________________ 9-10 कर्मविपाकनामा प्रथमः कर्मग्रन्थः। 27 ययाऽगुलीपञ्चकनिष्पन्नो मुष्टिः, मूलत्वपत्रशाखादिसमुदयनिष्पन्नो वा वृक्षः, धृतगुडकणिकादिनिष्पन्नो वा मोदक इति / एवमुत्तरत्रापि भावनीयम् / व्याख्यातं पञ्चविषं ज्ञानावरणं कर्म॥ __इदानीं नवविध दर्शनावरणं कर्म व्याख्यानयनाह-"दसणचउ पणनिदा वितिसमं दसणावरणं" ति / इह मीमो भीमसेन इति न्यायात् पदैकदेशे पदसमुदायोपचाराद्वा "दंसणचउ" इति शब्देन दर्शनावरणचतुष्कं गृह्यते / तत्र दृष्टिदर्शनम् , दृश्यते-परिच्छिद्यते सामान्यरूपं वस्त्वनेनेति वा दर्शनम् , तस्यावरणानि-आच्छादनानि दर्शनावरणानि तेषां चतुष्कं दर्शनावरणचतुष्कम् / तथा "पणनिद्द" ति द्रांक कुत्सितगती, नितरां द्राति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यं यासु ता निद्रा, "मिदादयः" (सि० 5-3-108) इति अङ्प्रत्ययः, 'पञ्च' इति पञ्चसङ्ख्याः-निद्रा१निद्रानिद्रारप्रचलाइप्रचलाप्रचलाशस्त्यानद्धि५रूपा निद्राः पञ्चनिद्रा निद्रापञ्चकम् / ततो दर्शनावरणचतुष्कं निद्रापञ्चकमिति नवधा दर्शनावरणं भवति / किंविशिष्टम् ! इत्याह-"विचिसमं" ति वेत्रिणा-प्रतीहारेण सम-तुल्यं वेत्रिसमम् / यथा राजानं द्रष्टुकामस्याप्यनभिप्रेतस्य लोकस्य वेत्रिणा स्खलितस्य राज्ञो दर्शनं नोपजायते, तथा दर्शनखभावस्याप्यात्मनो येनाऽऽवृतस्य स्तम्भकुम्भाम्भोरुहादिपदार्थसार्थस्य न दर्शनमुपजायते तद् वेत्रिसमं दर्शनावरणम् / उक्तं च दसणसीले जीवे, दंसणघायं करेह जं कम्मं / तं पडिहारसमाणं, दसणवरणं भवे कम्मं // जह रन्नो पडिहारो, अणभिप्पेयस्स सो उ लोगस्स / रन्नो तहि दरिसावं, न देइ दर्दु पि कामस्स // जह राया तह जीवो, पडिहारसमं तु दंसणावरणं / तेणिह विबंधएणं, न पेच्छए सो घडाईयं // (बृहत्कर्मवि० गा० 19-21) // 9 // अथ दर्शनावरणचतुष्कं व्याचिख्यासुराह चक्खूदिटिअपक्खूसेसिंदियओहिकेवलेहिं च। दसणमिह सामन्नं, तस्सावरणं तयं चउहा // 10 // - इह चक्षुःशब्देन दृष्टिगुंह्यते, अचक्षुःशब्देन "सेसिंदिय" ति चक्षुर्वर्जशेषेन्द्रियाणि गृह्यन्ते, ततश्चक्षुश्च अचक्षुश्च अवधिश्च केवलं च चक्षुरचक्षुरवधिकेवलानि तैः चक्षुरचक्षुरवधिकेवलैः / चशब्दः "अचक्खूसेसेंदिय" इत्यत्र मनसः संसूचकः / दर्शनम् 'इह' प्रवचने 'सामान्य सामान्योपयोग उच्यते, यदुक्तम् जं सामन्नग्गहणं, भावाणं नेव कट्ठ आगारं / अविसेसिऊण अत्थे, दंसणमिय वुच्चए समए / / (वृ० द्रव्यसं० गा०४३) 1 दर्शनशीले जीवे दर्शनघातं करोति यत् कर्म / तत् प्रतिहारसमानं दर्शनावरणं भवेत्कर्म // यथा राज्ञः प्रतिहारोऽनभिप्रेतस्य स तु लोकस्य / राजतत्र दर्शनं न ददाति द्रामपि कामस्य // यथा राजा तथा जीव: प्रतिहारसमंत दर्शनावरणम् / तेनेह विबन्धकेन न प्रेक्षते सघटादिकम् // 2 यत् सामान्यग्रहण भावानां नैव कृलाकारम् / अविशेषयिताऽर्थाम् दर्शनमित्युच्यते समये //