________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाया अस्थिराः-चपला भवन्ति तद् अस्थिरनाम 5 / यदुदयाद् नाभेरधः पादादीनामवयवानामशुभता भवति तद् अशुभनाम, पादादिना हि स्पृष्टः परो रुष्यतीति तेषामशुभत्वम् / कामिनीव्यवहारेण व्यभिचार इति चेत् , नैवम् , तस्य मोहनिबन्धनत्वात् , वस्तुस्थितिश्चेह चिन्त्यत इति 6 / यदुदयवशाद् उपकारकृदपि जनस्याऽप्रियो भवति तद् दुर्भगनाम / उक्तं च उवगारकारगो वि हु, न रुचई दूभगो उ जस्सुदए / 7 इति / यदुदयात् खरभिन्नहीनखरो भवति तद् दुःखरनाम 8 / यदुदयवशाद् युक्तियुक्तमपि ब्रुवाणो नाऽऽदेयवचनो भवति न च लोकोऽभ्युत्थानादि तस्य करोति तद् अनादेयनाम 9 / यदुदयात् पूर्वप्रदर्शिते यशःकीर्ती न भवतस्तद् अयशःकीर्तिनाम 10 इति // 50 // व्याख्यातं द्विचत्वारिंशद्भेदं त्रिनवति मेदं त्र्युत्तरशतमेदं सप्तपष्टिमेदं षष्ठं नाम / सम्प्रति द्विभेदं गोत्रकर्माभिधित्सुराह गोयं दुहुच्चनीयं, कुलाल इव सुघडभुंभलाईयं। विग्धं दाणे लाभे, भोगुवभोगेसु विरिए य // 51 // ___ गोत्रं प्राग्वर्णितशब्दार्थ 'द्विधा' द्विभेदम् , कथम् ? इत्याह-'उच्चनीचं' उच्चं च नीचं च उच्चनीचम् , उच्चैर्गोत्रं नीचैर्गोत्रमित्यर्थः / एतच्च 'कुलाल इव' कुम्भकारतुल्यम् / शोभनो घटः सुघटः-पूर्णकलशः, भुम्भलं-मद्यस्थानम् , सुघटभुम्भले आदी यस्य तत्कृतोपकरणस्य तत् सुघटभुम्भलादि करोतीति शेषः / अयमत्र भावः—यथा हि कुलालः पृथिव्यास्तादृशं पूर्णकलशादिरूपं करोति यादृशं लोकात् कुसुमचन्दनाक्षतादिभिः पूजां लभते, स एव भुम्भलादि तादृशं विदधाति यादृशमप्रक्षिप्तमद्यमपि लोकाद् निन्दा लभते; तथा यदुदयाद् निर्धनः कुरूपो बुद्ध्यादिपरिहीणोऽपि पुरुषः सुकुलजन्ममात्रादेव लोकात् पूजां लभते तद् उच्चै!त्रम् 1; यदुदयात् पुनर्महाधनोऽप्रतिरूपरूपो बुद्ध्यादिसमन्वितोऽपि पुमान् विशिष्टकुलाsभावाद् लोकाद् निन्दां प्राप्नोति तद् नीचैर्गोत्रम् 2 इति / उक्तं द्विविधं गोत्रकर्म // ___ अथ विघ्नकर्म पञ्चधा व्याख्यानयन्नाह-"विग्धं दाणे लाभे" इत्यादि। विशेषेण हन्यन्तेतदानादिलब्धयो विनाश्यन्तेऽनेनेति विघ्नम्-अन्तरायकर्म / तच्च विषयभेदात् पञ्चधेति दर्शयति-दीयत इति दानं तस्मिन् , लभ्यत इति लाभस्तसिन्, भुज्यते-सकृदुपभुज्यत इति भोगः पुष्पाहारादिः, उपेति-पुनः पुनर्भुज्यत इति उपभोगो भवेनाऽऽसनाऽजनादि / उक्तं च__ सइ भुज्जइ ति भोगो, सो पुण आहारपुप्फमाईसु / . उवभोगो उ पुणो पुण, उवभुज्जइ भवणवणियाई / / (वृ०क०वि० गा० 165) ततो भोगश्च उपभोगश्च भोगोपभोगौ तयोः, प्राकृतवशाच द्विवचनस्थाने बहुवचनं भवति, यदाहुः श्रीहेमचन्द्रसूरिपादाः स्वप्राकृतलक्षणे-"द्विवचनस्य बहुवचनम्" ( सि०८-३१३०) इति / विशेषेण ईर्यते-चेश्यतेऽनेनेति वीर्यम् , यद्वा विविधम्-अनेकप्रकारमीरयति यत् प्राणिनं क्रियासु तद् वीर्य सामर्थ्य शक्तिरिति पर्यायास्तस्मिन् 'चः' समुच्चये, सर्वत्र विन. 1 उपकारकारकोऽपि हि न रोचते दुर्भगस्तु यस्योदये // 2 °वनवसना ग० 0 // 3 सकृभुज्यते इति भोगः स पुनराहारपुष्पादिषु / उपभोगस्तु पुनः पुनरुपभुज्यते भवननितादि //