________________ 51-53] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / मिति योज्यम् / विषयसप्तमी चेयं सर्वत्र / ततो दानादिविषयभेदतो दानादिविषयं पञ्चधा विनं कर्म भवतीति वाक्याक्षरार्थः / भावार्थस्त्वयम्-सत्यपि दातव्ये वस्तुनि, आगते च गुणवति पात्रे,जानन्नपि दानफलं, यदुदयाद दातुं नोत्सहते तद दानान्तरायम् / यदुदयाद विशिष्टेऽपि दातरि, विद्यमानेऽपि देये वस्तुनि, याच्नाकुशलोऽपि याचको न लभते तद् लाभान्तरायम् 2 / यदुदयात् सति विभवादौ सम्पद्यमाने चाहारमाल्यादौ विरतिहीनोऽपि न मुझे तद् भोगान्तरायम् 3 / यदुदयाद् विद्यमानमपि वस्त्रालङ्कारादि नोपभुढे तद् उपभोगान्तरायम् 4 / यदुदयवशाद् बलवान् नीरुजो वयःस्थोऽपि च तृणकुमीकरणेऽप्यसमर्थस्तद् वीर्यान्तरायम् 5 इति // 51 // एतच्च भाण्डागारिकसममिति दर्शयन्नाह. सिरिहरियसमं एयं, जह पडिकूलेण तेण रायाई। न कुणइ दाणाईयं, एवं विग्घेण जीवो वि॥५२॥ - श्रियो गृहं श्रीगृहं-भाण्डागारं तद् विद्यते यस्य स श्रीगृहिकः-भाण्डागारिकतेन समंतुल्यमेतदन्तरायकर्म / यथा 'तेन' श्रीगृहिकेण 'प्रतिकूलेन' अननुकूलेन 'राजादिः' राजानृपतिः, आदिशब्दात् श्रेष्ठीश्वरतलवरादिपरिग्रहः 'न करोति' कर्तुं न पारयति दानादि, आदिशब्दाद् लामभोगोपभोगादिग्रहणम् / एवम्' अमुना श्रीगृहिकदृष्टान्तेन 'विघ्नेन' अन्तरायकर्मणा 'जीवोऽपि' जन्तुरपि दानादि कर्तुं न पारयतीति // 52 // व्याख्यातं पञ्चविधमन्तरायं कर्म, तद्व्याख्याने च समर्थिता "इह नाणदंसणावरणवेय" (गा०३) इत्यादिमूलगाथा / अथ "कीरइ जिएण हेऊहिँ जेण तो भन्नए कम्मं" (गा०१) इत्यादौ यदुक्तं तद्व्याख्यानार्थ यस्य कर्मणो ये बन्धहेतवस्तान् कचन हेतुद्वारेण काऽपि च हेतुमवारेण दिदर्शयिषुराह पडिणीयत्तण निन्हव, उवघाय पओस अंतराएणं / अचासायणयाए, आवरणदुर्ग जिओ जयइ // 53 // 'आवरणद्विकं' ज्ञानावरणदर्शनावरणरूपं जीवः 'जयति' धातूनामनेकार्थत्वाद् बध्नातीति सम्बन्धः / तत्र ज्ञानस्य-मत्यादेर्शानिनां-साध्वादीनां ज्ञानसाधनस्य-पुस्तकादेः 'प्रत्यनीकत्वेन' तदनिष्टाचरणलक्षणेन 'निहवेन' न मया तत्समीपेऽधीतमित्यादिखरूपेण 'उपघातेन' मूलतो विनाशखरूपेण 'प्रद्वेषेण' आन्तराप्रीतिरूपेण 'अन्तरायेण' भक्तपानवसनोपायलाभनिवारणलक्षणेन 'अत्याशातनया' च जात्यायुद्धट्टनादिहीलारूपया ज्ञानावरणं कर्म जयतीति सर्वत्र द्रष्टव्यम् / एतच्चोपलक्षणम् , अतो ज्ञान्यवर्णवादेन आचार्योपाध्यायाधविनयेनाऽकालखाध्यायकरणेन काले च खाध्यायाऽविधानेन प्राणिवधाऽनृतभाषणस्तैन्याऽब्रह्मपरिग्रहरात्रिभोजनाऽविरमणादिभिश्च ज्ञानावरणं जयतीत्याद्यपि वक्तव्यमिति / एवं दर्शनावरणेऽपि वाच्यम् , नवरं दर्शनाभिलापो वक्तव्यः / तथाहि-दर्शनस्य-चक्षुर्दर्शनादेर्दर्शनिनां-साध्वादीनां दर्शनसासाधनस्य-श्रोत्रनयननासिकादेः सम्मत्यनेकान्तजयपताकादिप्रमाणशास्त्रपुस्तकादेर्वा प्रत्यनीकत्वेन तदनिष्टाचरणलक्षणेन, निहवेन-न मया तत्समीपेऽधीतमित्यादिखरूपेण, उपघातेन१°ऽथ च ख० ग० अ०॥ 2 °कखनिहवोपघातान्तरायायाशातनादिभिर्दर्शक० घ० पुस्तकयोरेवं पाठः //