________________ 28 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा 'तस्यावरणं' दर्शनावरणम् , तत् चतुर्धा भवति–चक्षुर्दर्शनावरणम् 1 अचक्षुर्दर्शनावरणम् 2 अवधिदर्शनावरणम् 3 केवलदर्शनावरणम् 4 इति गाथाक्षरार्थः। भावार्थस्त्वयम्-इह चक्षुर्दर्शनं नाम यत् चक्षुषा रूपसामान्यग्रहणं तस्यावरणं चक्षुर्दर्शनावरणं चक्षुःसामान्योपयोगावरणमिति यावत् 1 / अचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यद् दर्शनं खखविषयसामान्यपरिच्छेदोऽचक्षुर्दर्शनं तस्यावरणमचक्षुर्दर्शनावरणम् 2 / अवधिना रूपिद्रव्यमर्यादया दर्शनं सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणम् 3 / केवलेन सम्पूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद् दर्शनं वस्तुसामान्यांशग्रहणं तत् केवलदर्शनं तस्यावरणं केवलदर्शनावरणम् 4 / . अत्राह-ननु यथाऽवधिदर्शनावरणं कर्मोच्यते तथा मनःपर्यायज्ञानस्यापि दर्शनावरण कर्म किमिति नोच्यते ?, उच्यते-मनःपर्यायज्ञानं तथाविधक्षयोपशमपाटवात् सर्वदा विशेपानेव गृहदुत्पद्यते, न सामान्यम् , अतस्तद्दर्शनाभावात्तदावरणं कर्मापि न भवति / अत्र च चक्षुर्दर्शनावरणोदये एकद्वित्रीन्द्रियाणां मूलत एव चक्षुर्न भवति, चतुःपञ्चेन्द्रियाणां तु भूतमपि चक्षुस्तथाविधे तदुदये विनश्यति तिमिरादिना वाऽस्पष्टं भवति / चक्षुर्वर्जशेषेन्द्रियमनसां पुनर्यथासम्भवमभवनमस्पष्टभवनं वाऽचक्षुर्दर्शनावरणोदयादिति // 10 // अभिहितं दर्शनावरणचतुष्कम् , सम्प्रति निद्रापञ्चकमभिधित्सुराह सुहपडिबोहा निद्दा 1, निद्दानिद्दा 2 य दुक्खपडिबोहा। पयला 3 ठिओवविट्ठस्स पयलपयला 4 उ चंकमओ // 11 // सुखेन-अकृच्छ्रेण नखच्छोटिकामात्रेणापि प्रतिबोधः-जागरणं खप्तुर्यस्यां खापावस्थायां सा सुखप्रतिबोधा निद्रा, तद्विपाकवेद्या कर्मप्रकृतिरपि कारणे कार्योपचारात् निद्रेत्युच्यते 1 / निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा, मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, 'चः' समुच्चये, दुःखेन-कष्टेन बहुभिर्घोलनाप्रकारैरत्यर्थमस्फुटतरीभूतचैतन्यत्वेन खप्तः प्रतिबोधो यस्यां सा दुःखप्रतिबोधा, अत एव सुखप्रतिबोधनिद्रापेक्षयाऽस्या अतिशायिनीत्वम् , तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा 2 / प्रचलति-विघूर्णते यस्यां खापावस्थायां प्राणी सा प्रचला, सा च स्थितस्योर्ध्वस्थानेन उपविष्टस्य-आसीनस्य भवति, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला 3 / प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला, इयं 'तुः' पुनरर्थे 'चक्रमतः' चक्रमणमपि कुर्वतो जन्तोरुपतिष्ठते, अतः स्थानस्थितखप्तप्रभवप्रचलामपेक्ष्याऽतिशायिनीत्वमस्याः, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचलाप्रचला 4 / सूत्रे च “पयलपयला" इति हखत्वं “दीर्घहखौ मिथो वृत्तौ" (सि० 8-1-4) इति सूत्रेण / इति // 11 // दिणचिंतियत्थकरणी, थीणद्धी 5 अद्धचकिअबला। महुलित्तखग्गधारालिहणं व दुहा उ वेयणियं // 12 // स्त्याना-बहुत्वेन सङ्घातमापन्ना गृद्धिः-अभिकासा जाग्रदवस्थाध्यवसितार्थसाधनविषया खापावस्थायां सा स्त्यानगृद्धिः / “गौणादयः” (सि०८-२-१७४) इति प्राकृतसूत्रेण १°नमचक्षुर्द° क० ख० ग० घ० ङ०॥ 2 °स्यापि भ° ग०॥