________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोतः [गाथा मूलतो विनाशेन, प्रद्वेषेण-आन्तराप्रीत्यात्मकेन, अन्तरायेण-मक्तपानवसनोपायलामनिवराणेन, अत्याशातनया च-जात्यादिहीलया दर्शनावरणं कर्म जयतीति सर्वत्र द्रष्टव्यम् / उपलक्षणमिदम् , अतो दर्शनिनां दूषणग्रहणेन श्रवणकर्तननेत्रोत्पाटननासाछेदजिहाविकर्तनादिना प्राणिवधाऽनृतभाषणस्तैन्याऽब्रह्मपरिग्रहरात्रिभोजनाऽविरमणादिभिश्च दर्शनावरणं जयतीत्याद्यपि वक्तव्यम् / यदवादि श्रीहेमचन्द्रसूरिप्रभुपादैः ज्ञानदर्शनयोस्तद्वत् , तद्धेतूनां च ये किल / विघ्ननिहवपैशून्याऽऽशातनाघातमत्सराः॥ ते ज्ञानदर्शनावारकर्महेतव आश्रवाः / (योगशा० टी० पत्र 306-2) // 53 // उक्ता ज्ञानावरणदर्शनावरणबन्धहेतवः / इदानीं वेदनीयस्य द्विविधस्यापि तानाह गुरुभत्तिखंतिकरुणावयजोगकसायविजयदाणजुओ। दढधम्माई अजइ, सायमसायं विवजयओ॥५४॥ इह युतशब्दस्य प्रत्येकं योगः, ततो गुरवः-मातापितृधर्माचार्यादयस्तेषां भक्तिः-आसनादिप्रतिपत्तिर्गुरुभक्तिस्तया युतो गुरुभक्तियुतः-गुरुभक्तिसमन्वितो जन्तुः 'सातं' सातवेदनीयम् 'अर्जयति' समुपार्जयतीति सम्बन्धः / 'क्षान्तियुतः' क्षमान्वितः 'करुणायुतः' दयापरीतचेताः 'व्रतयुतः' महाव्रताऽणुव्रतादिसमन्वितः 'योगयुतः' दशविधचक्रवालसामाचार्याद्याचरणप्रगुणः 'कषायविजययुतः' क्रोधादिकषायपरिभवनशीलः 'दानयुतः' दानरुचिः 'दृढधर्मः' आपत्खपि निश्चलधर्मः, आदिशब्दाद् बालवृद्धग्लानादिवैयावृत्त्यकरणशीलो जिनचैत्यपूजापरायणश्च सातम् 'अर्जयति' बध्नाति / यदवाचि देवपूजागुरूपास्तिपात्रदानदयाक्षमाः। (योगशा० टी० पत्र 306-2) सरागसंयमो देशसंयमोऽकामनिर्जरा / शौचं बालतपश्चेति, सद्वेद्यस्य स्युराश्रवाः // (योगशा० टी० पत्र 306-2) तथा 'विपर्ययतः' सातबन्धविपर्ययेण असातमर्जयति, तथाहि-गुरूणामवज्ञायकः क्रोधनो निर्दयो व्रतयोगविकल उत्कटकषायः कार्पण्यवान् सद्धर्मकृत्यप्रमत्तः हस्त्यश्वबलीवर्दादिनिर्दयदमनवाहनलाञ्छनादिकरणप्रवणः खपरदुःखशोकवधतापक्रन्दनपरिदेवनादिकारकश्चेति / यदभ्यघायिदुःखशोकवधास्तापक्रन्दने परिदेवनम् / खान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाश्रवाः // (योगशा० टी० पत्र 306-2) // 54 // उक्ता वेदनीयस्य बन्धहेतवः / साम्प्रतं मोहनीयस्य द्विविधस्यापि तानाह उम्मग्गदेसणामग्गनासणादेवदव्वहरणेहिं / ___दसणमोहं जिणमुणिचेइयसंघाइपडिणीओ // 55 // उन्मार्गस्य-भवहेतोर्मोक्षहेतुत्वेन देशना-कथनमुन्मार्गदेशना, मार्गस्य-ज्ञानदर्शनचारित्रलक्षणस्य मुक्तिपथस्य नाशना-अपलपनं मार्गनाशना, देवद्रव्यस्य-चैत्यद्रव्यस्य हरणं-भक्षणोपेक्षणप्रज्ञाहीनत्वलक्षणम्, तत उन्मार्गदेशना च मार्गनाशना च देवद्रव्यहरणं चे तैहेतुभिर्जीवः 1 देवपूजा गुरूपास्तिः पात्रदानं दया क्षमा / इति योगशाले॥ 2 च इति हेतु क० ग० 10 //