________________ 51-56] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / 'दर्शनमोहं' मिथ्यात्वमोहनीयमर्जयति / तथा 'जिनमुनिचैत्यसङ्घादिपत्यनीक:' तत्र जिना:तीर्थकराः, मुनयः-साधवः, चैत्यानि-प्रतिमारूपाणि, सङ्घः-साधुसाध्वीश्रावकश्राविकालक्षणः, आदिशब्दात् सिद्धगुरुश्रुतादिपरिग्रहः, तेषां प्रत्यनीकः-अवर्णवादाशातनाद्यनिष्टनिर्वतको दर्शनमोहमर्जयति / यदभाणि वीतरागे श्रुते सङ्घ, धर्मे सर्वसुरेषु च / अवर्णवादिता तीव्रमिथ्यात्वपरिणामिता // सर्वज्ञसिद्धदेवापहवो धार्मिकदूषणम् / उन्मार्गदेशनानग्रहोऽसंयतपूजनम् // असमीक्षितकारित्वं, गुर्वादिष्ववमानना / इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः // (योगशा० टी० पत्र 307-1) // 55 // दुविहं पि चरणमोहं, कसायहासाइविसयविवसमणो। बंधइ नरयाउ महारंभपरिग्गहरओ रुद्दो॥५६॥ 'द्विविधमपि' द्विभेदमपि 'चरणमोहं' चारित्रमोहनीयं-कषायमोहनीयनोकषायमोहनीयरूपं जीवो बनातीति सम्बन्धः / किंविशिष्टः? इत्याह-'कषायहास्यादिविषयविवशमनाः' तत्र कषायाः-क्रोधादय उक्तखरूपाः षोडश, हास्यादयः-हास्यरत्यरतिशोकमयजुगुप्सा इति गृह्यन्ते, विषयाः-शब्दरूपरसगन्धस्पर्शाख्याः पञ्च, ततः कषायाश्च हास्यादयश्च विषयाश्च कषायहास्यादिविषयास्तैर्विवशं-विसंस्थुलं पराधीनं मनः-मानसं यस्य स कषायहास्यादिविषयविवशमनाः / इदमत्र हृदयम्-कपायविवशमनाः कषायमोहनीयं बध्नाति, हास्यादिविवशम. नास्तु हास्यादिमोहनीयं-हास्यमोहनीयरतिमोहनीयाऽरतिमोहनीयशोकमोहनीयभयमोहनीयजुगुप्सामोहनीयाख्यं नोकषायमोहनीयं बध्नाति, विषयविवशमनाः पुनर्वेदत्रयाख्यं नोकषायमोहनीयं बध्नाति / सामान्यतः सर्वेऽपि कषायहास्यादिविषया द्विविधस्यापि चारित्रमोहनीयस्य बन्धहेतवो भवन्ति / यत्प्रत्यपादि कषायोदयतस्तीत्रः, परिणामो य आत्मनः / चारित्रमोहनीयस्य, स आश्रव उदीरितः // उत्पासनं सकन्दर्पोपहासो हासशीलता / बहुप्रलापो दैन्योक्तिहस्स्यस्यामी स्युराश्रवाः // देशादिदर्शनौत्सुक्य, चित्रे रमणखेलने / परचित्तावर्जना चेत्याश्रवाः कीर्तिता रतेः // असूया पापशीलत्वं, परेषां रतिनाशनम् / अकुशलप्रोत्साहनं, चारतेराश्रवा अमी // वयं भयपरीणामः, परेषामथ भापनम् / त्रासनं निर्दयत्वं च, भयं प्रत्याश्रवा अमी॥ परशोकाविष्करणं, खशोकोत्पादशोचने / रोदनादिप्रसक्तिश्च, शोकस्यैते स्युराश्रवाः // चतुर्वर्णस्य सङ्घस्य, परिवादजुगुप्सने / सदाचारजुगुप्सा च, जुगुप्सायां स्युराश्रवाः // ईर्ष्या विषादगाबें च, मृषावादोऽतिवक्रता / परदाररतासक्तिः, स्त्रीवेदस्याभवा इमे // खदारमात्रसन्तोषोऽनीर्ष्या मन्दकषायता / अवक्राचारशीलत्वं, पुंवेदस्याश्रवा इति // स्त्रीपुंसानङ्गसेवोग्राः, कषायास्तीवकामता / पाखण्डिस्त्रीव्रतंभक्तः, षण्ढवेदाश्रवा अमी॥ साधूनां गर्हणा धोन्मुखानां विघ्नकारिता / मधुमांसविरतानामविरत्यभिवर्णनम् // विरताविरतानां चान्तरायकरणं मुहुः / अचारित्रगुणाख्यानं, तथा चारित्रदूषणम् // १°वर्जनं योगशास्त्रे // 2 °तभ्रंशः योगशास्त्रे॥