________________ [ے۔ कर्मविपाकनामा प्रथमः कर्मग्रन्थः / तु 'अर्थपरिसमाप्तिः पदम्' इत्याधुक्तिसद्भावेऽपि येन केनचित्पदेनाऽष्टादशपदसहस्रादिप्रमाणा आचारादिग्रन्था गीयन्ते तदिह गृह्यते, तस्यैव द्वादशाजश्रुतपरिमाणेऽधिकृतत्वात् , श्रुतभे दानामेव चेह प्रस्तुतत्वात् / तस्य च पदस्य तथाविधानायाभावात् प्रमाणं न ज्ञायते। तत्रै पर्द पदमुच्यते 5 / यादिपदसमुदायस्तु पदसमासः 6 / “गइ इंदिए य काए" (आ० नि० गा० 11) इत्यादिगाथाप्रतिपादितद्वारकलापस्यैकदेशो यो गत्यादिकस्तस्याप्येकदेशो यो नरकगत्यादिखत्र जीवादिमार्गणा यका क्रियते स सङ्घातः 7 / धादिगत्याद्यवयवमार्गणा सङ्घातसमासः 8 / गत्यादिद्वाराणामन्यतरैकपरिपूर्णगत्यादिद्वारेण जीवादिमार्गणा प्रतिपत्ति 9 / द्वारद्वयादिमार्गणा तु प्रतिपत्तिसमासः 10 / "संतपयपरूवणया दषपमाणं च" (आ० नि० गा.० 13) इत्यादि अनुयोगद्वाराणामन्यतरदेकमनुयोगद्वारमुच्यते 11 / तद्द्यादिसमुदायः पुनरनुयोगद्वारसमासः 12 / प्राभृतान्तर्वी अधिकारविशेषः प्राभृतप्राभृतम् 13 / तद्व्यादिसमुदायस्तु प्राभृतप्राभृतसमासः 14 / वस्त्वन्तर्वर्ती अधिकारविशेषः प्राभृतम् 15 / तयादिसंयोगस्तु प्राभृतसमासः 16 / पूर्वान्तर्वर्ती अधिकारविशेषो वस्तु 17 / तद्व्यादिसं. योगस्तु वस्तुसमासः 18 / पूर्वमुत्पादपूर्वादि पूर्वोक्तखरूपम् 19 / तयादिसंयोगस्तु पूर्वसमासः 20 / एवमेते संक्षेपतः श्रुतज्ञानस्य विंशतिर्भदा दर्शिताः, विस्तरार्थिना तु बृहत्कर्मप्रकृतिरन्वेषणीया / एते च पर्यायादयः श्रुतभेदा यथोतरं तीव्रतीव्रतरादिक्षयोपशमलभ्यत्वादित्यं निर्दिष्टा इति परिमावनीयमिति / अथवा चतुर्विषं श्रुतज्ञानम् , तथाहि-द्रव्यतः क्षेत्रतः कालतो भावतश्च / तत्र द्रव्यतः श्रुतज्ञानी सर्वद्रव्याण्यादेशेन जानाति, क्षेत्रतः सर्वक्षेत्रमादेशेन शुतज्ञानी जानाति, कालतः सर्व कालमादेशेन श्रुतज्ञानी जानाति, भावतः सर्वान् भावान् आदेशेन श्रुतज्ञानी जानातीति // 7 // व्याख्यातं सविस्तरं श्रुतज्ञानम् / सम्प्रत्यवधिज्ञानं व्याख्यायते, तच्च द्वेधा-भवप्रत्ययं देवनारकाणाम् , गुणप्रत्ययं मनुष्यतिरश्चाम्, तच षोढा, तथा चाह सूत्रम् अणुगामिवड्डमाणयपडिवाईयरविहा छहा ओही। रिउमइविउलमई मणनाणं केवलमिगविहाणं // 8 // आनुगामि च वर्धमानकं च प्रतिपाति च इतराणि च-अनानुगामिहीयमानकाप्रतिपातीनि आनुगामिवर्धमानकप्रतिपातीतराणि, विधानानि विधाः-भेदाः, तत आनुगामिवर्धमानकप्रतिपातीतराणि विधा यस्य तत्तथा तस्माद् आनुगामिवर्धमानकप्रतिपातीतरविधात् षड्धा 'अवघिः' अवधिज्ञानं भवति / उक्तं च नन्यध्ययने "तं समासओ छविहं पन्नतं, तं जहा-आणुगामियं अणाणुगामियं वड्डमाणयं हीयमाणयं पडिवाई अपडिवाई / ( नन्दी पत्र 81-1) तत्र गच्छन्तं पुरुषम् आ-समन्तादनुगच्छतीत्येवंशीलमानुगामि, यद्देशान्तरगतमपि ज्ञानिनमनुगच्छति लोचनवत् तद् अवधिज्ञानमानुगामीति भावः 1 / तथा न आनुगामि अनानु. 1 गतिः इन्द्रियं कायः // 2 सत्पदप्ररूपणता द्रव्यप्रमाणं च // 3 अनुगामि क० ख० ग० एवमप्रेऽपि / 4 तत् समासतःषधिं प्रज्ञप्तम् , तद्यथा-आनुगामिकमनानुगामिकं वर्धमानक हीयमानकं प्रतिपात्यप्रतिपाति॥