________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा तिर्यक्षु नरकेष्वित्यर्थः, ओसन्नशब्दस्येहापि सम्बन्धादसातम्, 'तुः' पुनरर्थे व्यवहितसम्बन्धश्च, स चैवं योज्यते-तिर्यमरकेषु पुनरसातं प्रायो भवति / ओसन्नग्रहणात् केषाञ्चित् पट्टहस्तितुरगादीनां तिरश्चां नारकाणामपि जिनजन्मकल्याणकादिषु सातमप्यस्तीति / उक्त द्विविधं वेदनीयं तृतीयं कर्म // ___ इदानीमष्टाविंशतिविधं मोहनीयं चतुर्थ कर्माभिधित्सुराह-"मजं व मोहणीय" इत्यादि / 'मद्यमिव' मदिरासदृशं मोहयतीति मोहनीयं कर्म / “प्रवचनीयादयः" (सि० 5-1-8) इति कर्तर्यनीयप्रत्ययः / यथा हि मद्यपानमूढः प्राणी सदसद्विवेकविकलो भवति, तथा मोहनीयेनापि कर्मणा मूढो जन्तुः सदसद्विवेकविकलो भवतीति / तच 'द्विविधं द्विमैदम्, कथम् ! इत्याह-"दंसणचरणमोह"त्ति दर्शनमोहाच्चरणमोहादित्यर्थः / तत्र दृष्टिदर्शनं-यथावस्थितवस्तुपरिच्छेदस्तद् मोहयतीति “कर्मणोऽण्” (सि० 5-1-72) इत्यण्प्रत्यये दर्शनमोहम् / चरन्ति-परमपदं गच्छन्ति जीवा अनेनेति चरणं चारित्रं तद् मोहयतीति चरणमोहमिति // 13 // अथ दर्शनमोहं व्याख्यानयनाह दसणमोहं तिविहं, सम्मं मीसं तहेव मिच्छत्तं / सुद्धं अद्धविसुद्धं, अविसुद्धं तं हवह कमसो // 14 // दर्शनमोहं पूर्वोक्तशब्दार्थ 'त्रिविधं त्रिप्रकारं भवति / “सम्म"ति सम्यक्त्वं 'मिथ' सम्यग्मिथ्यात्वं तथैव मिथ्यात्वम् / एतदेव खरूपत आह-शुद्धमर्धविशुद्धमविशुद्धं तद् भवति 'क्रमशः' क्रमेणेति / अयमत्रार्थ:-मिथ्यात्वपुद्गलकदम्बकं मदनकोद्रवन्यायेन शोषितं सद् विकाराजनकत्वेन शुद्धं सम्यक्त्वं भवति, तदेव किञ्चिद्विकारजनकत्वेनापविशुद्धं मिश्रम् , तदेव सर्वथाप्यविशुद्धं मिथ्यात्वमिति / उक्तं च तद्यथेह प्रदीपस्य, खच्छाभ्रपटलैर्गृहम् / न करोत्यावृति काञ्चिदेवमेतद्रुचेरपि // .. एकपुञ्जी द्विपुञ्जी च, त्रिपुञ्जी वा ननु क्रमात् / दर्शन्युभयवांश्चैव, मिथ्यादृष्टिः प्रकीर्तितः // अत्राह-सम्यक्त्वं कथं दर्शनमोहनीयं स्यात् !, न हि तद् दर्शनं मोहयति, तस्यैव दर्शमत्वात् , उच्यते-मिथ्यात्वप्रकृतित्वेनातिचारसम्मवाद् औपशमिकादिमोहत्वांश्च दर्शनमोहनीयमिति // 14 // इत्युक्तं सङ्घ्रपतस्त्रिविधं दर्शनमोहम् / सम्प्रत्येतदेव व्याचिख्यांसुः प्रथम सम्यक्त्वखरूपमाह जियअजियपुन्नपावाऽऽसवसंवरबंधमुक्खनिजरणा / जेणं सहहह तयं, सम्म खहगाइबहुभेयं // 15 // . जीवश्च अजीवश्च पुण्यं च पापं च आश्रवश्व संवरश्च बन्धश्च मोक्षश्च निर्जरणं च निर्जरा, . एतानि नव तत्त्वानि 'येन' कर्मणा 'श्रद्दधाति' प्रत्येति तत् सम्यक्त्वमुच्यते / तत्र नव तत्त्वान्यमूनि जीवाश्ऽजीवा 2 पु+३, पावाऽऽसव 5 संवरो 6 य निजरणा / १°नां मारक० ख०म०प०3०॥ २जीवाजीवो पुण्यं पापमाश्रयः संवरथ निर्जरणा बन्धो मोक्षव तथा नव तत्त्वानि भवन्ति इति झेयानि ॥१॥एकविधद्विविधत्रिविधाचतुर्धा पचविधषद्विधा जीवा।