________________ 11-13) कर्मविपाकनामा प्रथमः कर्मग्रन्थः / "थीणद्धी" इति निपात्यते / अस्यां हि जाग्दवस्थाध्यवसितमर्थमुत्थाय साधयति / श्रूयते ह्येतदागमे कथानकम् - क्वचित् प्रदेशे कोऽपि क्षुल्लको द्विरदेन दिवा स्खलीकृतः स्त्यानर्युदये वर्तमानस्तस्मिन्नेव द्विरदे बद्धाभिनिवेशो रजन्यामुत्थाय तद्दन्तयुगलमुत्पाट्य खोपाश्रयद्वारे क्षिप्त्वा पुनः सुप्तवान् इत्यादि। __इमां च व्युत्पत्तिमाश्रित्याह-"दिणचिंतियत्थकरणी थीणद्धी" इति दिने-दिवसे चिन्तितमुपलक्षणत्वान्निशायामपि चिन्तितम्-अध्यवसितमर्थ करोति-साधयति निद्रानिद्रावतोरभेदोपचारादिनचिन्तितार्थकरणी, "रम्यादिभ्यः" (सि०५-३-१२६) कर्तर्यनद्प्रत्ययः / यद्वा स्त्याना-पिण्डीभूता ऋद्धिः-आत्मशक्तिरस्यामिति स्त्यानर्द्धिः, एतत्सद्भावे हि प्रथमसंहननस्य केशवार्धवलसदृशी शक्तिः / एनां च व्युत्पत्तिमाश्रित्याह-"अद्धचक्किअद्धबल" ति अर्धचक्रिणः-वासुदेवस्य बलापेक्षया अर्धं बलं-स्थाम यस्या उदये जन्तोर्भवति साऽर्धचयर्धबला, तद्विपाकवेद्या कर्मप्रकृतिरपि थीणद्धीति 5 / अत्र चक्षुर्दर्शनावरणादिचतुष्कं मूलत एव दर्शनलब्धिमुपहन्ति, निद्रापञ्चकं तु प्राप्ताया दर्शनलब्धेरुपघातकृत् / आह च गन्धहस्ती निद्रादयः समधिगताया एव दर्शनलब्धेरुपघाते वर्तन्ते, दर्शनावरणचतुष्टयं तूद्गमोच्छेदित्वात् समूलघातं हन्ति दर्शनलब्धिमिति (तत्त्वार्थ अ० 8 सू० 8 सिद्ध० टीका)। ___ अभिहितं द्वितीयं नवविधं दर्शनावरणम् / साम्प्रतं तृतीयं कर्म वेद्यं वेदनीयापर. पर्यायं व्याचिख्यासुराह-"महुलित" इत्यादि / मधुना-मधुररसेन लिप्ता-खरण्टिता खड्गस्य करवालस्य धारा-तीक्ष्णाग्ररूपा तस्या जिह्वया लेहनमिव-आखादनसदृशं 'द्विधैव' द्विप्रकारमेव सातासातभेदात् , तुशब्द एवकारार्थः, 'वेदनीय' वेद्यं कर्म भवति / इह च मधुलेहनसन्निभं सातवेदनीयम् , खड्गधाराच्छेदनसममसातवेदनीयम् / उक्तं च महुआसायणसरिसो, सायावेयस्स होइ हु विवागो / जं असिणा तहि छिज्जइ, सो उ विवागो असायस्स // (बृ० कर्मवि० गा० 29) // 12 // अथ गतिचतुष्टये सातासातखरूपमाह ओसन्नं सुरमणुए, सायमसायं तु तिरियनरएसु। मजं व मोहणीयं, दुविहं दंसणचरणमोहा // 13 // ओसन्नशब्दो देशीवचनो बाहुल्यवाचकः, यथा-"ओसन्नं देवा सायं. वेयणं वेयंति / " तत्र 'ओसन्नं' बाहुल्येन प्रायेणेत्यर्थः, सुराश्च-देवा मनुजाश्च-मनुष्याः सुरमनुजं समाहारद्वन्द्वः, तस्मिन् सुरमनुजे सुरेषु मनुजेष्वित्यर्थः 'सातं' सातवेदनीयं भवति / ओसन्नग्रहणात् च्यवनकालेऽन्यदाऽपि सुराणामसातोदयोऽप्यस्ति, चारकनिरोघवधबन्धनशीतातपादिभिर्मनुजानामप्यसातमिति / नरकभवाः प्राणिनोऽप्युपचारात् नरकाः, ततस्तिर्यञ्चश्च नरकाश्च तिर्यमरकास्तेषु १°समानम ख० ग० उ०॥ 2 मध्वाखादनसदृशः सातवेद्यस्य भवति खलु विपाकः / यदसिना तत्र छिद्यते स तु विपाकोऽसातस्य // ३हुख०ग०॥ बाहुल्येन देवाः सातं वेदनं वेदयन्ति /