________________ 'देवेन्द्रसरिविरक्तिखोपज्ञटीकोपेतः मम मौखर्याकोशौ सौभाग्योपघाताः कार्मणक्रिया / परकौतूहलोत्पादः, परहास्यविडम्बने / धेश्यादीनामलङ्कारदानं दावामिदीपनम् / देवादिव्याजाद्गन्धादिचौर्य तीव्रकषायता // चैत्यप्रतिश्रयाऽऽरामप्रतिमानां विनाशनम् / अकारादिक्रिया चेत्यशुभस्य नाम्न आश्रवाः / / एत एवान्यथारूपास्तथा संसारमीरुता / प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च // दर्शने धार्मिकाणां च, सम्प्रमः खागतक्रिया / परोपकारसारत्वमाश्रवाः शुभनामनि / / (योगशा० टी० पत्र 307-2) // 58 // उक्ता नानो बन्धहेतवः / सम्प्रति गोत्रस्य द्विविधस्यापि तानाह गुणपेही मयरहिओ, अज्झयणऽज्झावणारई निचं / पकुणइ जिणाइभत्तो, उच्चं नीयं इयरहा उ॥ 59 // 'गुणप्रेक्षी' यस्य यावन्तं गुणं पश्यति तस्य तमेव प्रेक्षते पुरस्करोति, दोषेषु सत्खप्युदास्त इत्यर्थः / 'मदरहितः' विशिष्टजातिलाभकुलैश्वर्यबलरूपतपःशुवादिसम्पत्समन्वितोऽपि निरहचारः, 'नित्यं' सर्वदा 'अध्ययनाध्यापनारुचिः' खयं पठति इतरांश्च पाठयति, अर्थतश्च खयममीक्ष्णं विमृशति परेषां च व्याख्यानयति, असत्यां वा पठनादिशक्तौ तीव्रबहुमानः परानध्ययनाध्यापनापरायणान् अनुमोदते, तथा 'जिनादिभक्तः जिनानां-तीर्थनाथानाम् आदिशब्दात सिद्धाऽऽचार्योपाध्यायसाधुचैत्यानामन्येषां च गुणगरिष्ठानां भक्तः-बहुमानपरः 'प्रकरोति' प्रकर्षण समुपार्जयति 'उच्चम्' उच्चैर्गोत्रम् / 'नीच' नीचेोत्रम् 'इतरथा तु' मणितविपरीतखमावः / उक्तं चपरस्य निन्दावज्ञोपहासाः सद्गुणलोपनम् / सदसद्दोषकथनमात्मनस्तु प्रशंसनम् // सदसद्गुणशंसा च, खदोषाच्छादनं तथा / जात्यादिभिर्मदश्चेति, नीचैर्गोत्राश्रवा अमी॥ नीचैगोत्रावविपर्यासो विगतगर्वता / वाकायचितैर्विनयः, उच्चैगोत्राश्रवा अमी॥ (योगशा० टी० पत्र 308-1) // 59 // उक्ता गोत्रस्य बन्धहेतवः / साम्प्रतमन्तरायस्य ये बन्धहेतवस्तानभिषित्सुः शास्त्रमिदं समर्थयन्नाह जिणपूयाविग्घकरो, हिंसाइपरायणो जयह विग्धं / / इय कम्मविवागोऽयं, लिहिओ देविंदसूरीहिं॥६०॥ 'जिनपूजाविघ्नकरः' सावद्यदोषोपेतत्वाद् गृहिणामप्येषा अविधेया इत्यादिकुदेशनादिभिः समयान्तस्तत्त्वदूरीकृतो जिनपूजानिषेधक इत्यर्थः। हिंसा-जीववध आदिशब्दाद् अनृतभाषणस्तैन्याऽब्रमपरिग्रहरात्रिभोजनाऽविरमणादिपरिग्रहस्तेषु परायणः-तत्परः, उपलक्षणत्वात् मोक्षमार्गस्य ज्ञानदर्शनचारित्रादेतदोषग्रहणादिना विघ्नं करोति, साधुभ्यो वा भक्तपानोपायोपकरणभैषजादिकं दीयमानं निवारयति, तेन चैतद् विदधता मोक्षमार्गः सर्वोऽपि विनितो भवति, अपरेषामपि सत्त्वानां दानलाभभोगपरिभोगविघ्नं करोति, मन्त्रादिप्रयोगेण च परस्य वीर्यमपहरति, हठाच्च वधबन्धनिरोधादिभिः परं निश्चेष्टं करोति, छेदनभेदनादिभिश्च परस्येन्द्रियश१भाश्रवाः शुभनानोऽथ तीर्थकृतान्न आश्रवाः // इति योगशास्त्रे // २ज्ञानचा ख ग घ०॥