लब्ध्या करणैश्च / तत्र येऽपर्याप्तका एव सन्तो प्रियन्ते, न पुनः खयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ति ते लब्ध्यपर्याप्ताः। ये पुनः करणानि-शरीरेन्द्रियादीनि न तावत् निर्वर्तयन्ति, अथ चावश्यं पुरस्वाद् निर्वर्तयिष्यन्ति ते करणापर्याप्ताः / इह चैवमागमः-लब्ध्यपर्याप्ता अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव प्रियन्ते नार्वाक्, यस्मादागामिभवायुर्बदा प्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव बध्यत इति 3 / यदुदयाद् अनन्तानां जीवानां साधारणम्-एकं शरीरं भवति तत् साधारणनाम 1 / यदुदयात् कर्णधूजिहाद्यवयवा अनुपट्टतेऽपि बहूनां भवति प्रियस्वस्य सुभगनामोदयः॥ सुभगोदयेऽपि खलु कश्चित् कश्चिदासाथ दुर्भगो यद्यपि / जायते तद्दोषातू यथाऽभव्याजां तीर्थकरः॥ २त्ति यशसः यशोनामकर्मोदयेन ययःकी ग०॥