________________ 57-58] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / 63 ___सरलो अगारविल्लो, सुहनामं अन्नहा असुहं // 58 // 'अविरतः' अविरतसम्यग्दृष्टिः 'सुरायुः' देवायुष्कं 'जयति' बध्नाति, आदिशब्दाद् देशविरतसरागसंयतपरिग्रहः / वीतरागसंयतस्त्वतिविशुद्धत्वादायुन बध्नाति, घोलनापरिणाम एव वस्य बध्यमानत्वात् / बालं तपो यस्य सः 'बालतपाः' अनधिगतपरमार्थखभावो दुःखगर्ममोहगर्भवैराग्योऽज्ञानपूर्वकनिर्वर्तिततपःप्रभृतिकष्टविशेषो मिथ्यादृष्टिः, सोऽप्यात्मगुणानुरूपं किश्चिदसुरादिकायुर्बध्नाति / यदाह भगवान् भाष्यकार:. बोलतवे पडिबद्धा, उक्कडरोसा तवेण गारविया / वेरेण य पडिबद्धा, मरिउं असुरेसु उववाओ // (60 ग्र० गा० 160) अकामस्य-अनिच्छतो निर्जरा-कर्मविचटनलक्षणा यस्यासावकामनिर्जरः / इदमुक्तं भवति-"अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीयायवदंसमसगअण्हाणगसेयजल्लमलपंकपरिग्गहेणं दीहरोगचारगनिरोहबंधणयाए गिरितरुसिहरनिवडणयाए जलजलणपवेसअणसणाईहिं" उदकराजिसमानकषायस्तदुचितशुभपरिणामः किञ्चिद् व्यन्तरादिकायुर्बध्नाति / उपलक्षणत्वात् कल्याणमित्रसम्पर्कमानसो धर्मश्रवणशील इत्यादिपरिग्रहः। यदाहुः सरागसंयमो देशसंयमोऽकामनिर्जरा / कल्याणमित्रसम्पकों, धर्मश्रवणशीलता // पात्रे दानं तपः श्रद्धा, रत्नत्रयाऽविराधना / मृत्युकाले परीणामो, लेश्ययोः पद्मपीतयोः / बालतपोऽमितोयादिसाधनोल्लम्बनानि च / अव्यक्तसामायिकता, देवस्यायुष आश्रवाः // (योगशा० टी० पत्र 307-2) उक्ता देवायुषो बन्धहेतवः / सम्प्रति नामकर्म यद्यपि द्विचत्वारिंशदादिभेदादनेकधा तथापि शुभाशुभविवक्षया द्विविधमित्यस्य द्विविधस्यापि बन्धहेतूनाह--"सरलो" इत्यादि / 'सरलः' सर्वत्र मायारहितः, गौरवाणि-ऋद्धिरससातलक्षणानि विद्यन्ते यस्य स गौरववान् , न गौरववान् अगौरववान् “आल्विल्लोल्लालवन्तमन्तेचेरमणा मतोः" (सि० 8-2-159) इति प्राकृतसूत्रेण मतोः स्थान इल्लादेशः / उपलक्षणत्वात् संसारमीरु:-क्षमामार्दवार्जवादिगुणयुक्तः शुभंदेवगतियशःकीर्तिपञ्चेन्द्रियजात्यादिरूपं नामकर्म बध्नाति / 'अन्यथा' उक्तविपरीतखभावः, तथाहि-मायावी गौरववान् उत्कटक्रोधादिपरिणामः 'अशुभं' नरकगत्ययशःकीत्येकेन्द्रियादिजातिलक्षणं नामकर्मार्जयतीति / उक्तं च मनोवाक्कायवक्रत्वं, परेषां विप्रतारणम् / मायाप्रयोगो मिथ्यात्वं, पैशून्यं चलचितता / / सुवर्णादिप्रतिच्छन्दःकरणं कूटसाक्षिता / वर्णगन्धरसस्पर्शान्यथोपपादनानि च // अङ्गोपाङ्गच्यावनानि, यन्त्रपञ्जरकर्म च / कूटमानतुलाकर्माऽन्यनिन्दात्मप्रशंसनम् // हिंसानृतस्तेयाऽब्रह्ममहारम्भपरिग्रहाः / परुषाऽसभ्यवचनं, शुचिवेषादिना मदः॥ १बालतपसि प्रतिबद्धा उत्कटरोषास्तपसा गर्विताः। वैरेण च प्रतिबद्धाः (तेषां) मृला असुरेषु उपपातः // 2 अकामतृष्णया अकामक्षुधया अकामब्रह्मचर्यवासेन अकामशीतातपदंशमशकानानकखेदजल्लमलपपरिग्रहेण दीर्घरोगचारकनिरोधबन्धनतया गिरितरुशिखरनिपतनतया जलज्वलनप्रवेशानशनादिभिः॥ ३ाद्यन्यथामादनानि च / ग० 0 योगशास्त्रे च॥