________________ 62 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा कषायनोकषायाणामन्यस्थानामुदीरणम् / चारित्रमोहनीयस्य, सामान्येनाश्रवा अमी // (योगशा० टी० पत्र 307-1) अभिहिता मोहनीयस्य बन्धहेतवः / सम्प्रति चतुर्विधस्याप्यायुषस्तानाह-"बंधइ नरयाउ" इत्यादि / 'बध्नाति' अर्जयति 'नरकायुः' नारकायुष्कं जीवः / किंविशिष्टः इत्याह-'महारम्भपरिग्रहरतः' महारम्भरतो महापरिग्रहरतश्चेत्यर्थः / 'रौद्रः' रौद्रपरिणामो गिरिभेदसमानकषायरौद्रध्यानाऽऽरूषितचेतोवृत्तिरित्यर्थः / उपलक्षणत्वात् पञ्चेन्द्रियवधादिपरिग्रहः / यन्यगादिपञ्चेन्द्रियप्राणिवधो, बहारम्भपरिग्रहौ / निरनुग्रहता मांसभोजनं स्थिरवैरता / रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकषायता / कृष्णनीलकापोताश्च, लेश्या अनृतभाषणम् // परद्रव्यापहरणं, मुहुर्मैथुन सेवनम् / अवशेन्द्रियता चेति, नरकायुष आश्रवाः // (योगशा० टी० पत्र 307-1) // 56 // उक्ता नरकायुषो बन्धहेतवः / इदानी तिर्यगायुषस्तानाह तिरियाउ गूढहियओ, सढो ससल्लो तहा मणुस्साउं / पयईइ तणुकसाओ, दाणरुई मज्झिमगुणो य // 7 // तिर्यगायुर्बध्नाति जीवः, किंविशिष्टः ? इत्याह-'गूढहृदयः' उदायिनृपमारकादिवत् तथा आत्माभिप्रायं सर्वथैव निगृहति यथा नापरः कश्चिद् वेत्ति, 'शठः' वचसा मधुरः परिणामे तु दारुणः, 'सशल्यः' रागादिवशाऽऽचीर्णाऽनेकव्रतनियमाऽतिचारस्फुरदन्तःशल्योऽनालोचिताऽप्रतिक्रान्तः, तथाशब्दाद् उन्मार्गदेशनादिपरिग्रहः / उक्तं च उन्मार्गदेशना मार्गप्रणाशो गूढ चित्तता। आर्तध्यानं सशल्यत्वं, मायारम्भपरिग्रहौ। शीलवते सातिचारो, नीलकापोतलेश्यता / अप्रत्याख्यानकषायास्तिर्यगायुष आश्रवाः // (योगशा० टी० पत्र 307-2) उक्तास्तिर्यगायुर्बन्धहेतवः। अथ मनुष्यायुषस्तानाह-"मणुस्साउं" इत्यादि / मनुष्यायुजीवो बध्नाति, किंविशिष्टः! इत्याह-प्रकृत्या' खभावेनैव 'तनुकषायः' रेणुराजिसमानकषायः, 'दानरुचिः' यत्र तत्र वा दानशीलः, मध्यमास्तदुचिताः केचिद् गुणाः-क्षमामार्दवाऽऽर्जवादयो यस्य स मध्यमगुणः, अधमगुणस्य हि नरकायुःसम्भवाद्, उत्तमगुणस्य तु सिद्धेः सुरलोकायुषो वा सम्भवादिति भावः / चशब्दाद् अल्पपरिग्रहाऽल्पारम्भादिपरिग्रहः / आह च अल्पौ परिग्रहारम्भौ, सहजे मार्दवाऽऽर्जवे / कापोतपीतलेश्यात्वं, धर्मध्यानानुरागिता // प्रत्याख्यानकषायत्वं, परिणामश्च मध्यमः / संविभागविधायित्वं, देवतागुरुपूजनम् // पूर्वालापप्रियालापौ, सुखप्रज्ञापनीयता / लोकयात्रासु माध्यस्थ्यं, मानुषायुष आश्रवाः // (योगशा० टी० पत्र० 307-2) उक्ता मनुष्यायुषो बन्धहेतवः / सम्प्रति देवायुषस्तानाह-- अविरयमाइ सुराउं, बालतवोऽकामनिज्जरो जयइ। 1 °प्रहाः ख० ग०७०॥ 2 °नाः क योगशास्त्रे // 3 °णुस्याउ 60 ख० घ० 0 // ४°तवाऽकाक०ख०ग०१०॥